प्रथमः समाधि-पादः । अथ योगानुशासनम् ॥१॥ योगश् चित्त-वृत्ति-निरोधः ॥२॥ तदा द्रष्टुः स्वरूपे’वस्थानम् ॥३॥ वृत्ति-सारूप्यम् इतरत्र ॥४॥ वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥५॥ प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥६॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥ विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥८॥ शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥९॥ अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥१०॥ अनुभूत-विषयासंप्रमोषः स्मृतिः ॥११॥ अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥१२॥ तत्र स्थितौ यत्नो’भ्यासः ॥१३॥ स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः ॥१४॥ दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥१५॥ तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥१६॥ वितर्क-विचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥१७॥ विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषो’न्यः ॥१८॥ भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥१९॥ श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥२०॥ तीव्र-संवेगानाम् आसन्नः ॥२१॥ मृदु-मध्याधि-मात्रत्वात् ततो’पि विशेषः ॥२२॥ ईश्वर-प्रणिधानाद् वा ॥२३॥ क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥२४॥ तत्र निरतिशयं सर्वज्ञत्व-बीजम् ॥२५॥ स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥२६॥ तस्य वाचकः प्रणवः ॥२७॥ तज्-जपस् तद्-अर्थ-भावनम् ॥२८॥ ततः प्रत्यक्-चेतनाधिगमो’प्य् अन्तरायाभावश् च ॥२९॥ व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् ते’न्तरायाः ॥३०॥ दुःख-दौर्मनस्याङ्गम् एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः ॥३१॥ तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥३२॥ मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् ॥३३॥ प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥३४॥ विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धिनी ॥३५॥ विशोका वा ज्योतिष्मती ॥३६॥ वीत-राग-विषयं वा चित्तम् ॥३७॥ स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥३८॥ यथाभिमत-ध्यानाद् वा ॥३९॥ परमाणु परम-महत्त्वान्तो’स्य वशीकारः ॥४०॥ क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता-समापत्तिः ॥४१॥ तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥ स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का ॥४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥४४॥ सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥४५॥ ता एव स-बीजः समाधिः ॥४६॥ निर्विचार-वैशारद्ये’ध्यात्म-प्रसादः ॥४७॥ र्तंभरा तत्र प्रज्ञा ॥४८॥ श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् ॥४९॥ तज्-जः संस्कारो’न्य-संस्कार-प्रतिबन्धी ॥५०॥ तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥५१॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः । द्वितीयः साधन-पादः । तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥ समाधिभावनार्थः क्लेशतनूकरणार्थश् च ॥२॥ अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः ॥३॥ अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥६॥ सुखानुशयी रागः ॥७॥ दुःखानुशयी द्वेषः ॥८॥ स्वरसवाही विदुषो’पि तथारूढो भिनिवेशः ॥९॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥ ध्यानहेयास्तद्वृत्तयः ॥११॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥१५॥ हेयं दुःखम् अनागतम् ॥१६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥ द्रष्टा दृशिमात्रः शुद्धो’पि प्रत्ययानुपश्यः ॥२०॥ तदर्थ एव दृश्यस्यात्मा ॥२१॥ कृतार्थं प्रति नष्टम् अप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥ तस्य हेतुरविद्या ॥२४॥ तदभावात् संयोगाभावो हानं। तद्दृशेः कैवल्यम् ॥२५॥ विवेकख्यातिरविप्लवा हानोपायः ॥२६॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥२७॥ योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥२८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो’ष्टाव अङ्गानि ॥२९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्ष-भावनम् ॥३४॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥३८॥ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥३९॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥ संतोषाद् अनुत्तमः सुखलाभः ॥४२॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥ स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥४४॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥ स्थिरसुखम् आसनम् ॥४६॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥ ततो द्वन्द्वानभिघातः ॥४८॥ तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥ बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥ ततः क्षीयते प्रकाशावरणम् ॥५२॥ धारणासु च योग्यता मनसः ॥५३॥ स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥ ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः । तृतीयः विभूति-पादः । देश-बन्धश् चित्तस्य धारणा ॥१॥ तत्र प्रत्ययैकतानता ध्यानम् ॥२॥ तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥३॥ त्रयम् एकत्र संयमः ॥४॥ तज्जयात् प्रज्ञा।अ।अलोकः ॥५॥ तस्य भूमिषु विनियोगः ॥६॥ त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥७॥ तद् अपि बहिरङ्गं निर्बीजस्य ॥८॥ व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्तान्वयो निरोध-परिणामः ॥९॥ तस्य प्रशान्त-वाहिता संस्कारात् ॥१०॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥११॥ ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्यैकाग्रता-परिणामः ॥१२॥ एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥१३॥ शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥१४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ॥१६॥ शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संस्करः । तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥१७॥ संस्कार-साक्षत्-करणात् पूर्व-जाति-ज्ञानम् ॥१८॥ प्रत्ययस्य पर-चित्त-ज्ञानम् ॥१९॥ न च तत् सालम्बनं, तस्याविषयीभूतत्वात् ॥२०॥ कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे’न्तर्धानम् ॥२१॥ एतेन शब्दाद्यन्तर्धानमुक्तम् सोपक्रमं निरुपक्रमं च कर्म। तत्संयमाद् अपरान्तज्ञानम्, अरिष्टेभ्यो वा ॥२२॥ मैत्र्यादिषु बलानि ॥२३॥ बलेषु हस्तिबलादीनि ॥२४॥ प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२५॥ भुवनज्ञानं सूर्ये संयमात् ॥२६॥ चन्द्रे ताराव्यूहज्ञानम् ॥२७॥ ध्रुवे तद्गतिज्ञानम् ॥२८॥ नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥ कूर्मनाड्यां स्थैर्यम् ॥३१॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥ प्रातिभाद् वा सर्वम् ॥३३॥ हृदये चित्तसंवित् ॥३४॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥ ते समाधाव् उपसर्गा। व्युत्थाने सिद्धयः ॥३७॥ बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ॥३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥ समानजयात् प्रज्वलनम् ॥४०॥ श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥४१॥ कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥ बहिरकल्पिता वृत्तिर्महाविदेहा। ततः प्रकाशावरणक्षयः ॥४३॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥ ततो’णिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ॥४५॥ रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥ सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥४९॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥ स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनः अनिष्ट-प्रसङ्गात् ॥५१॥ क्षणतत्क्रमयोः संयमादविवेकजं ज्ञानम् ॥५२॥ जातिलक्षणदेशैरन्यता।अनवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥ तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥५४॥ सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् इति ॥५५॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूतिपादः चतुर्थः कैवल्य-पादः । जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥१॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥ निमित्तम् अप्रयोजकं प्रकृतीनां। वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ निर्माणचित्तान्यस्मितामात्रात् ॥४॥ प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥५॥ तत्र ध्यानजम् अनाशयम् ॥६॥ कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥७॥ ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ॥८॥ जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं, स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥ तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥१०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥११॥ अतीतानागतं स्वरूपतो’स्त्यध्वभेदाद् धर्माणाम् ॥१२॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥१३॥ परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥ वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ॥१५॥ न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥१६॥ तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥ न तत् स्वाभासंदृश्यत्वात् ॥१९॥ एकसमये चोभयानवधारणम् ॥२०॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥ चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥२२॥ द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥ तद् असंख्येय-वासना-चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥२४॥ विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥२५॥ तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् ॥२६॥ तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥ हानम् एषां क्लेशवद् उक्तम् ॥२८॥ प्रसंख्याने’प्य् अकुसीदस्य सर्वथाविवेक-ख्यातेर् धर्म-मेघः समाधिः ॥२९॥ ततः क्लेशकर्मनिवृत्तिः ॥३०॥ तदा सर्वावरणमलापेतस्य ज्ञानस्या।अनन्त्याज्ज्ञेयम् अल्पम् ॥३१॥ ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ॥३२॥ क्षणप्रतियोगी परिणामापरान्तनि{ग्रा}।र्ह्यः क्रमः ॥३३॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिष्ठा वा चितिशक्तिरेति ॥३४॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्यपादः । ॥ इति पातञ्जल-योग-सूत्राणि ॥