ओं
स्वातन्त्र्याख्यगुणेरितेन सततं सङ्क्षोभ्यमाणान् निजाद्
इच्छामन्दरकेण सारभरिताद् रूपाद् अलोलात् सदा /
स्वान्तःस्थं स्वमयं स्वभिन्नसदृशं तत्त्वालिरत्नोच्चयम्
बोधाह्वः प्रतिभासयन् परसरिन्नाथो जयत्य् अद्भुतः // *//




शुद्धं स्फाटिकदर्पणेन सदृशं नित्यं स्वशक्त्युत्थितैर्
अच्छत्वात् स्वमयीकृतम् बहुविधैर् बाह्यान्तरैः स्वैर् मलैः /
शक्त्यैतान् अपि सर्वदात्मनि लयीकुर्वाणम् आद्यं शिवम्
बोधाह्वम् प्रणतो ऽस्मि देवम् अनघं षट्कोशदावानलम् // *//




बोधाबोधविभेदभासनपरम् बोधान्वितैर् बोधितम्
बोधाबोधविहीनमूर्तिम् अमलम् बोधैकसारं विभुम् /
बोधाबोधविभेदगोपनकरं स्वस्मिंस् तु तस्याप्य् अनु
बोधं तं शरणं श्रयामि सततं सद्बोधसम्प्राप्तये // *//




स्वच्छत्वाश्रयमातृभावभजनाद् वैडूर्यनामार्हताम्
आसाद्यान्व् अवतारनामकलनाम् एत्याच्छमेयास्पदाम् /
तत्त्वं स्वम् प्रकटं विधाय च ततः स्वम् भावम् एवागतो
यस् तस्मै सततं स्वभावगुरवे नैर्गुण्यधाम्ने नमः // *//




अच्छाच्छस्वविमर्शने ऽपि कुशलो वैडूर्यनाम्नाश्रितो
यातो ऽतो ऽन्व् अवतारभावम् अमलं तत्त्वोपदेशेच्छया /
शिष्याणाम् उपदिश्य तत्त्वम् अथ यः स्वं रूपम् एवागतस्
तस्मै श्रीनिधये प्रकाशगुरवे सद्बोधदात्रे नमः // *//


देहाद्रिस्थमनोद्रुमोत्थकलनाशाखालिसन्ध्यन्तराद्
द्रष्टुं जाड्यहरं विमर्शविभवाद् उन्मेषरूपं रविम् /
लग्ना ये सततं तदेकमयताम् पश्यन्त आत्मन्य् अथो
संसारे ऽपि च तत्प्रकाशवशतो भाते ऽस्तु तेभ्यो नमः // *//




अपूर्वं सामर्थ्यं किम् अपि हृदयागोचर इदम्
परिच्छेदातीतं जयति लघुमुख्यम् भगवतः /
विवृत्त्याख्ये कर्मण्य् अतिमहति वाक्पत्यविषये
यदाविष्टो ऽमुष्मिन्न् अपि भजति मूको ऽप्य् अधिकृतिम् // *//




स्वतःसिद्धाल् लब्धम् परमगहनं यत् स्वजनकाद्
रहस्यं सङ्क्षेपान् निरतिशयम् आभ्यन्तरम् अलम् /
तद् एतत् सर्वेषु प्रकटयितुम् एवात्र विहितो
मयासाव् उद्योगो न निजधिषणाख्यापनधिया // *//




स्वभावेनैवान्धाः कतिचिद् अपरे रोषतमसा
परेषां नापेक्षा भवति च निजालोकविभवात् /
अतो व्याख्यादीपे ऽप्रकट इव नात्रास्त्य् अधिकृतो
भवेद् वा को ऽपीति भ्रमत इह यत्नस् तु रचितः // *//



अवतारकण्ठपुत्रः पौत्रो वैडूर्यकण्ठपादानाम् /
भास्करकण्ठो रचयति विद्वत्कण्ठे विभूषणं व्याख्याम् // *१० //


शक्त्यादीनाम् अभावे मे प्रवृत्तस्य पदे पदे /
स्खलितानि भविष्यन्ति सन्तु सन्तो ऽवलम्बनम् // *११ //


