ओं स्वातन्त्र्याख्यगुणेरितेन सततं सङ्क्षोभ्यमाणान् निजाद् इच्छामन्दरकेण सारभरिताद् रूपाद् अलोलात् सदा / स्वान्तःस्थं स्वमयं स्वभिन्नसदृशं तत्त्वालिरत्नोच्चयम् बोधाह्वः प्रतिभासयन् परसरिन्नाथो जयत्य् अद्भुतः // *१ // शुद्धं स्फाटिकदर्पणेन सदृशं नित्यं स्वशक्त्युत्थितैर् अच्छत्वात् स्वमयीकृतम् बहुविधैर् बाह्यान्तरैः स्वैर् मलैः / शक्त्यैतान् अपि सर्वदात्मनि लयीकुर्वाणम् आद्यं शिवम् बोधाह्वम् प्रणतो ऽस्मि देवम् अनघं षट्कोशदावानलम् // *२ // बोधाबोधविभेदभासनपरम् बोधान्वितैर् बोधितम् बोधाबोधविहीनमूर्तिम् अमलम् बोधैकसारं विभुम् / बोधाबोधविभेदगोपनकरं स्वस्मिंस् तु तस्याप्य् अनु बोधं तं शरणं श्रयामि सततं सद्बोधसम्प्राप्तये // *३ // स्वच्छत्वाश्रयमातृभावभजनाद् वैडूर्यनामार्हताम् आसाद्यान्व् अवतारनामकलनाम् एत्याच्छमेयास्पदाम् / तत्त्वं स्वम् प्रकटं विधाय च ततः स्वम् भावम् एवागतो यस् तस्मै सततं स्वभावगुरवे नैर्गुण्यधाम्ने नमः // *४ // अच्छाच्छस्वविमर्शने ऽपि कुशलो वैडूर्यनाम्नाश्रितो यातो ऽतो ऽन्व् अवतारभावम् अमलं तत्त्वोपदेशेच्छया / शिष्याणाम् उपदिश्य तत्त्वम् अथ यः स्वं रूपम् एवागतस् तस्मै श्रीनिधये प्रकाशगुरवे सद्बोधदात्रे नमः // *५ // देहाद्रिस्थमनोद्रुमोत्थकलनाशाखालिसन्ध्यन्तराद् द्रष्टुं जाड्यहरं विमर्शविभवाद् उन्मेषरूपं रविम् / लग्ना ये सततं तदेकमयताम् पश्यन्त आत्मन्य् अथो संसारे ऽपि च तत्प्रकाशवशतो भाते ऽस्तु तेभ्यो नमः // *६ // अपूर्वं सामर्थ्यं किम् अपि हृदयागोचर इदम् परिच्छेदातीतं जयति लघुमुख्यम् भगवतः / विवृत्त्याख्ये कर्मण्य् अतिमहति वाक्पत्यविषये यदाविष्टो ऽमुष्मिन्न् अपि भजति मूको ऽप्य् अधिकृतिम् // *७ // स्वतःसिद्धाल् लब्धम् परमगहनं यत् स्वजनकाद् रहस्यं सङ्क्षेपान् निरतिशयम् आभ्यन्तरम् अलम् / तद् एतत् सर्वेषु प्रकटयितुम् एवात्र विहितो मयासाव् उद्योगो न निजधिषणाख्यापनधिया // *८ // स्वभावेनैवान्धाः कतिचिद् अपरे रोषतमसा परेषां नापेक्षा भवति च निजालोकविभवात् / अतो व्याख्यादीपे ऽप्रकट इव नात्रास्त्य् अधिकृतो भवेद् वा को ऽपीति भ्रमत इह यत्नस् तु रचितः // *९ // अवतारकण्ठपुत्रः पौत्रो वैडूर्यकण्ठपादानाम् / भास्करकण्ठो रचयति विद्वत्कण्ठे विभूषणं व्याख्याम् // *१० // शक्त्यादीनाम् अभावे मे प्रवृत्तस्य पदे पदे / स्खलितानि भविष्यन्ति सन्तु सन्तो ऽवलम्बनम् // *११ // नुत्वा गणेशं विबुधेशवन्द्यं वाग्देवतां च प्रतिभास्वरूपाम् / गुरूंस् तथा कौलनरोत्तमादीन् करोमि टीकां श्रुतिपात्रपेयाम् // *१२ // गुरूणां चरणौ स्मृत्वा कृत्वा स्वात्मार्चनं स्वतः / मोक्षोपायाभिधे ग्रन्थे व्याख्यां कुर्वे समासतः // *१३ // ************************************************************************ इह खलु कश्चिन् महापुरुषः श्रीवाल्मीकिनिबद्धश्रीमहारामायणाख्यसागरादिकाण्डस्थश्रीरामज्ञानोत्पादकश्रीवसिष्ठोपदेशरत्नैः स्वयम् आसादितसम्यग्ज्ञानाख्यप्रकाशः अथान्यान् प्रति दयया प्रकटीकरणार्थम् प्रोक्तसागरात् तान्य् उद्धर्तुकामस् तदुद्धृतिनिर्विघ्नसमाप्तिगमनाय परदेवतास्वरूपम् परमात्मानं स्तौति दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः / यो ऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः // ंओ_१,१.१ // "तस्मै" प्रसिद्धाय । "विश्वात्मने" सर्वसारत्वेन स्थितत्वात् सर्वेषाम् आत्मभूतायार्थात् परमात्मने "नमः" । अपरिमितायां तत्सत्तायाम् परिमितस्वसत्तान्यग्भावरूपः प्रह्वीभावः अस्तु । तत्सत्तायाम् एव स्वसत्तां लीनाम् भावयामीति यावत् । "तस्मै" कस्मै । "अवभासात्मा" बाह्यान्तरालोकगतनानाविधबाह्यान्तरपदार्थवृन्दविषयज्ञानसारभूतः । "यः "विश्वात्मा । "अवभाति" प्रत्यक्षम् एव स्फुरति । यतः प्रत्यक्षं स्फुरन्तः नानाभासाः विचारविषयीकृताः सन्तः अनिर्वाच्यतास्वरूपायाम् परमात्मतायाम् एव विश्राम्यन्ति । ततः नानावभासावभासेन परमात्मैवावभातीति भावः । "यः" कथम्भूतः । "विभुः" व्यापकः । कुत्र । "मे" परिमितप्रमातृतासादनेन चिन्मात्ररूपापरिमितप्रमातृभावाच् च्युतस्यात एव परिच्छिन्नवाचकास्मच्छब्दवाच्यतां गतस्य परिमितप्रमातुः । "बहिः "बाह्ये । अहन्ताविषयताम् अनीते प्रदेशे इति यावत् । पुनः कुत्र । "अन्तश् च" अहन्ताविषयतां नीते प्रदेशे च । "बहिः" किंरूपे । "दिवि" समस्तसुराधारभूतस्वर्गलोकरूपे । तथा "भूमौ" समस्तनरादिनानाविधभूताधारभूतभूलोकरूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारभूताकाशलोकस्वरूपे । एतेन चतुर्दशभुवनानां ग्रहणं ज्ञेयं । "अन्तश् च" किंरूपे । "दिवि" द्योतनमात्रस्वरूपस्वप्नावस्थारूपे । "भूमौ" स्थूलत्वसादृश्याज् जाग्रदवस्थारूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारत्वसादृश्यात् सुषुप्त्यवस्थास्वरूपे । अत्र च परमात्मनः व्यापकत्वं शक्तिप्राधान्येनोपादानतया स्थितत्वात् स्वप्राधान्येन साक्षितया स्थितत्वाच् चेति द्विविधं ज्ञेयम् । एवम् अभीष्टसमु-चितदेवतानमस्कारलक्षणम् मङ्गलं कृत्वा उद्धरिष्यमाणस्यास्य ग्रन्थस्याधिकार्याद्यनुबन्धचतुष्टयं वक्तुकामः स एवोद्धृतिकारः अभिधेयसम्बन्धप्रयोजनान्य् अर्थात् सूचयन् अधिकारिनिरूपणं साक्षात्करोति ॥ ंओथ्_१,१.१ ॥ अहम् बद्धो विमुक्तः स्याम् इति यस्यास्ति निश्चयः / नात्यन्ततज्ज्ञो नातज्ज्ञः सो ऽस्मिञ् शास्त्रे ऽधिकारवान् // ंओ_१,१.२ // श्रीभगवत्कृपाकटाक्षपात्रीभूतस्य "यस्य" पुरुषस्य । अहम्परिमितप्रमातृरूपः "अहम् बद्धः" स्वात्मभावेन निश्चितदेहोपयोगिभोगजालासक्तचित्तः । अस्मि कथम् इति शेषः । प्रोक्तजालानासक्तचित्तः कथं "स्याम्" भवे-यम् । "इति" एवम् ।" निश्चयः" मनसि सततम् अनुसन्धानं । स्यात् । "सः" पुरुषः । "अस्मिन्न्" उद्धरिष्यमाणे मोक्षोपायाख्ये ग्रन्थे । "अधिकारवान्" स्यात् । तस्यैवेदं शास्त्रं विचारणीयम् इत्य् अर्थः । "सः" कथम्भूतः । नात्यन्तं तज्ज्ञः "नात्यन्ततज्ज्ञः" । मुक्तिकामत्वेन सम्यग्ज्ञानरहित ४इत्य् अर्थः । सम्यग्ज्ञानी हि मुक्तिम् अपि न काङ्क्षति । काङ्क्षामात्रस्यैव बन्धत्वात् । पुनः कथम्भूतः । "नातज्ज्ञः" । भोगाकाङ्क्षायाः मुक्तत्वात् । अतज्ज्ञो हि भोगाकाङ्क्षां त्यक्तुं न शक्नोति । अत्यन्ततज्ज्ञे कृतकृत्यत्वात् "अस्मिञ् शास्त्रे" अनधिकारः । अतज्ज्ञे तु अयोग्यतयेति विभागः । अत्र परमात्मतत्त्वैक्यम् अभिधेयम् । पदे पदे तस्यैवाभिधानात् स्वविषयज्ञानद्वारेण मोक्षाख्यपरमप्रयोजनसाधकत्वाच् च । सर्वशास्त्रेष्व् अभिधेयस्यैव परमप्रयोजनसाधकत्वदर्शनात् । तद्विषयं सम्यग्ज्ञानम् अवान्तरप्रयोजनम् । अन्यथा तत्काङ्क्षिणः अमूर्खस्यावान्तराधिकारित्वं न स्यात् । परमप्रयोजणम् मुक्तिर् । अन्यथा तत्काङ्क्षिणः मुमुक्षोः परमाधिकारित्वं न स्यात् । शास्त्रावान्तरप्रयोजनयोः अभिधेयपरमप्रयोजनयोश् च साध्यसाधनभावः सम्बन्धः । अधिकारी तु स्वकण्ठेनैवोक्त इति सर्वं स्वस्थम् ॥ ंओथ्_१,१.२ ॥ एवम् अधिकार्यादि निरूप्य शास्त्रोद्धारम् आरभते वाल्मीकिर् उवाच इति । "वाल्मीकिः" वाल्मीकिनामा ऋषिः । "उवाच" उक्तवान् । श्रीरामम् प्रति इति शेषः । किम् उवाचेत्य् आशङ्कायाम् आह कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयो ऽभिजायते ॥ ंओथ्_१,१.३ ॥ कथारूपा उपायाः "कथोपायाः" । तान् । कथानाम् अपि सम्यग्ज्ञानम् प्रति प्रवर्तकत्वेनोपायत्वं ज्ञेयम् । "इमान्" वक्ष्यमाणान् । ननु श्रीवाल्मीकिः श्रीरामवृत्तान्तमयं श्रीमहारामायणं श्रीरामम् प्रत्य् एव कथम् उवाचान्यस्यैव ह्य् अन्यवृत्तान्तकथनम् उचितम् इति चेत् । सत्यम् । अद्यकल्पे भवः श्रीवाल्मीकिर् अद्यकल्पे भवं श्रीरामम् प्रति पुरातनकल्पश्रीवाल्मीकिकृतम् पुरातनश्रीरामवृत्तान्तमयं श्रीमहारामायणम् उवाचेति केचिद् अत्र समादधते । किम् अस्माकं व्याख्यामात्रप्रवृत्तानाम् एतद्युक्तत्वायुक्तत्वचिन्तनेन । अस्ति चात्र किम् अपि निगूढम् बीजम् "अपि पौरुषम् आदेयम्" इत्यादिवक्ष्यमाणश्लोकसूचितम् । तच् च प्रतिभावतां स्वयम् एव गम्यम् । अन्येषां तत्कथनम् अयुक्तम् । इत्य् अलं रहस्योद्घाटनेन ॥ ंओथ्_१,१.३ ॥ अस्मिन् रामायणे राम कथोपायान् महाफलान् / एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन // ंओ_१,१.४ // शिष्यायास्मै विनीताय भरद्वाजाय धीमते / एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् इवार्थिने // ंओ_१,१.५ // "रामे"त्य् आमन्त्रणम् । रामस्यैव प्रतिपाद्यत्वात् । "एतान्" त्वया "अस्मिन्" समय एव दृष्टान् । आदौ "कृत्वा" सम्पाद्य । "अस्मै" अग्रे स्थिताय । "एकाग्रः" एतस्य विनयेन एतस्मिंल् लग्नचित्तः । युगलकम् ॥ ंओथ्_१,१.४-५ ॥ तत एते कथोपाया भरद्वाजेन धीमता / कस्मिंश्चिन् मेरुगहने ब्रह्मणो ऽग्र उदाहृताः // ंओ_१,१.६ // "उदाहृताः" कथिताः ॥ ंओथ्_१,१.६ ॥ अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः / वरम् पुत्र गृहाणेति समुवाच महाशयः // ंओ_१,१.७ // स्पष्टम् ॥ ंओथ्_१,१.७ ॥ भरद्वाजः कथयति भगवन् भूतभव्येश वरो ऽयम् मे ऽद्य रोचते / येनेयं जनता दुःकान् मुच्यते तद् उदाहर // ंओ_१,१.८ // "भूतभव्येशा"तीतानागतयोर् ईशातीतानागतज्ञेति यावत् । "उदाहर" कथय ॥ ंओथ्_१,१.८ ॥ भरद्वाजवाक्यं श्रुत्वा श्रीब्रह्मा कथयति गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः / तेनेदं यत् समारब्धं रामायणम् अनिन्दितम् // ंओ_१,१.९ // तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति / सेतुनेवाम्बुधेः पारम् अपारगुणशालिना // ंओ_१,१.१० // युगलकम् । "पारम्" इति पूर्वार्धेनापि योज्यम् । "अम्बुधेर्" इति पञ्चमी ब्रह्मवाक्यम् उपसंहरति ॥ ंओथ्_१,१.९-१० ॥ इत्य् उक्त्वा स भरद्वाजम् परमेष्ठी ममाश्रमम् / अभ्यागमत् समं तेन भरद्वाजेन भूतकृत् // ंओ_१,१.११ // परमे चिन्मात्राख्ये उत्तमे पदे तिष्ठति शुद्धमनोरूपत्वाद् इति "परमेष्ठी" ॥ ंओथ्_१,१.११ ॥ तूर्णं सम्पूजितो देवः सो ऽर्घ्यपाद्यादिना मया / अवोचन् माम् महासत्त्वः सर्वभूतहिते रतः // ंओ_१,१.१२ // [भ्ह्घ् V २५द्] स्पष्टम् ॥ ंओथ्_१,१.१२ ॥ ब्रह्मा कथयति रामस्वभावकथनाद् अस्माद् वरमुने त्वया / नोद्योगः सम्परित्याज्य आ समाप्तेर् अनिन्दितात् // ंओ_१,१.१३ // "आ समाप्तेः "समाप्तिपर्यन्तम् ॥ ंओथ्_१,१.१३ ॥ ननु किमर्थम् उद्योगं न त्यजामीत्य् । अत्राह ज्ञातेनानेन लोको ऽयम् अस्मात् संसारसङ्कटात् / समुत्तरिष्यति क्षिप्रम् पोतेनेवाथ सागरात् // ंओ_१,१.१४ // "अथ"शब्दः पादपूरणार्थः ॥ ंओथ्_१,१.१४ ॥ वक्तुं तवैतम् एवार्थम् अहम् आगतवान् अयम् / कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः // ंओ_१,१.१५ // स्पष्टम् । ब्रह्मणो वाक्यम् उपसंहरति "इत्य् उक्तवान्" इति ॥ ंओथ्_१,१.१५ ॥ राम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः / मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः // ंओ_१,१.१६ // "पुण्याश्रमात्" पवित्रात् मदाश्रमात् । "तस्मात्" तस्मिन् समये गृहीतात् । मुनयो हि नवीनानि नवीनान्य् आश्रमाणि गृह्णन्ति । ब्रह्मा क "इव" । "तरङ्ग इव" । यथा "वारिणः" "उद्यतः" पूर्वम् उत्थितः "तरङ्गः" । "मुहूर्ताद् अन्तर्धिम्" आगच्छति तथेत्य् अर्थः ॥ ंओथ्_१,१.१६ ॥ तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः / पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया // ंओ_१,१.१७ // "भरद्वाजं" कथम्भूतम् । उपलक्षितं कया । "स्वच्छया धिया" । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ ंओथ्_१,१.१७ ॥ किम् अपृच्छ इत्य् । अत्राह किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे / इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मे ऽनघ // ंओ_१,१.१८ // "अनघ" हे दोषरहित राम ॥ ंओथ्_१,१.१८ ॥ भरद्वाजः कथयति एतद् उक्तम् भगवता यथा रामायणं कुरु / सर्वलोकहितायाशु संसारार्णवपोतकम् // ंओ_१,१.१९ // "एतत्"पदाकाङ्क्षाम् पूरयति "यथे"ति ॥ ंओथ्_१,१.१९ ॥ ननु ततस् तव किम् इत्य् । अत्राह मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे / रामो व्यवहृतो ऽप्य् अस्मिन् भरतश् च महामनाः // ंओ_१,१.२० // "व्यवहृतः" व्यवहारं कृतवान् । "अपि"शब्दः असम्भावनाद्योतकः "संसारसङ्कटे" इत्य् अनेन सम्बध्यते ॥ ंओथ्_१,१.२० ॥ शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी / रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः // ंओ_१,१.२१ // स्पष्टम् ॥ ंओथ्_१,१.२१ ॥ निर्दुःखतां यथैते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् / तथैवाहं तरिष्यामि ततो जनतया सह // ंओ_१,१.२२ // "एते" रामादयः ॥ ंओथ्_१,१.२२ ॥ श्रीवाल्मीकिः श्रीरामम् प्रति कथयति भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् / तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुम् प्रवृत्तवान् // ंओ_१,१.२३ // "अस्मि" अहम् । "इति" पूर्वोक्तप्रकारेण । "उक्तः" कथितः । "विभोः" ब्रह्मणः ॥ ंओथ्_१,१.२३ ॥ प्रवृत्तिम् एव स्फुटयति शृणु वत्स भरद्वाज यथापृष्टं वदामि ते / श्रुतेन येन सम्मोहम् अलं दूरे करिष्यसि // ंओ_१,१.२४ // "अलम्" अतिशयेन । "शृण्व्" इति प्रतिज्ञां सम्पादयितुम् प्रस्तावं करोति ॥ ंओथ्_१,१.२४ ॥ तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी / सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः // ंओ_१,१.२५ // "सर्वासंसक्तया" समस्तफलासङ्गरहितया ॥ ंओथ्_१,१.२५ ॥ न केवलं राम एव किं त्व् अन्ये ऽपीत्य् अभिप्रायेण कथयति लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस् तथा ॥ ंओथ्_१,१.२६ ॥ स्पष्टम् ॥ ंओथ्_१,१.२६ ॥ कृतास्थश् चाविरोधश् च बोधपारम् उपागतः / वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे // ंओ_१,१.२७ // "कृतास्थ" इति नाम "अविरोध" इति च । "अष्टौ मन्त्रिणः" अष्टाव् अमात्यास् । "तथेतरे" अन्ये ऽप्य् अष्टौ मन्त्रिणः । तेन षोडश मन्त्रिण इति परमार्थः ॥ ंओथ्_१,१.२७ ॥ "इतर" इत्य् अस्यार्थं स्फुटं कथयति घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च / विभीषणः सुषेणश् च हनुमान् इन्द्रजित् तथा // ंओ_१,१.२८ // स्पष्टम् ॥ ंओथ्_१,१.२८ ॥ एते ऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः / जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः // ंओ_१,१.२९ // "यथाप्राप्तानुवर्तिनः" । न तु स्वप्रयत्ननिष्ठा इति यावत् ॥ ंओथ्_१,१.२९ ॥ एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् / तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात् // ंओ_१,१.३० // "एभिः" रामादिभिः ॥ ंओथ्_१,१.३० ॥ भरद्वाजस्य प्रश्नावसरदानार्थं सर्गान्तश्लोकेन तावत् स्ववाक्यम् उपसंहरति अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिम् उदारसत्त्वः / न शोकम् आयाति न दैन्यम् एति गतज्वरस् तिष्ठति नित्यतृप्तः // ंओ_१,१.३१ // "अपारः" यः "संसारसमुद्रः" । तत्र "पाती" पतनशीलः । "उदारसत्त्वः" उत्कृष्टधैर्ययुक्तः "पुरुषः" । "पराम्" उत्कृष्टां । "युक्तिं" दृश्यात्यन्ताभावज्ञानलक्षणां वक्ष्यमाणां युक्तिं । प्राप्य । "शोकम्" अपेक्षालक्षणं शोकं । "नायाति" । तथा "दैन्यम्" दीनत्वम् । अतृप्तिम् इति यावत् । "नैति" । प्रत्युत "गतज्वरः" अपेक्षास्वरूपज्वररहितः । अत एव "नित्यतृप्तः" "तिष्ठती"ति शिवम् ॥ ंओथ्_१,१.३१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे प्रथमः सर्गः ॥ १,१ ॥ ************************************************************************ भरद्वाजः पृच्छति जीवन्मुक्तस्थितिम् ब्रह्मन् कृत्वा राघवम् आदितः / क्रमात् कथय मे नित्यम् भविष्यामि सुखी यथा // ंओ_१,२.१ // "ब्रह्मन्" श्रीवाल्मीके । त्वं । "जीवन्मुक्तस्थितिं" जीवन्मुक्तमर्यादां । "राघवं" श्रीरामम् । "आदितः" "कृत्वा" । "मे कथय" श्रीरामवृत्तान्तद्वारेण कथयेति भावः । ननु किमर्थं कथयामीत्य् । अत्राह । "भविष्यामी"ति । अहं "यथा" येन जीवन्मुक्तस्थितिकथनेन । "नित्यसुखी" जीवन्मुक्त्याख्यमहासुखयुक्तो । "भविष्यामि" ॥ ंओथ्_१,२.१ ॥ श्रीवाल्मीकिः श्रीरामवृत्तान्तश्रवणाधिकारित्वसम्पादनार्थं तावत् सामान्येनोपदेशं करोति भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् / अपुनःस्मरणम् मन्ये साधो विस्मरणं वरम् // ंओ_१,२.२ // हे "साधो" । अहम् "अस्य" पुरः स्फुरतः । "जागतस्य" जगत्सम्बन्धिनः । तद्विषयस्येति यावत् । तथा "आकाशवर्णवत्" आकाशनीलिमवत् । "जातस्य" प्रादुर्भूतस्य । मिथ्याभातस्येति यावत् । "भ्रमस्य" जगत्त्वज्ञानरूपस्य मिथ्याज्ञानस्य । "अपुनःस्मरणम्" पुनःस्मृतिविषयभावानयनम् । उपेक्षाम् इति यावत् । "वरम्" उत्कृष्टं । "विस्मरणम्" विस्मृतिं । "मन्ये" । उपेक्षा एवात्र युक्ता । न विस्मृतिः । तस्याः जाड्यव्याप्तत्वाद् इति भावः ॥ ंओथ्_१,२.२ ॥ ननु तद् "अपुनःस्मरणं "केनोपायेन भविष्यतीत्य् । अत्राह दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते / कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः // ंओ_१,२.३ // "नाम" निश्चये । "केनचित्" पुरुषेण । "तद्" अपुनःस्मरणं । दृश्यस्य ... ... अज्ञानसुघनाकारा घनाहङ्कारशालिनी / पुनर् जन्मकरी प्रोक्ता मलिना वासना बुधैः // ंओ_१,२.१२ // पण्डितैः "वासना" "मलिना" "उक्ता" । कथम्भूता । "अज्ञानसुघनाकारा" । "अज्ञानेन" चिन्मात्राज्ञानेन । "सुघनः आकारः" यस्याः । सा । चिन्मात्राज्ञानेनैव हि वासना घनीभवन्ति । अन्यथा शुद्धचिन्मात्रैक्येन वासना किंविषया स्यात् । पुनः कथम्भूता । "घनः" अच्छिन्नः । यः "अहङ्कारः" देहादिविषयः अहम्भावः । तेन "शालिनी" । वासनावशेनैव हि देहादिनिष्ठः अहङ्कारो घनीभवति । पुनः कथम्भूता । "पुनः जन्मकरी" पुनर् अपि भवकरी । पदार्थभावेन व्यक्तीभावात् ॥ ंओथ्_१,२.१२ ॥ शुद्धायाः स्वरूपं कथयति पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् / देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते // ंओ_१,२.१३ // पण्डितैः "सा" वासना । "शुद्धेति" कथ्यते । "सा" का । या "देहान्तं" देहस्थितिपर्यन्तम् एव । न तु तदनन्तरम् अपि । "ध्रियते" अवतिष्ठते । या कथम्भूता ।" पुनर्जन्मा"ख्येन्"आङ्कुरेण" "त्यक्ता" । यतः "सम्भृष्टबीजवत्" भर्जितबीजवत् । "स्थिता" । यथा सम्भृष्टम् बीजम् आकारमात्रेण तिष्ठति । अङ्कुरसमर्थं न भवति । तथा शुद्धा वासनाप्य् आकारमात्रेणैव तिष्ठति । जन्माङ्कुरोत्पादनसमर्था न भवतीत्य् अर्थः । पुनः कथम्भूता । "ज्ञातं ज्ञेयम्" अवश्यज्ञेयत्वेन स्थितम् परमात्मतत्त्वम् । यया हेतुभूतया । तादृशी । शास्त्रविचारादिरूपया शुद्धया वासनयैव हि परमात्मतत्त्वं ज्ञायते ॥ ंओथ्_१,२.१३ ॥ शुद्धाया आश्रयविशेषं कथयति अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु / वासना विद्यते शुद्धा देहे चक्र इव भ्रमः // ंओ_१,२.१४ // "जीवन्मुक्तेषु देहिषु" जीवेषु । "अपुनर्जन्मकरणी" पुनर्जन्माकारिका । "शुद्धा" "वासना देहे विद्यते" । न तु चित्ते । का "इव "। "भ्रमः" "इव" । यथा "भ्रमः" चाक्राकारेण भ्रमणं । "चक्रे" विद्यते । तथेत्य् अर्थः । जीवन्मुक्तानां वासना फलाद्यनुसन्धानानुत्पादिका एवास्तीति भावः ॥ ंओथ्_१,२.१४ ॥ जीवन्मुक्तलक्षणं कथयति ये शुद्धवासना भूयो न जन्मानर्थभाजनम् / ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः // ंओ_१,२.१५ // "शुद्धा वासना" येषां । ते । तादृशाः ॥ ंओथ्_१,२.१५ ॥ सामान्येनोपदेशं कृत्वा श्रीरामवृत्तान्तम् आरभते जीवन्मुक्तपदम् प्राप्तो यथा रामो महामतिः / तत् ते ऽहम् सम्प्रवक्ष्यामि जरामरणशान्तये // ंओ_१,२.१६ // ननु किमर्थं श्रीरामजीवन्मुक्तिप्राप्तिं कथयसीत्य् । अत्राह "जरे"ति । श्रीरामजीवन्मुक्तिपदप्राप्तिश्रवणेन हि तवापि तद्व्यवहारानुसारेण जरादिशान्तिर् भवतीति भावः ॥ ंओथ्_१,२.१६ ॥ ननु बहूपदेशकाङ्क्षिणो मम किं रामक्रममात्रकथनेनेत्य् । अत्राह भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् / शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा // ंओ_१,२.१७ // "सर्वथे"त्य् अनेन ततः काप्य् आकाङ्क्षा तव न स्याद् इति भावः ॥ ंओथ्_१,२.१७ ॥ तद् एव कथयति विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः / दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः // ंओ_१,२.१८ // "दिवसानि" । न तु मासान् । अविद्यमानं कुतो ऽपि भयं यस्य सः "अकुतोभयः "। निर्भय इत्य् अर्थः ॥ ंओथ्_१,२.१८ ॥ अथ गच्छति काले ऽत्र पालयत्य् अवनिं नृपे / प्रजासु वीतशोकासु स्थितासु विगतज्वरम् // ंओ_१,२.१९ // तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितम् मनः / रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः // ंओ_१,२.२० // स्पष्टम् । युग्मम् ॥ ंओथ्_१,२.१९-२० ॥ राघवश् चिन्तयित्वैवम् उपेत्य चरणौ पितुः / हंसः पद्माव् इव नवौ जग्राह नवकेसरौ // ंओ_१,२.२१ // पादवन्दनं चकारेत्य् अर्थः ॥ ंओथ्_१,२.२१ ॥ श्रीरामः पितरम् प्रति कथयति तीर्थानि देवसद्मानि वनान्य् आयतनानि च / द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशम् मनः // ंओ_१,२.२२ // "हि" निश्चये ॥ ंओथ्_१,२.२२ ॥ तद् एताम् अर्थनाम् पूर्वां सफलीकर्तुम् अर्हसि / न सो ऽस्ति भुवने तात त्वया यो ऽर्थी विमानितः // ंओ_१,२.२३ // मयाद्य तावत् तव कापि प्रार्थना न कृतेति "पूर्वाम्" इत्य् अस्याभिप्रायः ॥ ंओथ्_१,२.२३ ॥ श्रीरामप्रार्थनाम् उपसंहरति इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा / विचार्यामुञ्चद् एवैनं रामम् प्रथमम् अर्थिनम् // ंओ_१,२.२४ // "विचार्यै"व । न तु "विचारम्" अकृत्वा । "प्रथमम् अर्थिनं" तत्पूर्वम् अर्थिभूतम् ॥ ंओथ्_१,२.२४ ॥ शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः / मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः // ंओ_१,२.२५ // वसिष्ठप्रहितैर् विप्रैः शास्त्रतज्ज्ञैः समन्वितः / स्निग्धैः कतिपयैर् एव राजपुत्रवरैः सह // ंओ_१,२.२६ // अम्बाभिर् विहिताशीर्भिर् आलिङ्ग्यालिङ्ग्य भूषितः / निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः // ंओ_१,२.२७ // "आलिङ्ग्यालिङ्ग्ये"त्य् अनेन स्नेहातिशयो द्योत्यते । "निरगात्" निर्ययौ ॥ ंओथ्_१,२.२५-२७ ॥ निर्गतः स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः / पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः // ंओ_१,२.२८ // ग्रामीणललनालोकहस्तपद्मापवर्जितैः / लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः // ंओ_१,२.२९ // आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः / आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले // ंओ_१,२.३० // "परिचक्राम" पादचारेण गतवान् । तीर्थयात्रायां हि पादचारेण गमनम् पुण्यावहम् ॥ ंओथ्_१,२.२८-३० ॥ अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् / स्नानदानतपोध्यानपूर्वकं स ददर्श ह // ंओ_१,२.३१ // "ह"शब्दः निपातः ॥ ंओथ्_१,२.३१ ॥ किं "ददर्शे"ति कर्मापेक्षायाम् आह नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च / जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम् // ंओ_१,२.३२ // "वनान्तेषु" स्थितानि "जङ्गलानि" सजलाः देशाः ॥ ंओथ्_१,२.३२ ॥ मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् / सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम् // ंओ_१,२.३३ // स्पष्टम् ॥ ंओथ्_१,२.३३ ॥ वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा / चर्मण्वतीं वितस्तां च विपाशाम् बाहुदाम् अपि // ंओ_१,२.३४ // स्पष्टम् ॥ ंओथ्_१,२.३४ ॥ प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा / वाराणसीं श्रीगिरिं च केदारम् पुष्करं तथा // ंओ_१,२.३५ // स्पष्टम् ॥ ंओथ्_१,२.३५ ॥ मानसं च क्रमसरस् तथैवोत्तरमानसम् / वडवाम् मडवां चैव तीर्थवृन्दं ससोदरम् // ंओ_१,२.३६ // "तीर्थवृन्दं" कथम्भूतं । "ससोदरं" सोदराख्यतीर्थसहितम् ॥ ंओथ्_१,२.३६ ॥ अग्नितीर्थम् महातीर्थम् इन्द्रद्युम्नसरस् तथा / सरांसि सरसीश् चैव तथा वापीह्रदावलीम् // ंओ_१,२.३७ // स्पष्टम् ॥ ंओथ्_१,२.३७ ॥ स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा / स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः // ंओ_१,२.३८ // स्पष्टम् ॥ ंओथ्_१,२.३८ ॥ नानाश्चर्यविचित्राणि चतुरब्धितटानि च / विन्द्यकन्दरकुञ्जांश् च कुलशैलस्थलानि च // ंओ_१,२.३९ // स्पष्टम् ॥ ंओथ्_१,२.३९ ॥ राजर्षीणां च महताम् ब्रह्मर्षीणां तथैव च / देवानाम् ब्राह्मणानां च पावनान् आश्रमाञ् शुभान् // ंओ_१,२.४० // स्पष्टम् ॥ ंओथ्_१,२.४० ॥ भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः / चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान् // ंओ_१,२.४१ // स्पष्टम् ॥ ंओथ्_१,२.४१ ॥ सर्गान्तश्लोकेन तीर्थयात्राभ्रमणम् उपसंहरति अमरकिन्नरमानवमानितः समवलोक्य महीम् अखिलाम् इमाम् / उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकम् इवेश्वरः // ंओ_१,२.४२ // "ईश्वरः" कथम्भूतः । "विहृतदिक्" विहृताः विहारविषयीकृताः दिशः येन । तादृशः । इति शिवम् ॥ ंओथ्_१,२.४२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वितीयः सर्गः ॥ १,२ ॥ ************************************************************************ श्रीरामस्य गृहप्रवेशं कथयति लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः / स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा // ंओ_१,३.१ // "विकीर्णः" भरितः ।" जयन्तः" इन्द्रपुत्रः ॥ ंओथ्_१,३.१ ॥ प्रणनामाथ पितरं वसिष्ठम् मातृबान्धवान् / ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः // ंओ_१,३.२ // स्पष्टम् ॥ ंओथ्_१,३.२ ॥ सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च / मुहुर् आलिङ्गनाचारै राघवो न ममौ तदा // ंओ_१,३.३ // "राघवस्" "तदा" "सुहृद्"आदि"भिः" सहकृतैः "आलिङ्गनाचारैः" आलिङ्गनरूपैः लोकाचारैः ।" न" "ममौ" महानन्दयुक्तो जात इति भावः ॥ ंओथ्_१,३.३ ॥ तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः / जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव // ंओ_१,३.४ // "तस्मिन्" "दाशरथौ" "मिथः" "प्रियप्रकथनैः" श्रीरामविषयैः अन्योऽन्यम् प्रियकथनैः । श्रीरामो गृहम् प्राप्त इत्य् एवंरूपैः परस्परम् प्रियकथनैर् इति यावत् ।" आशाः" दिशः । "जुघूर्णुः" घूर्णिम् प्रापुः । मङ्गलवाचिभूकम्पोत्थानाद् इयम् उक्तिः ।" प्रियप्रकथनैः" कथम्भूतैः । "दृढैस्" तथा "मधुरैः" कर्णसुखैः । "प्रियप्रकथनैः" कैर् "इव" । "मृदुवंशस्वनैर्" "इव" । यथा तैः पुरुषाः घूर्णन्ति । तथेत्य् अर्थः ॥ ंओथ्_१,३.४ ॥ बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः / महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः // ंओ_१,३.५ // "अत्र" दशरथपुरे ।" रामागमनम्" " उत्सवः" "आस" अभूत् । कियन्तं कालं । "बहूनि" "दिनानि" । बहुदिनपर्यन्तम् इत्य् अर्थः ।" उत्सवः" किं कुर्वन् । "जनान् महानन्दे" "मुञ्चन्" । "आसे"ति प्रयोग आर्षः ॥ ंओथ्_१,३.५ ॥ उवास स सुखं गेहे ततः प्रभृति राघवः / वर्णयन् विविधाचारान् देशाचारान् इतस् ततः // ंओ_१,३.६ // "इतस् ततः" यत्र तत्र ॥ ंओथ्_१,३.६ ॥ प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि / सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा // ंओ_१,३.७ // स्पष्टम् ॥ ंओथ्_१,३.७ ॥ कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह / स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः // ंओ_१,३.८ // जगाम पित्रनुज्ञातो महत्या सेनयावृतः / वराहमहिषाकीर्णं वनम् आखेटकेच्छया // ंओ_१,३.९ // "आखेटेच्छया" मृगयाकाङ्क्षया ॥ ंओथ्_१,३.८-९ ॥ तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् / समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम् // ंओ_१,३.१० // स्पष्टम् ॥ ंओथ्_१,३.१० ॥ एवंरूपम् आचारम् असौ नैकस्मिन्न् एव दिने कृतवान् अपि तु सर्वदैवेत्य् अभिप्रायेण कथयति एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः / आगत्य तीर्थयात्रायाः समुवास पितुर् गृहे // ंओ_१,३.११ // स्पष्टम् ॥ ंओथ्_१,३.११ ॥ सर्गान्तश्लोकेनैतद् उपसंहरति नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकया तथा / परिनिनाय दिनानि स चेष्टया श्रुतसुधारसपेशलयानघः // ंओ_१,३.१२ // "सः अनघः" दोषरहितः श्रीरामः । एवंविधया "चेष्टया दिनानि परिनिनाय" लङ्घितवान् । किंविधया । "नृपतिव्यवहारेण" प्रजाविचारादिना राजव्यवहारेण । "मनोज्ञया" हृद्यया । तथा "सुजनचेतसि" सत्पुरुषमनसि । "चन्द्रिकया" सुजनहृदयाह्लादिकयेति यावत् । तथा "श्रुते" श्रवणे । "सुधारस"वत् "पेशलया" । दृष्टत्वे तु किं वाच्यम् इति भावः । इति शिवम् ॥ ंओथ्_१,३.१२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे तृतीयः सर्गः ॥ १,३ ॥ ************************************************************************ अथोनषोडशे वर्षे वर्तमाने रघूद्वहे / रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणे ऽपि च // ंओ_१,४.१ // भरते संस्थिते नित्यम् मातामहगृहे सुखम् / पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम् // ंओ_१,४.२ // जन्यत्रार्थं च पुत्राणाम् प्रत्यहं सह मन्त्रिभिः / कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे // ंओ_१,४.३ // कृतायां तीर्थयात्रायां रामो निजगृहस्थितः / जगामानुदिनं कार्श्यं शरदीवामलं सरः // ंओ_१,४.४ // "तथा" ऊनषोडशवर्षे सतीत्य् अर्थः । "जन्यत्रार्थं" विवाहार्थम् । "कार्श्यं" क्षीणताम् ॥ ंओथ्_१,४.१-४ ॥ कार्श्यम् एव कथयति क्रमाद् अस्य विशालाक्षम् पाण्डुताम् मुखम् आदधे / पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम् // ंओ_१,४.५ // कृशतायां हि मुखस्य पाण्डिमा जायते ॥ ंओथ्_१,४.५ ॥ कपोलतलसंलीनपाणिः पद्मासनस्थितः / चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः // ंओ_१,४.६ // "सः" श्रीरामः ॥ ंओथ्_१,४.६ ॥ कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः / नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः // ंओ_१,४.७ // स्पष्टम् ॥ ंओथ्_१,४.७ ॥ खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः / चकाराह्निकम् आचारम् परिम्लानमुखाम्बुजः // ंओ_१,४.८ // स्पष्टम् ॥ ंओथ्_१,४.८ ॥ एवम् मुनिविशिष्टं तं रामं गुणगणाकरम् / आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम् // ंओ_१,४.९ // "मुनिविशिष्टम्" उत्कृष्टम् मुनिं । वैराग्यवत्त्वात् । "अस्य ताम्" "एव" "दशां" रामसम्बन्धिनीं कार्श्यादिरूपाम् एवावस्थाम् ॥ ंओथ्_१,४.९ ॥ तथा तेषु तनूजेषु खेदवत्सु कृशेषु च / सपत्नीको महीपालश् चिन्ताविवशतां ययौ // ंओ_१,४.१० // स्पष्टम् ॥ ंओथ्_१,४.१० ॥ का ते पुत्र घना चिन्तेत्य् एवं रामम् पुनः पुनः / अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः // ंओ_१,४.११ // "सः" रामः । "अस्य" पितुः ॥ ंओथ्_१,४.११ ॥ न किञ्चित् तात मे दुःकम् इत्य् उक्त्वा पितुर् अङ्कगः / रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति // ंओ_१,४.१२ // स्पष्टम् ॥ ंओथ्_१,४.१२ ॥ ततो दशरथो राजा रामः किं खेदवान् इति / अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम् // ंओ_१,४.१३ // "सर्वकार्यज्ञं" सर्वेषु कार्येषु निपुणम् । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ ंओथ्_१,४.१३ ॥ अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते / इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः // ंओ_१,४.१४ // "श्रीमत्" ज्ञानाख्यफलकारित्वात् । "कारणं" वैराग्याख्यं किञ्चिद् । अस्मिन् समये वक्तुम् अयुक्तम् इति भावः ॥ ंओथ्_१,४.१४ ॥ उपसंहृतम् अपि वसिष्ठवाक्यं सर्गान्तश्लोकेन पुनः कथयति कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः । सर्गेण संहतिजवेन विना जगत्याम् भूतानि भूप न महान्ति विकारयन्ति ॥ ंओथ्_१,४.१५ ॥ "सन्तः" साधवः । "अल्पेन" स्तोकेन । "कारणवशेन" विततं "कोपं" विततां "विषादकलनां" "विततं" "हर्षं" "च" । "न" "वहन्ति" न धारयन्ति । "अल्पेने"ति विशेषणस्य "कारणे"त्य् अनेनार्थिकः सम्बन्धः । अत्र व्यतिरेकेण दृष्टान्तम् आह "सर्गेणे"ति । हे "भूप" । "महान्ति भूतानि" महाभूतानि । "जगत्यां" जगति । "सर्गेण विना" महासृष्टिं "विना" । तथा "संहतिजवेन विना" संहाराख्यवेगेन विना । "न विकारयन्ति" कार्योत्पत्त्याख्यविकारयुक्तानि तथा नाशाख्यविकारयुक्तानि च न भवन्ति । तत् करोति तद् आचष्टे इति णिच् । "विकारवन्ती"ति वा पाठः । स्थित्यवस्थायाम् अवान्तरसर्गसंहतिरूपेणाल्पेन कारणेन न भवन्तीति भावः । इति शिवम् ॥ ंओथ्_१,४.१५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्थः सर्गः ॥ १,४ ॥ ************************************************************************ श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति इत्य् उक्ते मुनिनाथेन सन्देहवति पार्थिवे / खेदवत्य् आस्थिते मौनं कञ्चित् कालम् प्रतीक्षिणि // ंओ_१,५.१ // परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु / स्थितासु सावधानासु रामचेष्टासु सर्वतः // ंओ_१,५.२ // एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः / महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम् // ंओ_१,५.३ // "आगमत्" आगच्छति स्म ॥ ंओथ्_१,५.१-३ ॥ ननु किमर्थम् असौ आगत इत्य् । अत्राह तस्य यज्ञो ऽथ रक्षोभिस् तदा विलुलुपे किल / मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः // ंओ_१,५.४ // रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् / न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम् // ंओ_१,५.५ // ननु किमर्थं तं "रक्षार्थं" "द्रष्टुम् ऐच्छद्" इत्य् । अत्राह "न ही"ति ॥ ंओथ्_१,५.४-५ ॥ ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः / विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम् // ंओ_१,५.६ // [ऋआम् ई १७, २३] "अभ्ययात्" अभिगच्छति स्म ॥ ंओथ्_१,५.६ ॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह / शीघ्रम् आख्यात माम् प्राप्तं कौशिकं गाधिनः सुतम् // ंओ_१,५.७ // [ऋआम् ई १७, २४] "ह"शब्दः निपातः । किम् "उवाचे"ति कर्मापेक्षायाम् उत्तरार्धं कर्मत्वेन कथयति "शीघ्रम्" इति । "आख्यात" कथयत । यूयम् इति शेषः । "गाधिनः" गाधिराजस्य ॥ ंओथ्_१,५.७ ॥ तस्य तद् वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः / सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः // ंओ_१,५.८ // [ऋआम् ई १७, २५] "तेन" "वाक्येन" विश्वामित्रोक्तेन वाक्येन ॥ ंओथ्_१,५.८ ॥ ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः / प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा // ंओ_१,५.९ // [ऋआम् ई १७, २६] "प्रतीहारपतिं" द्वास्थाधिकारिणम् ॥ ंओथ्_१,५.९ ॥ अथास्थानगतम् भूपं राजमण्डलम् आस्थितम् / समुपेत्य त्वरायुक्तो याष्टीको ऽसौ व्यजिज्ञपत् // ंओ_१,५.१० // "असौ याष्टीकः" प्रतीहारपतिः ॥ ंओथ्_१,५.१० ॥ किं "व्यजिज्ञपद्" इत्य् । अत्राह देव द्वारि महातेजा बालभास्करसन्निभः / ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः // ंओ_१,५.११ // स्पष्टम् ॥ ंओथ्_१,५.११ ॥ स चामरपताकाढ्यं साश्वेभपुरुषायुधम् / कृतवांस् तम् प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम् // ंओ_१,५.१२ // स्पष्टम् ॥ ंओथ्_१,५.१२ ॥ वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि / विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा // ंओ_१,५.१३ // असौ पुरुषः "अस्मान्" "अनुद्धतया" "गिरे"ति "वक्ती"ति सम्बन्धः । याष्टीका इत्य् आमन्त्रणम् । यूयम् इत्य् अध्याहार्यम् ॥ ंओथ्_१,५.१३ ॥ इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः / स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् // ंओ_१,५.१४ // "हेमविष्टरात्" सुवर्णपीठात् ॥ ंओथ्_१,५.१४ ॥ पदातिर् एव महतां राज्ञां वृन्देन पालितः / वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः // ंओ_१,५.१५ // स्पष्टम् ॥ ंओथ्_१,५.१५ ॥ जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः / ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम् // ंओ_१,५.१६ // स्पष्टम् ॥ ंओथ्_१,५.१६ ॥ कीदृशं ददर्शेत्य् अपेक्षायाम् आह केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् / ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा // ंओ_१,५.१७ // स्पष्टम् ॥ ंओथ्_१,५.१७ ॥ जराजरढया नित्यं तपःप्रसररूक्षया / जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम् // ंओ_१,५.१८ // स्पष्टम् ॥ ंओथ्_१,५.१८ ॥ उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा / निभृतं चोर्जिताकारं दधानम् भास्वरं वपुः // ंओ_१,५.१९ // "अप्रतिघम्" अप्रतिघाताकारम् । "निभृतं" कोमलं ॥ ंओथ्_१,५.१९ ॥ पेशलेनातिभीमेन प्रसन्नेनाकुलेन च / गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् // ंओ_१,५.२० // स्पष्टम् ॥ ंओथ्_१,५.२० ॥ अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् / धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम् // ंओ_१,५.२१ // "श्लक्ष्णाम्" पेशलाम् ॥ ंओथ्_१,५.२१ ॥ करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः / ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः // ंओ_१,५.२२ // स्पष्टम् ॥ ंओथ्_१,५.२२ ॥ सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् / आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः // ंओ_१,५.२३ // "अवेक्षितुः" पश्यतः । अतिपेशलत्वात् "आनन्द"दानं । सतेजस्कत्वात् "भय"दानम् ॥ ंओथ्_१,५.२३ ॥ मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः / प्रणनाम गलन्मौलिमणिमालितभूतलम् // ंओ_१,५.२४ // "गलद्" इत्यादि क्रियाविशेषणम् ॥ ंओथ्_१,५.२४ ॥ मुनिर् अप्य् अवनेर् ईशम् भास्वान् इव शतक्रतुम् / तत्राभिवादयां चक्रे मधुरोदारया गिरा // ंओ_१,५.२५ // स्पष्टम् ॥ ंओथ्_१,५.२५ ॥ ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः / स्वागतादिक्रमेणैनम् पूजयाम् आसुर् आदृताः // ंओ_१,५.२६ // "एनं" विश्वामित्रम् ॥ ंओथ्_१,५.२६ ॥ दशरथः कथयति अशङ्कितोपनीतेन भास्वता दर्शनेन ते / साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः // ंओ_१,५.२७ // "अशङ्कितम्" शङ्कराहितम् । "उपनीतेन" प्राप्तेन ॥ ंओथ्_१,५.२७ ॥ यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् / तद् आनन्दसुखम् प्राप्ता अद्य त्वद्दर्शनान् मुने // ंओ_१,५.२८ // "त्वद्दर्शनेन" वयम् ब्रह्मानन्दम् "प्राप्ता" इति भावः ॥ ंओथ्_१,५.२८ ॥ अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः / भवदागमनस्येमे यद् वयं लक्ष्यतां गताः // ंओ_१,५.२९ // "वर्तामहे" तिष्ठामः । "लक्ष्यताम्" आश्रयत्वम् । विषयत्वम् इति यावत् ॥ ंओथ्_१,५.२९ ॥ एवम् प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः / आसनेषु सभास्थानम् आस्थाय समुपाविशन् // ंओ_१,५.३० // "समुपाविशन्" उपविष्टाः ॥ ंओथ्_१,५.३० ॥ स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् / प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत् // ंओ_१,५.३१ // [ऋआम् ई १७, २८] "न्यवेदयद्" अर्पितवान् ॥ ंओथ्_१,५.३१ ॥ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा / प्रदक्षिणम् प्रकुर्वन्तं राजानम् पर्यपूजयत् // ंओ_१,५.३२ // [ऋआम् ई १७, २९अब् (*५३९च्द्)] स्पष्टम् ॥ ंओथ्_१,५.३२ ॥ स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा / कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् // ंओ_१,५.३३ // [ऋआम् ई १७, २९च्द्] स्पष्टम् ॥ ंओथ्_१,५.३३ ॥ वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः / यथार्हं चार्चयित्वैनम् पप्रच्छानामयं ततः // ंओ_१,५.३४ // [ऋआम् ई १७, ३०अब् (*५४१अब्)] स्पष्टम् ॥ ंओथ्_१,५.३४ ॥ क्षणं यथार्हम् अन्योऽन्यम् पूजयित्वा समेत्य च / ते सर्वे हृष्टमनसो महाराजनिवेशने // ंओ_१,५.३५ // [ऋआम् ई १७, ३१अब् (*५४१च्द्)] स्पष्टम् ॥ ंओथ्_१,५.३५ ॥ यथोचितासनगता मिथः संवृद्धतेजसः / परस्परेण पप्रच्छुः सर्वे ऽनामयम् आदरात् // ंओ_१,५.३६ // स्पष्टम् ॥ ंओथ्_१,५.३६ ॥ उपविष्टाय तस्मै स विश्वामित्राय धीमते / पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत् // ंओ_१,५.३७ // [ऋआम् ई *५४२अब्;एङ्] स्पष्टम् ॥ ंओथ्_१,५.३७ ॥ अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत / प्राञ्जलिः प्रयतो वाक्यम् इदम् प्रीतमना नृपः // ंओ_१,५.३८ // [ऋआम् ई *५४२ग्-ज्] स्पष्टम् ॥ ंओथ्_१,५.३८ ॥ यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके । [ऋआम् ई १७, ३३अब्] यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा ॥ ंओथ्_१,५.३९ ॥ स्पष्टम् ॥ ंओथ्_१,५.३९ ॥ यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः । [ऋआम् ई १७, ३३च्द्] स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा ॥ ंओथ्_१,५.४० ॥ [ऋआम् ई *५४५च्] स्पष्टम् ॥ ंओथ्_१,५.४० ॥ यथेप्सितेन संयोग इष्टस्यागमनं यथा । [ऋआम् ई *५४४] प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ंओथ्_१,५.४१ ॥ [ऋआम् ई १७, ३३ए] स्पष्टम् ॥ ंओथ्_१,५.४१ ॥ यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् / तथा त्वदागमाद् ब्रह्मन् स्वागतं ते महामुने // ंओ_१,५.४२ // [ऋआम् ई १७, ३३ङ्-ह् (*५४५द्)] "मृतस्य" "पुनर् आगमाद्" । इत्य् अत्र यथेति शेषः । हे महामुने । "ते" "स्वागतम्" अस्तु ॥ ंओथ्_१,५.४२ ॥ ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् / मुने तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते // ंओ_१,५.४३ // [ऋआम् ई *५४५एङ्;*५४६] स्पष्टम् ॥ ंओथ्_१,५.४३ ॥ कश् च ते परमः कामः किं च ते करवाण्य् अहम् / पात्रभूतो ऽसि मे विप्र प्राप्तः परमधार्मिकः // ंओ_१,५.४४ // [ऋआम् ई १७, ३४अ-द्] हे "विप्र" । "असि" त्वं । "मे पात्रभूतः प्राप्तः" ॥ ंओथ्_१,५.४४ ॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रजः / ब्रह्मर्षित्वम् अनु प्राप्तः पूज्यो ऽसि भगवन् मम // ंओ_१,५.४५ // [ऋआम् ई १७, ३५] हे "भगवन्" । "पूर्वं" "राजर्षिशब्देनै"व पूज्यः । "अनु" पश्चात् । "तपसा द्योतितप्रजः" सन् । "ब्रह्मर्षित्वम्" "प्राप्तः" त्वम् । "मम पूज्यः असि" ॥ ंओथ्_१,५.४५ ॥ गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम / तथा त्वद्दर्शनात् प्रीतिर् अन्तः शीतयतीव माम् // ंओ_१,५.४६ // [ऋआम् ई *५५१अ-च्] "अन्तः" मनसि ॥ ंओथ्_१,५.४६ ॥ विगतेच्छाभयक्रोधो वीतरागो निरामयः / इदम् अत्यद्भुतम् ब्रह्मन् यद् भवान् माम् उपागतः // ंओ_१,५.४७ // "माम्" उपागमानर्हम् इति भावः ॥ ंओथ्_१,५.४७ ॥ शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् । [ऋआम् ई १७, ३६च्] चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥ ंओथ्_१,५.४८ ॥ "उन्मग्नम्" उदितम् ॥ ंओथ्_१,५.४८ ॥ साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनम् मतम् / पूतो ऽस्म्य् अनुगृहीतो ऽस्मि तवाभ्यागमनान् मुने // ंओ_१,५.४९ // [ऋआम् ई *५५५] स्पष्टम् ॥ ंओथ्_१,५.४९ ॥ त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् / अद्य मे सफलं जन्म जीवितं तत् सुजीवितम् // ंओ_१,५.५० // [ऋआम् ई १७, ३४एङ्] "त्वदागमनात्" उत्पन्नेन "पुण्येन" । "मे जन्म मे जीवितं" च । "यत्" "अनुरञ्जितम्" स्वोपरक्तं कृतं । "तत्" ततो हेतोः । "मे जन्म सफलम्" भवति । "मे जीवितं सुजीवितम्" भवति ॥ ंओथ्_१,५.५० ॥ त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । [ऋआम् ई *५५२] आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् यथा ॥ ंओथ्_१,५.५१ ॥ स्पष्टम् ॥ ंओथ्_१,५.५१ ॥ यत् कार्यं येन चार्थेन प्राप्तो ऽसि मुनिपुङ्गव / कृतम् इत्य् एव तद् विद्धि मान्यो ऽसि हि भृशम् मम // ंओ_१,५.५२ // [ऋआम् ई *५५७] स्पष्टम् ॥ ंओथ्_१,५.५२ ॥ स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक / भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते // ंओ_१,५.५३ // [ऋआम् ई १७, ३८अब् (*५५८)] हे "कौशिक" । "त्वं" । "स्वकार्येण" सह "विमर्शं कर्तुम् अर्हसि" किम् मम कार्यम् अस्तीति विचारं कर्तुम् अर्हसीति भावः । ननु किमर्थम् अहं "स्वकार्येण" सह "विमर्शं" करोमीत्य् । अत्राह "भगवन्न्" इति । "हि" यस्मात् । हे "भगवन्" । "त्वयि यत् प्रतिपद्यते" उपयुज्यते । तत् "अदेयं नास्ति" । तद् ददाम्य् एवेत्य् अर्थः ॥ ंओथ्_१,५.५३ ॥ कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः / कर्ता चाहम् अशेषं ते दैवतम् परमम् भवान् // ंओ_१,५.५४ // [ऋआम् ई १७, ३८] स्पष्टम् ॥ ंओथ्_१,५.५४ ॥ सर्गान्तश्लोकेन दशरथविनयोक्त्या मुनेर् हर्षगमनं कथयति इदम् अतिमधुरं निशम्य वाक्यं श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् / प्रथितगुणवशाद् गुणैर् विशिष्टं मुनिवृषभः परमं जगाम हर्षम् // ंओ_१,५.५५ // [ऋआम् ई १७, ३९] "अतिमधुरम्" उत्कृष्टमधुराख्यगुणविशिष्टं । "श्रुतिसुखं" कर्णसुखम् । "अर्थविदा" परमार्थज्ञेन दशरथेन । "विनीतं" सविनयं यथा भवति तथ्"ओक्तं" कथितं । तथा "प्रथिताः" ये "गुणाः" वाक्यगुणास् । तद्"वशात्" "गुणैः विशिष्टम्" । प्रथितगुणविशिष्टम् इति यावत् । ईदृशं "वाक्यं निशम्य" सः "मुनिवृषभः" मुनिश्रेष्ठः कौशिकः । "परमं हर्षं जगाम" । दातृविनयेन हि अर्थिनो महान् हर्षो जायते । इति शिवम् ॥ ंओथ्_१,५.५५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चमः सर्गः ॥ १,५ ॥ ************************************************************************ तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् / हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत // ंओ_१,६.१ // [ऋआम् ई १८, १] स्पष्टम् ॥ ंओथ्_१,६.१ ॥ सदृशं राजशार्दूल तवैवैतन् महीतले / महावंशप्रसूतस्य वसिष्ठवशवर्तिनः // ंओ_१,६.२ // [ऋआम् ई १८, २] "तवैव" न त्व् अन्यस्येत्य् अर्थः ॥ ंओथ्_१,६.२ ॥ यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् / कुरु त्वं राजशार्दूल धर्मं समनुपालय // ंओ_१,६.३ // [ऋआम् ई १८, ३] "तु"शब्दः "वाक्य"वाच्यस्य "कार्य"स्यातिकष्टं सम्पादनीयतां द्योतयति । तस्य "कार्यनिर्णयम्" हृद्गतवाक्यवाच्यकार्यनिर्णयम् इत्य् अर्थः । ननु किमर्थं करोमीत्य् । अत्राह "धर्मम्" इति । तवानेन धर्मपालनम् भविष्यतीति भावः ॥ ंओथ्_१,६.३ ॥ "हृद्गतं वाक्यम्" प्रकटीकरोति अहं नियमम् आतिष्ठे सिद्ध्यर्थम् पुरुषर्षभ / तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः // ंओ_१,६.४ // [ऋआम् ई १८, ४] "आतिष्ठे" आश्रयामि ॥ ंओथ्_१,६.४ ॥ यदा यदा तु यज्ञेन यजे ऽहं विबुधव्रजम् / तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः // ंओ_१,६.५ // "यजे" पूजयामि ॥ ंओथ्_१,६.५ ॥ बहुशो विहिते तस्मिन् मम राक्षसनायकाः / अकिरंस् ते महीं यागे मांसेन रुधिरेण च // ंओ_१,६.६ // [ऋआम् ई १८, ५ (*५६२)] स्पष्टम् ॥ ंओथ्_१,६.६ ॥ अवधूते तथाभूते तस्मिन् यागकदम्बके / कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम् // ंओ_१,६.७ // [ऋआम् ई १८, ६] "अपागमम्" अपगतः ॥ ंओथ्_१,६.७ ॥ न च मे क्रोधम् उत्स्रष्टुम् बुद्धिर् भवति पार्थिव / तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते // ंओ_१,६.८ // [ऋआम् ई १८, ७] शापदानेन स यज्ञः नश्यतीति भावः ॥ ंओथ्_१,६.८ ॥ ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ / त्वत्प्रसादाद् अविघ्नेन प्रापयेयम् महाफलम् // ंओ_१,६.९ // हे "राजन्" । अतः "मम तस्मिन् महाक्रतौ ईदृशी क्षमा" भवति । अतः अहम् "महाफलम्" तं क्रतुं । "त्वत्प्रसादात् प्रापयेयम्" प्राप्नुयाम् । "प्रापयेयम्" इति स्वार्थे णिच् आर्षः ॥ ंओथ्_१,६.९ ॥ त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् / अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः // ंओ_१,६.१० // स्पष्टम् ॥ ंओथ्_१,६.१० ॥ ननु केन प्रकारेणाहं त्वत्त्राणं करोमीत्य् । अत्राह तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः / महेन्द्रसदृशो वीरो रामो रक्षोविदारणः // ंओ_१,६.११ // स्पष्टम् ॥ ंओथ्_१,६.११ ॥ ननु ततः किम् इत्य् । अत्राह तम् पुत्रं राजशार्दूल रामं सत्यपराक्रमम् / काकपक्षधरं शूरं ज्येष्ठम् मे दातुम् अर्हसि // ंओ_१,६.१२ // [ऋआम् ई १८, ८] तेनैव रक्षापरपर्यायं त्राणम् मे भविष्यतीति भावः ॥ ंओथ्_१,६.१२ ॥ ननु कथं शिशुरूपो ऽसौ राक्षसेभ्यस् तव मखं रक्षिष्यतीत्य् । अत्राह शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा / राक्षसा ये ऽपकर्तारस् तेषाम् मूर्धविनिग्रहे // ंओ_१,६.१३ // [ऋआम् ई १८, ९] स्पष्टम् ॥ ंओथ्_१,६.१३ ॥ श्रेयश् चास्मिन् करिष्यामि बहुरूपम् अनन्तकम् / त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति // ंओ_१,६.१४ // [ऋआम् ई १८, १०] स्पष्टम् ॥ ंओथ्_१,६.१४ ॥ ननु कथम् असौ तादृशानां राक्षसानाम् पुरः स्थातुं शक्नोतीत्य् । अत्राह न च तेन समासाद्य स्थातुं शक्ता निशाचराः । [ऋआम् ई १८, ११अब्] क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥ ंओथ्_१,६.१५ ॥ "तेन" इति द्वितीयास्थाने तृतीया आर्षी ॥ ंओथ्_१,६.१५ ॥ तेषां च नान्यः काकुत्स्थाद् योद्धुम् उत्सहते पुमान् । [ऋआम् ई १८, ११च्द्] ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव ॥ ंओथ्_१,६.१६ ॥ स्पष्टम् ॥ ंओथ्_१,६.१६ ॥ वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । [ऋआम् ई १८, १२अब्] खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव ॥ ंओथ्_१,६.१७ ॥ स्पष्टम् ॥ ंओथ्_१,६.१७ ॥ रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । [ऋआम् ई १८, १२च्द्] अनारतागता धारा जलदस्येव पांसवः ॥ ंओथ्_१,६.१८ ॥ स्पष्टम् ॥ ंओथ्_१,६.१८ ॥ न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव । [ऋआम् ई १८, १३अब्] न तद् अस्ति जगत्य् अस्मिन् यन् न देयम् महात्मनः ॥ ंओथ्_१,६.१९ ॥ स्पष्टम् ॥ ंओथ्_१,६.१९ ॥ हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् । [ऋआम् ई १८, १३च्द्] न ह्य् अस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ ंओथ्_१,६.२० ॥ "हन्त" हर्षे ।" नूनं" निश्चये । अहं तान् "राक्षसान्" "हतान्" जानामि । त्वम् अपि "विद्धि" । ननु कथम् अहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह "न" "ही"ति । "सं" सम्यक् । "प्रवृत्तिः" । येषां । ते तादृशाः ॥ ंओथ्_१,६.२० ॥ अहं वेद्मि महात्मानं रामं राजीवलोचनम् / वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः // ंओ_१,६.२१ // [ऋआम् ई १८, १४] स्पष्टम् ॥ ंओथ्_१,६.२१ ॥ यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् / तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि // ंओ_१,६.२२ // [ऋआम् ई १८, १५] "मनसि स्थितं" काङ्क्षितम् । "अभिप्रेतम्" प्रोक्तं कार्यार्थम् इष्टम् ॥ ंओथ्_१,६.२२ ॥ दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः । [ऋआम् ई १८, १७च्द्] हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ ंओथ्_१,६.२३ ॥ स्पष्टम् ॥ ंओथ्_१,६.२३ ॥ अत्राभ्यनुज्ञां काकुत्स्थ ददताम् तव मन्त्रिणः / वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय // ंओ_१,६.२४ // [ऋआम् ई १८, १६] स्पष्टम् ॥ ंओथ्_१,६.२४ ॥ नात्येति कालः कालज्ञ यथायम् मम राघव / तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः // ंओ_१,६.२५ // [ऋआम् ई १८, १८] "अत्येति" गच्छति ॥ ंओथ्_१,६.२५ ॥ कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् / महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः // ंओ_१,६.२६ // "अकालतः" अकाले ॥ ंओथ्_१,६.२६ ॥ इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः / विरराम महातेजा विश्वामित्रो मुनीश्वरः // ंओ_१,६.२७ // [ऋआम् ई १८, १९] स्पष्टम् ॥ ंओथ्_१,६.२७ ॥ सर्गान्तश्लोकेन दशरथतूष्णीम्भावं कथयति श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् / नो युक्तियुक्तकथनेन विनैति तोषं धीमान् अपूरितमनोऽभिमतश् च लोकः // ंओ_१,६.२८ // "महाप्रभावो" महानुभावयुक्तः । "स" दशरथः । "मुनिवरस्य" विश्वामित्रस्य । "वचः" "श्रुत्वा" "तूष्णीम् अतिष्ठ्%अत्" । नो किञ्चिद् अप्य् उक्तवान् इत्य् अर्थः । "इदं" तूष्णीम् आसनम् । "उपपन्नं" युक्तम् । भवति । यतः "धीमान्" बुद्धियुक्तः । "युक्तियुक्तकथनेन" "विना" "वक्तुं" कथयितुं "तोषं" "नैति" । न कथयतीत्य् अर्थः । "लोकश्" "च" लोकस् तु । "अपूरितमनोऽभि"लषितः "वक्तुं" "तोषं" "नैति" । अतः युक्तिरहितं विश्वामित्रस्य वाक्यं श्रुत्वा दशरथः तुष्णीम् अभूद् इति भावः । इति शिवम् ॥ ंओथ्_१,६.२८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षष्ठः सर्गः ॥ १,६ ॥ ************************************************************************ तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् / मुहूर्तम् आसीन् निश्चेष्टः सदैन्यं चैवम् अब्रवीत् // ंओ_१,७.१ // [ऋआम् ई १९, १] स्पष्टम् ॥ ंओथ्_१,७.१ ॥ ऊनषोडशवर्षो ऽयं रामो राजीवलोचनः / न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः // ंओ_१,७.२ // [ऋआम् ई १९, २] स्पष्टम् ॥ ंओथ्_१,७.२ ॥ इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहम् प्रभो / तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् // ंओ_१,७.३ // [ऋआम् ई १९, ३] "पिशिताशिनां" राक्षसानाम् ॥ ंओथ्_१,७.३ ॥ इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः । [ऋआम् ई १९, ४अब्] अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि ॥ ंओथ्_१,७.४ ॥ [ऋआम् ई १९, ५अब्] स्पष्टम् ॥ ंओथ्_१,७.४ ॥ एभिः सह तवारीणाम् महेन्द्रमहताम् अपि / ददामि युद्धम् मत्तानां करिणाम् इव केसरी // ंओ_१,७.५ // "हि" यस्माद् । एते "भृत्या" भवन्ति । "अहम् चैषां समरमूर्धनि गोप्ता"स्मि । अतः अहम् "एभिः" "सह तवारीणां युद्धं ददामी"ति सम्बन्धः ॥ ंओथ्_१,७.५ ॥ बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् । [ऋआम् ई १९, ७अब्] अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः ॥ ंओथ्_१,७.६ ॥ स्पष्टम् ॥ ंओथ्_१,७.६ ॥ न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः / न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु // ंओ_१,७.७ // एष इति शेषः ॥ ंओथ्_१,७.७ ॥ केवलम् पुष्पषण्डेषु नगरोपवनेषु च / उद्यानवनकुञ्जेषु सदैव परिशीलितः // ंओ_१,७.८ // स्पष्टम् ॥ ंओथ्_१,७.८ ॥ विहर्तुम् एष जानाति सह राजकुमारकैः / कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु // ंओ_१,७.९ // स्पष्टम् ॥ ंओथ्_१,७.९ ॥ अद्य त्व् अतितराम् ब्रह्मन् मम भाग्यविपर्ययात् / हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः // ंओ_१,७.१० // "हरितः" पाण्डुः ॥ ंओथ्_१,७.१० ॥ नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ / अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् // ंओ_१,७.११ // "अत्तुम्" भक्षितुम् ॥ ंओथ्_१,७.११ ॥ सदारः सहभृत्यो ऽहं तत्कृते मुनिनायक / शरदीव पयोवाहो नूनं निःसहतां गतः // ंओ_१,७.१२ // "निःसहताम्" उत्कृशतां । सोढुम् अशक्तत्वम् ॥ ंओथ्_१,७.१२ ॥ ईदृशो ऽसौ सुतो बाल आधिना विवशीकृतः / कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः // ंओ_१,७.१३ // स्पष्टम् ॥ ंओथ्_१,७.१३ ॥ अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् / राज्याद् अपि सुखायैष पुत्रस्नेहो महामते // ंओ_१,७.१४ // स्पष्टम् ॥ ंओथ्_१,७.१४ ॥ ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः / पुत्रस्नेहेन सन्तो ऽपि कुर्वते ते न संश्रयम् // ंओ_१,७.१५ // "सन्तः अपि" स्थिता अपि । "संश्रयं" स्थितिं । "पुत्रस्नेहेन ते" विस्मृतिं गच्छन्तीति भावः ॥ ंओथ्_१,७.१५ ॥ असवो ऽथ धनं दारास् त्यज्यन्ते मानवैः सुखम् / न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु // ंओ_१,७.१६ // स्पष्टम् ॥ ंओथ्_१,७.१६ ॥ राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । [ऋआम् ई १९, ७एङ्] रामस् तान् योधयत्व् इत्थम् उक्तिर् एवातिदुःसहा ॥ ंओथ्_१,७.१७ ॥ "कूटयुद्धं" छलयुद्धम् । "उक्तिर् एवे"ति अनुष्ठानस्य का कथेति भा-वः ॥ ंओथ्_१,७.१७ ॥ विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे / जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि // ंओ_१,७.१८ // [ऋआम् ई १९, ८] "नोत्सहे" समर्थो न भवामि । "जीवितुं" जीवनक्रियाकर्तृताम् अनुभवितुम् । "जीविताकाङ्क्षी" मम जीविताकाङ्क्षीत्य् अर्थः ॥ ंओथ्_१,७.१८ ॥ नववर्षसहस्राणि मम यातानि कौशिक / दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया // ंओ_१,७.१९ // [ऋआम् ई १९, १०] अनुकम्पिताः पुत्राः "पुत्रकाः" ॥ ंओथ्_१,७.१९ ॥ प्रधानभूतस् तेष्व् एषु रामः कमललोचनः / तं विना ते त्रयो ऽप्य् अन्ये धारयन्ति न जीवितम् // ंओ_१,७.२० // स्पष्टम् ॥ ंओथ्_१,७.२० ॥ स एव रामो भवता नीयते राक्षसान् प्रति / यदि तत् पुत्रहीनं त्वम् मृतम् एवाशु विद्धि माम् // ंओ_१,७.२१ // स्पष्टम् ॥ ंओथ्_१,७.२१ ॥ चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा / ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि // ंओ_१,७.२२ // [ऋआम् ई १९, ११] निर्धारणे षष्ठी ॥ ंओथ्_१,७.२२ ॥ निशाचरबलं हन्तुम् मुने यदि तवेप्सितम् / चतुरङ्गसमायुक्तं मया सह बलं नय // ंओ_१,७.२३ // स्पष्टम् ॥ ंओथ्_१,७.२३ ॥ किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते / कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् // ंओ_१,७.२४ // [ऋआम् ई १९, १२] स्पष्टम् ॥ ंओथ्_१,७.२४ ॥ कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् । / मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् // ंओ_१,७.२५ // [ऋआम् ई १९, १३] रामस्याग्रे स्थितत्वाभावात् "तेने"त्य् उक्तम् ॥ ंओथ्_१,७.२५ ॥ सर्वम् मे शंस भगवन् यथा तेषाम् मया रणे / स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः // ंओ_१,७.२६ // [ऋआम् ई १९, १४] स्पष्टम् ॥ ंओथ्_१,७.२६ ॥ श्रूयते हि महावीरो रावणो नाम राक्षसः / साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः // ंओ_१,७.२७ // [ऋआम् ई १९, १७] स्पष्टम् ॥ ंओथ्_१,७.२७ ॥ अस्तु सः । ततः किम् इत्य् । अत्राह स चेत् तव मखे विघ्नं करोति किल दुर्मतिः / तत् सङ्ग्रामे न शक्ताः ऽस्मो वयं तस्य दुरात्मनः // ंओ_१,७.२८ // [ऋआम् ई १९, १९च्द्] "तत्" तदा ॥ ंओथ्_१,७.२८ ॥ ननु कथम् असौ तादृग्वीर्यः अस्तीत्य् । अत्राह काले काले पृथग् ब्रह्मन् भूरिवीर्यविभूतयः । / भूतेष्व् अभ्युदयं यान्ति प्रलीयन्ते च कालतः // ंओ_१,७.२९ // "भूरिवीर्यविभूतयः" महद्वीर्यसम्पद्युक्ताः । "भूतेष्व्" इति निर्धारणे सप्-तमी ॥ ंओथ्_१,७.२९ ॥ अद्यास्मिंस् ते वयं काले रावणादिषु शत्रुषु / न समर्थाः पुरः स्थातुं नियतेर् एष निश्चयः // ंओ_१,७.३० // स्पष्टम् ॥ ंओथ्_१,७.३० ॥ तस्मात् प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके / मम चैवाल्पभाग्यस्य भवान् ह्य् असमदैवतम् // ंओ_१,७.३१ // [ऋआम् ई १९, २०] "अल्पभाग्यस्ये"ति । अन्यथा त्वं रामं न याचितवान् इति भावः ॥ ंओथ्_१,७.३१ ॥ देवदानवगन्धर्वा यक्षप्लवगपन्नगाः / न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि // ंओ_१,७.३२ // स्पष्टम् ॥ ंओथ्_१,७.३२ ॥ महावीर्यवतां वीर्यम् आदत्ते स सुधाभुजाम् / तेन सार्धं न शक्ता स्मस् संयुगे तस्य वावराः // ंओ_१,७.३३ // [ऋआम् ई १९, २२अ-द्] "आदत्ते" गृह्णाति । प्रतिबध्नातीति यावत् । महावीर्यान् सुधाभुजो ऽप्य् असौ वीर्यरहितान् करोतीति भावः । "अवरास्" तदपेक्षया नीचाः । "वा"शब्दः पादपूरणार्थः ॥ ंओथ्_१,७.३३ ॥ ननु रामस्य सज्जनत्वेनैवावश्यं जयः स्याद् इत्य् । अत्राह अयम् अन्यतमः कालः पेलवीकृतसज्जनः / राघवो ऽपि गतो दैन्यं यत्र वार्धकजर्जरः // ंओ_१,७.३४ // "अपि"शब्दः राघवस्य महासज्जनत्वं द्योतयति । वार्धकेनेव जर्जरः "वार्धकजर्जरः" ॥ ंओथ्_१,७.३४ ॥ अथ वा लवणम् ब्रह्मन् यज्ञघ्नं तम् मधोः सुतम् / कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् // ंओ_१,७.३५ // "अथ वा मधोः सुतं तं" प्रसिद्धं । "यज्ञघ्नं लवणं" योद्धुं "न शक्ताः" स्मः इति व्यवहिताध्याहृतैः सह सम्बन्धः । लवणो ऽपि चेत् तव यज्ञविघ्नकारी अस्ति तम् अपि योद्धुं न शक्ताः स्म इति भावः । हे "सुरप्रख्य" । "त्वं कथय" । अहं "पुत्रकं क्वेव" कुत्रेव । "मोक्ष्यामि" । न मोक्ष्यामीति भावः ॥ ंओथ्_१,७.३५ ॥ अथ नेच्छसि चेद् ब्रह्मंस् तद् विधेयो ऽहम् एव ते / अन्यथा तु न पश्यामि शाश्वतं जयम् आत्मनः // ंओ_१,७.३६ // "अथ" पक्षान्तरे । त्वम् पुत्रामोक्षणं "चेत्" यदि । "नेच्छसि" । "तद् अहं ते" तव । "विधेयः" आयत्तः । "एवा"स्मि । तदा अहम् एवागच्छामीत्य् अर्थः । "अन्यथा" सहजविचारे क्रियमाणे । अहम् "आत्मनः शाश्वतं जयं न पश्यामि" । न जानामीत्य् अर्थः ॥ ंओथ्_१,७.३६ ॥ सर्गान्तश्लोकेन दशरथवचनम् उपसंहरति इत्य् उक्त्वा मृदुवचनम् भयाकुलो ऽसाव् आलोले मुनिमतसंशये निमग्नः / नाज्ञासीत् कणम् अपि निश्चयं महात्मा प्रोद्वीचाव् इव जलधौ समुह्यमानः // ंओ_१,७.३७ // "मुनिमतस्य संशये" ऽनुष्ठानाननुष्ठानरूपे सन्देहे । "मग्नः" । अत एव "भयाकुलः" । "महात्मा असौ" दशरथः । "इत्य्" एवं । "मृदुवचनं" कोमलवचनम् । "उक्त्वा" । "कणम् अपि" स्तोकम् अपि । "निश्चयं न अज्ञासीत्" न ज्ञातवान् । "असौ" कथम्भूतः "इव" । "प्रोद्वीचौ जलधौ समुह्यमान इव" । जलधौ समुह्यमानो ऽपि कुत्र गच्छामीति निश्चयं न जानातीति शिवम् ॥ ंओथ्_१,७.३७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तमः सर्गः ॥ १,७ ॥ ************************************************************************ तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् / समन्युः कौशिको वाक्यम् प्रत्युवाच महीपतिम् // ंओ_१,८.१ // [ऋआम् ई २०, १] "तस्य" दशरथस्य ॥ ंओथ्_१,८.१ ॥ विश्वामित्रः कथयति करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि । [ऋआम् ई २०, २अब्] सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि ॥ ंओथ्_१,८.२ ॥ स्पष्टम् ॥ ंओथ्_१,८.२ ॥ राघवानाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः । [ऋआम् ई २०, २च्द्] न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥ ंओथ्_१,८.३ ॥ ननु कथं "राघवानां कुलस्यायं विपर्ययः अयुक्तो" भवतीत्य् । अत्र दृष्टान्तम् आह । "न कदाचने"ति ॥ ंओथ्_१,८.३ ॥ यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः / हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः // ंओ_१,८.४ // [ऋआम् ई २०, ३] स्पष्टम् ॥ ंओथ्_१,८.४ ॥ श्रीवाल्मीकिः भरद्वाजम् प्रति कथयति तस्मिन् कोपपरीते ऽथ विश्वामित्रे महात्मनि / चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन् // ंओ_१,८.५ // [ऋआम् ई २०, ४] स्पष्टम् ॥ ंओथ्_१,८.५ ॥ क्रोधाभिभूतं विज्ञाय जगन्मित्रम् महामुनिम् / धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत् // ंओ_१,८.६ // [ऋआम् ई २०, ५] "जगन्मित्रं" विश्वामित्रम् ॥ ंओथ्_१,८.६ ॥ श्रीवसिष्ठः कथयति इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः । [ऋआम् ई २०, ६अब्] भवान् दशरथः श्रीमांस् त्रैलोक्ये गुणभूषितः ॥ ंओथ्_१,८.७ ॥ स्पष्टम् ॥ ंओथ्_१,८.७ ॥ नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि । [ऋआम् ई २०, ६च्द्] मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि ॥ ंओथ्_१,८.८ ॥ स्पष्टम् । युग्मम् ॥ ंओथ्_१,८.८ ॥ त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः / स्वधर्मम् प्रतिपद्यस्व न धर्मं हातुम् अर्हसि // ंओ_१,८.९ // [ऋआम् ई २०, ७] "प्रतिपद्यस्व" स्वीकुरु ॥ ंओथ्_१,८.९ ॥ करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः / इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय // ंओ_१,८.१० // [ऋआम् ई २०, ८] "इष्टापूर्तः" इष्टापूर्तस्वरूपः । प्रतिज्ञाताकरणेन हि सर्वो धर्मः नश्यति ॥ ंओथ्_१,८.१० ॥ गुप्तम् पुरुषसिंहेन ज्वलनेनामृतं यथा । [ऋआम् ई २०, ९च्द्] कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥ ंओथ्_१,८.११ ॥ [ऋआम् ई २०, ९अब्] "कृतास्त्रं" शिक्षितास्त्रम् ॥ ंओथ्_१,८.११ ॥ इक्ष्वाकुवंशजातो ऽपि स्वयं दशरथो ऽपि सन् / न पालयसि चेद् वाक्यं को ऽपरः पालयिष्यति // ंओ_१,८.१२ // स्पष्टम् ॥ ंओथ्_१,८.१२ ॥ युष्मदादिप्रणीतेन व्यवहारेण जन्तवः / मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि // ंओ_१,८.१३ // "ताम्" मर्यादाम् ॥ ंओथ्_१,८.१३ ॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः / एष बुद्ध्याधिको लोके तपसां च परायणः // ंओ_१,८.१४ // [ऋआम् ई २०, १०] "परायणः" आश्रयः ॥ ंओथ्_१,८.१४ ॥ एषो ऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे / नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन // ंओ_१,८.१५ // [ऋआम् ई २०, ११] स्पष्टम् ॥ ंओथ्_१,८.१५ ॥ न च देवर्षयः केचिन् नामरा न च राक्षसाः / न नागयक्षगन्धर्वा अनेन सदृशा नृप // ंओ_१,८.१६ // [ऋआम् ई २०, १२] स्पष्टम् ॥ ंओथ्_१,८.१६ ॥ अस्त्रम् अस्मै कृशाश्वेन परैः परमदुर्जयम् । [ऋआम् ई २०, १३;५९९*] कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥ ंओथ्_१,८.१७ ॥ [ऋआम् ई २०, १३च्द्] "परैः" अन्यैः । "परमदुर्जयम्" अत्यन्तं जेतुम् अशक्यं । "समन्वशात्" स-मपालयत् ॥ ंओथ्_१,८.१७ ॥ ननु किमर्थं कृशाश्वेनास्मै अस्त्राणि दत्तानीत्य् । अत्राह ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः / एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः // ंओ_१,८.१८ // [ऋआम् ई २०, १४] "हि" यस्मात् । "प्रजापतिसुतोपमास् ते" प्रसिद्धाः । "कृशाश्वस्य पुत्राः" । "एनं" विश्वामित्रम् । "अन्वचरन्" अनुचरन्ति स्म । अतः पुत्रस्नेहेन दत्तवान् इति भावः ॥ ंओथ्_१,८.१८ ॥ ते पुत्राः के इत्य् अपेक्षायाम् आह जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे / तयोस् तु यान्य् अपत्यानि शतम् परमदुर्जयम् // ंओ_१,८.१९ // "जया च सुप्रभा चैवे"ति ये । "दाक्षायण्यौ" दक्षस्य स्त्रीरूपे अपत्ये । "सुमध्यमे" स्त्रियौ । आस्ताम् । "तयोः" "यानि" "परमदुर्जयं" "शतं" "अपत्यानि" आसन् । अत्र च पूर्वश्लोकापेक्षयोत्तरवाक्यगतत्वाद् यच्छब्दस्य तच्छब्दापेक्षा नास्ति ॥ ंओथ्_१,८.१९ ॥ ननु कस्याः कत्य् अपत्यानि आसन्न् इत्य् अपेक्षायाम् आह पञ्चाशतः सुताञ् जज्ञे जया लब्धवरा पुरा / वधायासुरसैन्यानां ते ऽक्षयाः कामरूपिणः // ंओ_१,८.२० // [ऋआम् ई २०, १६] "अक्षयाः" नाशरहिताः ॥ ंओथ्_१,८.२० ॥ सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् / सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः // ंओ_१,८.२१ // [ऋआम् ई २०, १७] "दुर्धर्षान्" पराभवितुम् अशक्यान् । "दुराक्रोशान्" शत्रुभिः समरे आह्वातुम् अशक्यान् ॥ ंओथ्_१,८.२१ ॥ प्रासङ्गिकम् उपसंहृत्य प्रकृतम् अनुसरति एवंवीर्यो महातेजा विश्वामित्रो महामुनिः / न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि // ंओ_१,८.२२ // [ऋआम् ई २०, १९] पूर्वार्धम् उत्तरार्धस्य हेतुत्वेन योज्यम् ॥ ंओथ्_१,८.२२ ॥ सर्गान्तश्लोकेन श्रीवसिष्ठो वाक्यं समापयति अस्मिन् महासत्त्वमये मुनीन्द्रे स्थिते समीपे पुरुषस् तु साधुः / प्राप्ते ऽपि मृत्याव् अमरत्वम् एति मा दीनतां गच्छ यथा विमूढः // ंओ_१,८.२३ // "यथा विमूढः" । मूढवद् इत्य् अर्थः । इति शिवम् ॥ ंओथ्_१,८.२३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टमः सर्गः ॥ १,८ ॥ ************************************************************************ श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् / समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम् // ंओ_१,९.१ // [ऋआम् ई २१, १] "समुत्स्रष्टुमनाः" दातुमनाः ॥ ंओथ्_१,९.१ ॥ दशरथः प्रतीहारम् प्रति कथयति प्रतीहार महाबाहुं रामम् सत्यपराक्रमम् / सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय // ंओ_१,९.२ // स्पष्टम् ॥ ंओथ्_१,९.२ ॥ दशरथवाक्यम् उपसंहरति इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् / मुहूर्तमात्रेणागत्य समुवाच महीपतिम् // ंओ_१,९.३ // स्पष्टम् ॥ ंओथ्_१,९.३ ॥ प्रतीहारः कथयति देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे / विमनाः संस्थितो रात्रौ षट्पदः कमले यथा // ंओ_१,९.४ // स्पष्टम् ॥ ंओथ्_१,९.४ ॥ आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः / न कस्यचिच् च निकटे स्थातुम् इच्छति खिन्नधीः // ंओ_१,९.५ // स्पष्टम् ॥ ंओथ्_१,९.५ ॥ इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् / सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम् // ंओ_१,९.६ // स्पष्टम् ॥ ंओथ्_१,९.६ ॥ राजप्रश्नम् एव कथयति कथं कीदृक् स्थितो राम इति पृष्टो महीभृता / रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम् // ंओ_१,९.७ // स्पष्टम् ॥ ंओथ्_१,९.७ ॥ देहयष्टिम् इमां देव धारयन्त इमे वयम् / खिन्नाः खेदपरिम्लाने विभो रामे सुते तव // ंओ_१,९.८ // हे "देव" हे राजन् । "देहयष्टिं" देहलतां । "रामे" रामाख्ये । "तव सुते" तव सुतनिमित्तं । चर्मणि द्वीपिनं हन्तीतिवत् ॥ ंओथ्_१,९.८ ॥ रामो राजीवपत्राक्षो यतःप्रभृति चागतः / सविप्रस् तीर्थयात्रायास् ततःप्रभृति दुर्मनाः // ंओ_१,९.९ // स्पष्टम् ॥ ंओथ्_१,९.९ ॥ यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् / सायम् अम्लानवदनः करोति न करोति वा // ंओ_१,९.१० // स्पष्टम् ॥ ंओथ्_१,९.१० ॥ स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् / प्रार्थितो ऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः // ंओ_१,९.११ // "आ तृप्तेः" तृप्तिपर्यन्तम् ॥ ंओथ्_१,९.११ ॥ लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने / न च क्रीडति लीलाभिर् वराद्भिर् इव चातकः // ंओ_१,९.१२ // "वराद्भिः" सरोजलैः । "चातकः" पक्षिविशेषः । स हि वर्षाबिन्दून् एव पिबति ॥ ंओथ्_१,९.१२ ॥ माणिक्यमुक्तासम्प्रोता केयूरकटकावली / नानन्दयति तं राजन् द्यौः पातविवशं यथा // ंओ_१,९.१३ // "पातविवशम्" पतन्तम् ॥ ंओथ्_१,९.१३ ॥ क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु / लतावलयगेहेषु भवत्य् अतिविषादवान् // ंओ_१,९.१४ // "लतावलयगेहेषु" लतामण्डलयुक्तेषु गृहेषु ॥ ंओथ्_१,९.१४ ॥ यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा / बाष्पपूरेक्षण इव तेनैव परिखिद्यते // ंओ_१,९.१५ // स्पष्टम् ॥ ंओथ्_१,९.१५ ॥ किम् इमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः / इति नृत्तविलासेषु कामिनीः परिनिन्दति // ंओ_१,९.१६ // "इमाः" एताः कामिन्यः ॥ ंओथ्_१,९.१६ ॥ भोजनं शयनम् पानं विलासं स्नानम् आसनम् / उन्मत्तवेष्टितम् इव नाभिनन्दति निन्दितम् // ंओ_१,९.१७ // "निन्दितं" निन्दाविषयीकृतम् ॥ ंओथ्_१,९.१७ ॥ किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः / सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एको ऽवतिष्ठते // ंओ_१,९.१८ // स्पष्टम् ॥ ंओथ्_१,९.१८ ॥ नोदेति परिहासेषु न भोगेषु निमज्जति / न च तिष्ठति कार्येषु मौनम् एवावलम्बते // ंओ_१,९.१९ // स्पष्टम् ॥ ंओथ्_१,९.१९ ॥ विलोलालकवल्लर्यो हेलावलितलोचनाः / नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा // ंओ_१,९.२० // स्पष्टम् ॥ ंओथ्_१,९.२० ॥ एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च / रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु // ंओ_१,९.२१ // "विक्रीतो" हि पलायनार्थं "जन्तुरहिते" एव देशे "रतिम् आयाति" ॥ ंओथ्_१,९.२१ ॥ वस्त्रपानाशनादानपराङ्मुखतया तया / परिव्रड्धर्मिणां राजन् सो ऽनुयाति तपस्विनाम् // ंओ_१,९.२२ // "तपस्विनाम् अनुयाति" तपस्विसम्बन्धिचरितम् अनुकरोतीत्य् अर्थः । न माषाणाम् अश्नीयाद् इतिवत् प्रयोगः ॥ ंओथ्_१,९.२२ ॥ एक एव वसन् देशे जनशून्ये जनेश्वर / न हसत्य् एकया बुद्ध्या न गायति न रोदिति // ंओ_१,९.२३ // "एकया बुद्ध्या" सर्वत्यागरूपया मत्या उपलक्षितः ॥ ंओथ्_१,९.२३ ॥ पुनः किं करोतीत्य् अपेक्षायाम् आह बद्धपद्मासनः शून्यमना वामकरस्थले / कपोलतलम् आदाय केवलम् परितिष्ठति // ंओ_१,९.२४ // स्पष्टम् ॥ ंओथ्_१,९.२४ ॥ नाभिमानम् उपादत्ते नापि वाञ्छति राजताम् / नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु // ंओ_१,९.२५ // स्पष्टम् ॥ ंओथ्_१,९.२५ ॥ न विद्मः किम् असौ जातः किं करोति किम् ईहते / किं ध्यायति किम् आयाति कथं किम् अनुधावति // ंओ_१,९.२६ // "न विद्म" इत्य् अस्य कर्मापेक्षायाम् आह "किम् असौ जातः" किमर्थम् असौ जातः । जननं हि भोगादिसेवनार्थम् इति भावः ॥ ंओथ्_१,९.२६ ॥ प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् / विरागम् प्रत्यहं याति शरदन्त इव द्रुमः // ंओ_१,९.२७ // स्पष्टम् ॥ ंओथ्_१,९.२७ ॥ अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ / तादृशाव् एव तस्यैव प्रतिबिम्बाव् इव स्थितौ // ंओ_१,९.२८ // स्पष्टम् ॥ ंओथ्_१,९.२८ ॥ भृत्यै राजभिर् अम्बाभिः स पृष्टो ऽपि पुनः पुनः / उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः // ंओ_१,९.२९ // "सः" श्रीरामः । निरीहितः चेष्टितरहितः । "इति"शब्दः पादपूरणार्थः श्रीरामोत्तरवाक्यस्वरूपनिर्देशपरो वा ज्ञेयः ॥ ंओथ्_१,९.२९ ॥ आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः / इति पार्श्वगतम् भव्यम् अनुशास्ति सुहृज्जनम् // ंओ_१,९.३० // "भव्यम्" अनुशासनयोग्यम् ॥ ंओथ्_१,९.३० ॥ नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च / पुरःस्थितम् इवास्नेहो नाशम् एवानुपश्यति // ंओ_१,९.३१ // स्पष्टम् ॥ ंओथ्_१,९.३१ ॥ रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः / चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति // ंओ_१,९.३२ // सः रामः । "रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः" "चेष्टितैर् एव" केवलैः अभिनयैर् एवोपलक्षितया "काकल्या" कलसूक्ष्मध्वनिना । "गायति" ॥ ंओथ्_१,९.३२ ॥ सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् / प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः // ंओ_१,९.३३ // स्पष्टम् ॥ ंओथ्_१,९.३३ ॥ न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् / करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि // ंओ_१,९.३४ // स्पष्टम् ॥ ंओथ्_१,९.३४ ॥ अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने / इत्थम् एतत् कथम् इति विस्मयो ऽस्य न जायते // ंओ_१,९.३५ // विस्मयस्य स्वरूपं दर्शयति "इत्थम् एतत् कथम्" इति ॥ ंओथ्_१,९.३५ ॥ कान्तामध्यगतस्यापि मनो ऽस्य मदनेषवः / न भेदयन्ति दुर्भेदं धारा इव महोपलम् // ंओ_१,९.३६ // स्पष्टम् ॥ ंओथ्_१,९.३६ ॥ आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् / अनुशास्येति सर्वस्वम् अर्थिने सम्प्रयच्छति // ंओ_१,९.३७ // "अनुशास्य" अनुशासनं कृत्वा ॥ ंओथ्_१,९.३७ ॥ इयम् आपद् इयं संपद् इत्य् अयं कल्पनामयः / मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति // ंओ_१,९.३८ // स्पष्टम् ॥ ंओथ्_१,९.३८ ॥ हा हतो ऽहम् अनाथो ऽहम् इत्य् आक्रन्दपरो ऽपि सन् / न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ // ंओ_१,९.३९ // आक्रन्दपरस्य वैराग्यं युक्तम् एवेत्य् "अपि"शब्देन द्योत्यते ॥ ंओथ्_१,९.३९ ॥ रघुकाननसालेन रामेण रिपुघातिना / भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः // ंओ_१,९.४० // स्पष्टम् ॥ ंओथ्_१,९.४० ॥ न विद्मः किम् महाबाहो तस्य तादृशचेतसः / कुर्मः कमलपत्राक्ष गतिर् अत्र हि नो भवान् // ंओ_१,९.४१ // स्पष्टम् ॥ ंओथ्_१,९.४१ ॥ राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् / हसन् पशुम् इवाव्यग्रः सो ऽवधीरयति प्रभो // ंओ_१,९.४२ // स्पष्टम् ॥ ंओथ्_१,९.४२ ॥ प्रपञ्चो ऽयम् इह स्फारं जगन्नाम यद् उत्थितम् / नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः // ंओ_१,९.४३ // यः "अयम् प्रपञ्चः उत्थितम्" इदं "स्फारं जगन्नाम" भवति । "एतद्" "वस्तु" परमार्थसत् । "न" भवति । "एव"शब्दः अपिशब्दस्यार्थे । "अहम्" अपि "वस्तु न च" भवामि । "इति" एवं । "निर्णीया"सौ रामः "संस्थितः" ॥ ंओथ्_१,९.४३ ॥ नारौ नात्मनि नो मित्रे न राज्ये न च मातरि / न संपदापदोर् नान्तस् तस्यास्था न विभोर् बहिः // ंओ_१,९.४४ // "आस्था" रतिः ॥ ंओथ्_१,९.४४ ॥ निरस्तास्थो निराशो ऽसौ निरीहो ऽसौ निरास्पदः / मोहे न च विमुक्तो ऽसौ तेन तप्यामहे वयम् // ंओ_१,९.४५ // स्पष्टम् ॥ ंओथ्_१,९.४५ ॥ किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया / इति निश्चयवान् अन्तः प्राणत्यागमनाः स्थितः // ंओ_१,९.४६ // स्पष्टम् ॥ ंओथ्_१,९.४६ ॥ भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि / परम् उद्वेगम् आयातश् चातको ऽवग्रहे यथा // ंओ_१,९.४७ // स्पष्टम् ॥ ंओथ्_१,९.४७ ॥ तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् / संसारजालम् आभोगि प्रभो प्रतिविषायते // ंओ_१,९.४८ // प्रतिविषम् इवाचरते "प्रतिविषायते" ॥ ंओथ्_१,९.४८ ॥ तादृशः स्यान् महासत्त्वः क इवास्मिन् महीतले / प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः // ंओ_१,९.४९ // स्पष्टम् ॥ ंओथ्_१,९.४९ ॥ इति नो येयम् आयाता शाखाप्रसरशालिनी / आपत् ताम् अलम् उद्धर्तुं समुदेतु दया परा // ंओ_१,९.५० // "समुदेतु" तवेति शेषः ॥ ंओथ्_१,९.५० ॥ सर्गान्तश्लोकेन रामभृत्यवचनं समापयति मनसि मोहम् अपास्य महामनाः सकलम् आर्तिमतः किल साधुताम् / सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करताम् इव // ंओ_१,९.५१ // "महामनाः" पुरुषः । "आर्तिमतः" आर्तियुक्तस्य पुरुषस्य । "मनसि सकलम् मोहम्" आर्तिस्वरूपं समस्तम् मोहम् । "अपास्य" दूरीकृत्य । "साधुताम्" स्वस्मिन् स्थितं साधुभावं । "सफलतां नयति" । क "इव" । "दिनकर इव" । यथा "दिनकरः" "भुवि" "तमः" "हरन्" "भास्करताम्" "सफलतां" "नयति" । तथेत्य् अर्थः । इति शिवम् ॥ ंओथ्_१,९.५१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे नवमः सर्गः ॥ १,९ ॥ ************************************************************************ रामभृत्यवचनं श्रुत्वा विश्वामित्रः कथयति एवं चेत् तन् महाप्राज्ञम् भवन्तो रघुनन्दनम् / इहानयन्तु त्वरितं हरिणं हरिणा इव // ंओ_१,१०.१ // स्पष्टम् ॥ ंओथ्_१,१०.१ ॥ एष मोहो रघुपतेर् नापद्भ्यो न च रागतः / विवेकवैराग्यकृतो बोध एष महोदयः // ंओ_१,१०.२ // महान् उदयः मुक्तिलक्षणः यस्मात् "सः" "महोदयः" ॥ ंओथ्_१,१०.२ ॥ इहायातु क्षणाद् रामस् तद् इहैव वयं क्षणात् / मोहं तस्यापनेष्यामो मरुतो ऽद्रेर् घनं यथा // ंओ_१,१०.३ // "वयं" के इव । "मरुत" इव । "यथा" "मरुतः" वायवः । "अद्रेः" "घनं" मेघम् । अपनयन्ति । तथेत्य् अर्थः ॥ ंओथ्_१,१०.३ ॥ एतस्मिन् मार्जिते युक्त्या मोहे च रघुनन्दनः / विश्रान्तिम् एष्यति पदे तस्मिन् वयम् इवोत्तमे // ंओ_१,१०.४ // "तस्मिन् पदे" चिन्मात्राख्ये विश्रान्तिस्थाने ॥ ंओथ्_१,१०.४ ॥ सत्यताम् मुदिताम् प्रज्ञां विश्रान्तिं च समेत्य सः / पीनतां वरवर्णत्वम् पीतामृत इवैष्यति // ंओ_१,१०.५ // स्पष्टम् ॥ ंओथ्_१,१०.५ ॥ निजां च प्रकृताम् एव व्यवहारपरम्पराम् / परिपूर्णमना मान्य आचरिष्यत्य् अखण्डिताम् // ंओ_१,१०.६ // स्पष्टम् ॥ ंओथ्_१,१०.६ ॥ भविष्यति महासत्त्वो ज्ञातलोकपरावरः / सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः // ंओ_१,१०.७ // [भ्ह्घ् Vई ८द्; ॠईV २४ब्] "ज्ञाते" सम्यक् निश्चिते । "लोकानाम्" "परावरे" परावाची । पारद्वयम् इति यावत् । येन । सः ॥ ंओथ्_१,१०.७ ॥ विश्वामित्रवाक्यम् उपसंहरति इत्य् उक्ते मुनिनाथेन राजा सम्पूर्णमानसः / प्राहिणोद् रामम् आनेतुम् भूयो दूतपरम्पराम् // ंओ_१,१०.८ // स्पष्टम् ॥ ंओथ्_१,१०.८ ॥ एतावता च कालेन रामो निजगृहासनात् / पितुः सकाशम् आगन्तुम् उत्थितो ऽर्क इवाचलात् // ंओ_१,१०.९ // स्पष्टम् ॥ ंओथ्_१,१०.९ ॥ वृतः कतिपयैर् भृत्यैर् भ्रातृभ्यां चाजगाम ह / तत् पुण्यम् पितुर् आस्थानं स्वर्गं सुरपतेर् इव // ंओ_१,१०.१० // स्पष्टम् ॥ ंओथ्_१,१०.१० ॥ दूराद् एव ददर्शासौ रामो दशरथं तदा / वृतं राजसमूहेन देवौघेनेव वासवम् // ंओ_१,१०.११ // स्पष्टम् ॥ ंओथ्_१,१०.११ ॥ वसिष्ठविश्वामित्राभ्यां सेवितम् पार्श्वयोर् द्वयोः / सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् // ंओ_१,१०.१२ // स्पष्टम् ॥ ंओथ्_१,१०.१२ ॥ चारुचामरहस्ताभिः कान्ताभिः समुपासितम् । ककुब्भिर् इव मूर्ताभिः संस्थिताभिर् यथोचितम् ॥ ंओथ्_१,१०.१३ ॥ "ककुब्भिः" दिग्भिः ॥ ंओथ्_१,१०.१३ ॥ वसिष्ठविश्वामित्राद्यास् तथा दशरथादयः / ददृशू राघवं दूराद् उपायान्तं गुहोपमम् // ंओ_१,१०.१४ // "गुहोपमं" कुमारसदृशम् ॥ ंओथ्_१,१०.१४ ॥ सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् / श्रितं सकलसेव्येन गम्भीरेण स्वरेण च // ंओ_१,१०.१५ // "सत्त्वस्यावष्टम्भेन" हस्तावलम्बेन यः "गर्वः" । तेन । पूर्वस्य श्लोकस्य विशेषणत्वेन योज्यम् ॥ ंओथ्_१,१०.१५ ॥ सौम्यं समशुभाकारं विनयोदारम् ऊर्जितम् / कान्तोपशान्तवपुषम् परस्यार्थस्य भाजनम् // ंओ_१,१०.१६ // "परस्यार्थस्य" मोक्षस्य ॥ ंओथ्_१,१०.१६ ॥ समुद्यद्यौवनारम्भम् उद्योगशमशोभितम् / अनुद्विग्नम् अनायासम् पूर्णप्रायमनोरथम् // ंओ_१,१०.१७ // स्पष्टम् ॥ ंओथ्_१,१०.१७ ॥ विचारितजगद्यात्रम् पवित्रगुणगोचरम् / महासत्त्वैकलोभेन गुणैर् इव समाश्रितम् // ंओ_१,१०.१८ // "महासत्त्वस्य" महाधैर्यस्य । यः "एको" "लोभः" । तत्सङ्गलोभः इति यावत् । तेन ॥ ंओथ्_१,१०.१८ ॥ उदारसारम् आपूर्णम् अन्तःकरणकोटरम् / अविक्षुभितया वृत्त्या दर्शयन्तम् अनुत्तमम् // ंओ_१,१०.१९ // रामम् पुनः कथम्भूतम् । ईदृश्या "वृत्त्या" ईदृशम् "अन्तःकरणं" "दर्शयन्तम्" इति सम्बन्धः । "आपूर्णम्" भोगान् प्रति अलौल्येन समन्तात् पूर्णम् ॥ ंओथ्_१,१०.१९ ॥ श्रीरामविशेषणान्य् उपसंहरति एवम् गुणगणाकीर्णो दूराद् एव रघूद्वहः / परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः // ंओ_१,१०.२० // प्रणनाम चलच्चारुचूडामणिमरीचिना / शिरसा वसुधाकम्पलोलमानाचलश्रिया // ंओ_१,१०.२१ // "परिमेयाः" परिमिताः । "सिताः" "अच्छाच्छाः" "स्वहाराम्बरपल्लवाः" यस्य । सः तादृशः । "शिरसा" कथम्भूतेन । "वसुधायां" यः "कम्पः" । तेन "लोलमानस्या-चलस्य" "श्रीः" यस्य । तत् । तादृशेन । युग्मम् ॥ ंओथ्_१,१०.२०-२१ ॥ कान् प्रणनामेत्य् अपेक्षायाम् आह प्रथमम् पितरम् पश्चान् मुनीन् मान्यैकम् आनतः / ततो विप्रांस् ततो बन्धूंस् ततो ऽधिकगुणान् गुरून् // ंओ_१,१०.२२ // "पितरं" कथम्भूतं । मान्यानाम् मध्ये एकम् "मान्यैकम्" ॥ ंओथ्_१,१०.२२ ॥ जग्राह चात्मना दृष्ट्वा मनाक् स्वादुगिरा तथा / राजलोकेन विहितां स प्रणामपरस्पराम् // ंओ_१,१०.२३ // स्पष्टम् ॥ ंओथ्_१,१०.२३ ॥ विहिताशीर् मुनिभ्यां तु रामः सशममानसः / आससाद पितुः पुण्यं समीपं सुरसुन्दरः // ंओ_१,१०.२४ // "समीपं" निकटम् ॥ ंओथ्_१,१०.२४ ॥ पादाभिवन्दनरतं तम् अथासौ महीपतिः / शिरस्य् अभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः // ंओ_१,१०.२५ // शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा / आलिलिङ्ग घनस्नेहं राजहंसो ऽम्बुजं यथा // ंओ_१,१०.२६ // स्पष्टम् । युग्मम् ॥ ंओथ्_१,१०.२५-२६ ॥ उत्सङ्गे वत्स तिष्ठेति वदत्य् अथ महीपतौ / भूमौ परिजनास्तीर्णे सो ऽंशुके ऽथ न्यविक्षत // ंओ_१,१०.२७ // "न्यविक्षत" उपाविशत् । "अथ"शब्दद्वयं सम्बन्धिभेदेनानन्तर्यद्वयवाचकम् ॥ ंओथ्_१,१०.२७ ॥ दशरथः कथयति पुत्र प्राप्तविवेकस् त्वं कल्याणानां च भाजनम् / जनवज् जीर्णया बुद्ध्या खेदायात्मा न दीयते // ंओ_१,१०.२८ // त्वया "न दीयते" न देय इत्य् अर्थः । "खेदाय्"एति सम्प्रदाने चतुर्थी ॥ ंओथ्_१,१०.२८ ॥ वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता / पदम् आसाद्यते पुण्यं न मोहम् अनुधावता // ंओ_१,१०.२९ // स्पष्टम् ॥ ंओथ्_१,१०.२९ ॥ तावद् एवापदो दूरे तिष्ठन्ति परिपेलवाः / यावद् एव न मोहस्य प्रसरः पुत्र दीयते // ंओ_१,१०.३० // स्पष्टम् ॥ ंओथ्_१,१०.३० ॥ श्रीवसिष्ठः कथयति राजपुत्र महाबाहो शूरस् त्वं विजितास् त्वया / दुरुच्छेदा दुरारम्भा अप्य् अमी विषयारयः // ंओ_१,१०.३१ // स्पष्टम् ॥ ंओथ्_१,१०.३१ ॥ किम् अतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे / विनिमज्जसि कल्लोलगहने जाड्यशालिनि // ंओ_१,१०.३२ // स्पष्टम् ॥ ंओथ्_१,१०.३२ ॥ विश्वामित्र आह चलन्नीलोत्पलव्यूहसमलोचन लोलताम् / ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि // ंओ_१,१०.३३ // हे "चलन्नीलोत्पलव्यूहसमलोचन "त्वं । "चेतःकृतां" "लोलतां" "त्यक्त्वा" "ब्रूहि" । कर्मापेक्षायां वाक्यं कर्मत्वेन कथयति "हेतुने"ति । त्वं किमर्थं "मुह्यसी"त्य् अर्थः ॥ ंओथ्_१,१०.३३ ॥ किंनिष्ठाः कियता केन कियन्तः कारणेन ते / आधयो नु विलुम्पन्ति मनो गेहम् इवाखवः // ंओ_१,१०.३४ // "ते" "कियन्तः" "आधयः" । "किंनिष्ठाः" किंविषयाः सन्तः । "कियता" "केन" "कारणेन" "मनः" "नु" "विलुम्पन्ति" । के "इव" । "आखव" "इव" । यथा "आखवः गेहं विलुम्पन्ति" । तथेत्य् अर्थः । "नु"शब्दः प्रश्नद्योतकः ॥ ंओथ्_१,१०.३४ ॥ मन्ये नानुचितानां त्वम् आधीनाम् पदम् उत्तमः / आपत्सु चाप्तो यो धीरो निर्जितास् तेन चाधयः // ंओ_१,१०.३५ // "आप्तः" विचारकारी । न ह्य् उचितस्य्"आनुचितपदत्वं" युक्तम् इति भावः ॥ ंओथ्_१,१०.३५ ॥ यथाभिमतम् आशु त्वम् ब्रूहि प्राप्स्यसि चानघम् / सर्वम् एव पुनर् येन तव भेत्स्यन्ति नाधयः // ंओ_१,१०.३६ // "येन" सर्वप्रापणेन ॥ ंओथ्_१,१०.३६ ॥ विश्वामित्रवाक्यं सर्गान्तश्लोकेनोपसंहरति इत्य् उक्तम् अस्य स मुने रघुवंशकेतुर् आकर्ण्य वाक्यम् उचितार्थविलासगर्भम् / तत्याज खेदम् अभिगर्जति वारिवाहे बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः // ंओ_१,१०.३७ // "अभ्यनुमिता" गर्जनहेतुकेनानुमानेन ज्ञाता । "अभिमतार्थस्य सिद्धिः" यस्-य । स । इति शिवम् ॥ ंओथ्_१,१०.३७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे दशमः सर्गः ॥ १,१० ॥ ************************************************************************ इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः / उवाच वचनं चारु धीरपूर्णार्थमन्थरम् // ंओ_१,११.१ // "धीरं" च तत् "पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥ ंओथ्_१,११.१ ॥ इतः परं वैराग्यप्रकरणारम्भः । स्मृत्वा तत्त्वम् परमगहनं स्वस्वरूपाख्यम् आद्यं स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर् धूलिपुञ्जम् प्रयत्नात् * कृत्वा देवं शरणम् अनिशं विघ्नराजं च टीका वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ ** समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर् वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यम् प्रकटीकरोति भगवन् भवता पृष्टो यथावद् अधुना किल / कथयाम्य् अहम् अज्ञो ऽपि को लङ्घयति सद्वचः // ंओ_१,११.२ // "भवते"ति कुलगुरुं वसिष्ठम् प्रत्य् उक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥ ंओथ्_१,११.२ ॥ स्वयं कृताम् प्रतिज्ञां सम्पादयति अहं तावद् अयं जातो निजे ऽस्मिन् पितृसद्मनि / क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः // ंओ_१,११.३ // "तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥ ंओथ्_१,११.३ ॥ ततः सदाचारपरो भूत्वाहम् मुनिनायक / विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम् // ंओ_१,११.४ // स्पष्टम् ॥ ंओथ्_१,११.४ ॥ एतावताथ कालेन संसारास्थाम् इमाम् मम / स्वविवेको जहारान्तर् ओघस् तटलताम् इव // ंओ_१,११.५ // "स्वविवेकः" को ऽहम् इति विचारः ॥ ंओथ्_१,११.५ ॥ विवेकेन परीतात्मा तेनाहं तद् अनु स्वयम् / भोगनीरसया बुद्ध्या प्रविचारितवान् इदम् // ंओ_१,११.६ // स्पष्टम् ॥ ंओथ्_१,११.६ ॥ किं त्वया "प्रविचारितम्" इत्य् । अत्राह किं नामेदं वत सुखं यो ऽयं संसारसंसृतिः / जायते मृतये लोको म्रियते जननाय च // ंओ_१,११.७ // "वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्य् अर्थः । "इदं" किं । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" । "मृतये" यत् "जायते" । "जननाय" च यन् "म्रियते" ॥ ंओथ्_१,११.७ ॥ मृतिजननरूपस्य संसरणस्य दुःखत्वम् उक्त्वा तदाश्रयभूतानाम् भावानां दुःखयुक्तत्वं कथयति स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः / आपदाम् पतयः पापा भावा विभवभूमयः // ंओ_१,११.८ // "सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे" ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वाद् इत्य् अर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥ ंओथ्_१,११.८ ॥ ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनाद् इत्य् । अत्राह अयःशलाकासदृशाः परस्परम् असङ्गिनः / श्लिष्यन्ते केवलम् भावा मनःकल्पनया स्वया // ंओ_१,११.९ // अयम् मम पुत्रादिः अयम् मम पित्रादिर् इति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धो ऽस्ति । न तु परमार्थत इति भावः ॥ ंओथ्_१,११.९ ॥ ननु मनसः कथम् एतावती शक्तिर् अस्तीत्य् । अत्राह मनःसमायत्तम् इदं जगद् आभोगि दृश्यते / मनश् चासद् इहाभाति केन स्मः परिमोहिताः // ंओ_१,११.१० // "आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥ ंओथ्_१,११.१० ॥ असतैव वयं कष्टं विक्रीता मूढबुद्धयः / मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव // ंओ_१,११.११ // "असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥ ंओथ्_१,११.११ ॥ न केनचिच् च विक्रीता विक्रीता इव संस्थिताः / वत मूढा वयं सर्वे जनाना अपि शम्बरम् // ंओ_१,११.१२ // "शम्बरम्" मायाम् ॥ ंओथ्_१,११.१२ ॥ किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः / मुधैव हि वयम् मोहात् संस्थिता बद्धभावनाः // ंओ_१,११.१३ // "एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात् न किञ्चिद् अपि भवन्तीत्य् अर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" । "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥ ंओथ्_१,११.१३ ॥ अज्ञाते बहुकालेन व्यर्थ एव वयं घने / मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव // ंओ_१,११.१४ // "मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥ ंओथ्_१,११.१४ ॥ किम् मे राज्येन किम् भोगैः को ऽहं किम् इदम् आगतम् / यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम् // ंओ_१,११.१५ // [भ्ह्घ् ई ३२च्द्] "यत् मिथ्या" भवति "तत् मिथ्यैवास्तु" इति सम्बन्धः ॥ ंओथ्_१,११.१५ ॥ अवान्तरम् उपसंहारं करोति एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम / भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव // ंओ_१,११.१६ // स्पष्टम् ॥ ंओथ्_१,११.१६ ॥ स्वाभिमतम् आविष्करोति तद् एतद् भगवन् ब्रूहि किम् इदम् परिनश्यति / किम् इदं जायते भूयः किम् इदम् परिवर्धते // ंओ_१,११.१७ // "किम्" इति कथम् इत्य् अस्यार्थे ॥ ंओथ्_१,११.१७ ॥ जरामरणम् आपच् च जननं सम्पदस् तथा / आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः // ंओ_१,११.१८ // भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥ ंओथ्_१,११.१८ ॥ भावैस् तैर् एव तैर् एव तुच्छैर