नुत्वा गणेशं विबुधेशवन्द्यं वाग्देवतां च प्रतिभास्वरूपाम् /
गुरूंस् तथा कौलनरोत्तमादीन् करोमि टीकां श्रुतिपात्रपेयाम् // *१२ //


गुरूणां चरणौ स्मृत्वा कृत्वा स्वात्मार्चनं स्वतः /
मोक्षोपायाभिधे ग्रन्थे व्याख्यां कुर्वे समासतः // *१३ //


************************************************************************


इह खलु कश्चिन् महापुरुषः श्रीवाल्मीकिनिबद्धश्रीमहारामायणाख्यसागरादिकाण्डस्थश्रीरामज्ञानोत्पादकश्रीवसिष्ठोपदेशरत्नैः स्वयम् आसादितसम्यग्ज्ञानाख्यप्रकाशः अथान्यान् प्रति दयया प्रकटीकरणार्थम् प्रोक्तसागरात् तान्य् उद्धर्तुकामस् तदुद्धृतिनिर्विघ्नसमाप्तिगमनाय परदेवतास्वरूपम् परमात्मानं स्तौति
दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः /
यो ऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः // ंओ_,.//
"तस्मै" प्रसिद्धाय । "विश्वात्मने" सर्वसारत्वेन स्थितत्वात् सर्वेषाम् आत्मभूतायार्थात् परमात्मने "नमः" । अपरिमितायां तत्सत्तायाम् परिमितस्वसत्तान्यग्भावरूपः प्रह्वीभावः अस्तु । तत्सत्तायाम् एव स्वसत्तां लीनाम् भावयामीति यावत् । "तस्मै" कस्मै । "अवभासात्मा" बाह्यान्तरालोकगतनानाविधबाह्यान्तरपदार्थवृन्दविषयज्ञानसारभूतः । "यः "विश्वात्मा । "अवभाति" प्रत्यक्षम् एव स्फुरति । यतः प्रत्यक्षं स्फुरन्तः नानाभासाः विचारविषयीकृताः सन्तः अनिर्वाच्यतास्वरूपायाम् परमात्मतायाम् एव विश्राम्यन्ति । ततः नानावभासावभासेन परमात्मैवावभातीति भावः । "यः" कथम्भूतः । "विभुः" व्यापकः । कुत्र । "मे" परिमितप्रमातृतासादनेन चिन्मात्ररूपापरिमितप्रमातृभावाच् च्युतस्यात एव परिच्छिन्नवाचकास्मच्छब्दवाच्यतां गतस्य परिमितप्रमातुः । "बहिः "बाह्ये । अहन्ताविषयताम् अनीते प्रदेशे इति यावत् । पुनः कुत्र । "अन्तश् च" अहन्ताविषयतां नीते प्रदेशे च । "बहिः" किंरूपे । "दिवि" समस्तसुराधारभूतस्वर्गलोकरूपे । तथा "भूमौ" समस्तनरादिनानाविधभूताधारभूतभूलोकरूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारभूताकाशलोकस्वरूपे । एतेन चतुर्दशभुवनानां ग्रहणं ज्ञेयं । "अन्तश् च" किंरूपे । "दिवि" द्योतनमात्रस्वरूपस्वप्नावस्थारूपे । "भूमौ" स्थूलत्वसादृश्याज् जाग्रदवस्थारूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारत्वसादृश्यात् सुषुप्त्यवस्थास्वरूपे । अत्र च परमात्मनः व्यापकत्वं शक्तिप्राधान्येनोपादानतया स्थितत्वात् स्वप्राधान्येन साक्षितया स्थितत्वाच् चेति द्विविधं ज्ञेयम् । एवम् अभीष्टसमु-चितदेवतानमस्कारलक्षणम् मङ्गलं कृत्वा उद्धरिष्यमाणस्यास्य ग्रन्थस्याधिकार्याद्यनुबन्धचतुष्टयं वक्तुकामः स एवोद्धृतिकारः अभिधेयसम्बन्धप्रयोजनान्य् अर्थात् सूचयन् अधिकारिनिरूपणं साक्षात्करोति ॥ ंओथ्_,.१ ॥



अहम् बद्धो विमुक्तः स्याम् इति यस्यास्ति निश्चयः /
नात्यन्ततज्ज्ञो नातज्ज्ञः सो ऽस्मिञ् शास्त्रे ऽधिकारवान् // ंओ_,.//
श्रीभगवत्कृपाकटाक्षपात्रीभूतस्य "यस्य" पुरुषस्य । अहम्परिमितप्रमातृरूपः "अहम् बद्धः" स्वात्मभावेन निश्चितदेहोपयोगिभोगजालासक्तचित्तः । अस्मि कथम् इति शेषः । प्रोक्तजालानासक्तचित्तः कथं "स्याम्" भवे-यम् । "इति" एवम् ।" निश्चयः" मनसि सततम् अनुसन्धानं । स्यात् । "सः" पुरुषः । "अस्मिन्न्" उद्धरिष्यमाणे मोक्षोपायाख्ये ग्रन्थे । "अधिकारवान्" स्यात् । तस्यैवेदं शास्त्रं विचारणीयम् इत्य् अर्थः । "सः" कथम्भूतः । नात्यन्तं तज्ज्ञः "नात्यन्ततज्ज्ञः" । मुक्तिकामत्वेन सम्यग्ज्ञानरहित ४इत्य् अर्थः । सम्यग्ज्ञानी हि मुक्तिम् अपि न काङ्क्षति । काङ्क्षामात्रस्यैव बन्धत्वात् । पुनः कथम्भूतः । "नातज्ज्ञः" । भोगाकाङ्क्षायाः मुक्तत्वात् । अतज्ज्ञो हि भोगाकाङ्क्षां त्यक्तुं न शक्नोति । अत्यन्ततज्ज्ञे कृतकृत्यत्वात् "अस्मिञ् शास्त्रे" अनधिकारः । अतज्ज्ञे तु अयोग्यतयेति विभागः । अत्र परमात्मतत्त्वैक्यम् अभिधेयम् । पदे पदे तस्यैवाभिधानात् स्वविषयज्ञानद्वारेण मोक्षाख्यपरमप्रयोजनसाधकत्वाच् च । सर्वशास्त्रेष्व् अभिधेयस्यैव परमप्रयोजनसाधकत्वदर्शनात् । तद्विषयं सम्यग्ज्ञानम् अवान्तरप्रयोजनम् । अन्यथा तत्काङ्क्षिणः अमूर्खस्यावान्तराधिकारित्वं न स्यात् । परमप्रयोजणम् मुक्तिर् । अन्यथा तत्काङ्क्षिणः मुमुक्षोः परमाधिकारित्वं न स्यात् । शास्त्रावान्तरप्रयोजनयोः अभिधेयपरमप्रयोजनयोश् च साध्यसाधनभावः सम्बन्धः । अधिकारी तु स्वकण्ठेनैवोक्त इति सर्वं स्वस्थम् ॥ ंओथ्_,.२ ॥



एवम् अधिकार्यादि निरूप्य शास्त्रोद्धारम् आरभते
वाल्मीकिर् उवाच
इति । "वाल्मीकिः" वाल्मीकिनामा ऋषिः । "उवाच" उक्तवान् । श्रीरामम् प्रति इति शेषः । किम् उवाचेत्य् आशङ्कायाम् आह
कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ ।
यो विचारयति प्राज्ञो न स भूयो ऽभिजायते ॥ ंओथ्_,.३ ॥



कथारूपा उपायाः "कथोपायाः" । तान् । कथानाम् अपि सम्यग्ज्ञानम् प्रति प्रवर्तकत्वेनोपायत्वं ज्ञेयम् । "इमान्" वक्ष्यमाणान् । ननु श्रीवाल्मीकिः श्रीरामवृत्तान्तमयं श्रीमहारामायणं श्रीरामम् प्रत्य् एव कथम् उवाचान्यस्यैव ह्य् अन्यवृत्तान्तकथनम् उचितम् इति चेत् । सत्यम् । अद्यकल्पे भवः श्रीवाल्मीकिर् अद्यकल्पे भवं श्रीरामम् प्रति पुरातनकल्पश्रीवाल्मीकिकृतम् पुरातनश्रीरामवृत्तान्तमयं श्रीमहारामायणम् उवाचेति केचिद् अत्र समादधते । किम् अस्माकं व्याख्यामात्रप्रवृत्तानाम् एतद्युक्तत्वायुक्तत्वचिन्तनेन । अस्ति चात्र किम् अपि निगूढम् बीजम् "अपि पौरुषम् आदेयम्" इत्यादिवक्ष्यमाणश्लोकसूचितम् । तच् च प्रतिभावतां स्वयम् एव गम्यम् । अन्येषां तत्कथनम् अयुक्तम् । इत्य् अलं रहस्योद्घाटनेन ॥ ंओथ्_,.३ ॥



अस्मिन् रामायणे राम कथोपायान् महाफलान् /
एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन // ंओ_,.//
शिष्यायास्मै विनीताय भरद्वाजाय धीमते /
एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् इवार्थिने // ंओ_,.//
"रामे"त्य् आमन्त्रणम् । रामस्यैव प्रतिपाद्यत्वात् । "एतान्" त्वया "अस्मिन्" समय एव दृष्टान् । आदौ "कृत्वा" सम्पाद्य । "अस्मै" अग्रे स्थिताय । "एकाग्रः" एतस्य विनयेन एतस्मिंल् लग्नचित्तः । युगलकम् ॥ ंओथ्_,.-५ ॥



तत एते कथोपाया भरद्वाजेन धीमता /
कस्मिंश्चिन् मेरुगहने ब्रह्मणो ऽग्र उदाहृताः // ंओ_,.//
"उदाहृताः" कथिताः ॥ ंओथ्_,.६ ॥


अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः /
वरम् पुत्र गृहाणेति समुवाच महाशयः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.७ ॥



भरद्वाजः कथयति
भगवन् भूतभव्येश वरो ऽयम् मे ऽद्य रोचते /
येनेयं जनता दुःकान् मुच्यते तद् उदाहर // ंओ_,.//
"भूतभव्येशा"तीतानागतयोर् ईशातीतानागतज्ञेति यावत् । "उदाहर" कथय ॥ ंओथ्_,.८ ॥ भरद्वाजवाक्यं श्रुत्वा श्रीब्रह्मा कथयति
गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः /
तेनेदं यत् समारब्धं रामायणम् अनिन्दितम् // ंओ_,.//
तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति /
सेतुनेवाम्बुधेः पारम् अपारगुणशालिना // ंओ_,.१० //
युगलकम् । "पारम्" इति पूर्वार्धेनापि योज्यम् । "अम्बुधेर्" इति पञ्चमी ब्रह्मवाक्यम् उपसंहरति ॥ ंओथ्_,.-१० ॥



इत्य् उक्त्वा स भरद्वाजम् परमेष्ठी ममाश्रमम् /
अभ्यागमत् समं तेन भरद्वाजेन भूतकृत् // ंओ_,.११ //
परमे चिन्मात्राख्ये उत्तमे पदे तिष्ठति शुद्धमनोरूपत्वाद् इति "परमेष्ठी" ॥ ंओथ्_,.११ ॥



तूर्णं सम्पूजितो देवः सो ऽर्घ्यपाद्यादिना मया /
अवोचन् माम् महासत्त्वः सर्वभूतहिते रतः // ंओ_,.१२ //
[भ्ह्घ् V २५द्]
स्पष्टम् ॥ ंओथ्_,.१२ ॥
ब्रह्मा कथयति
रामस्वभावकथनाद् अस्माद् वरमुने त्वया /
नोद्योगः सम्परित्याज्य आ समाप्तेर् अनिन्दितात् // ंओ_,.१३ //
"आ समाप्तेः "समाप्तिपर्यन्तम् ॥ ंओथ्_,.१३ ॥


ननु किमर्थम् उद्योगं न त्यजामीत्य् । अत्राह
ज्ञातेनानेन लोको ऽयम् अस्मात् संसारसङ्कटात् /
समुत्तरिष्यति क्षिप्रम् पोतेनेवाथ सागरात् // ंओ_,.१४ //
"अथ"शब्दः पादपूरणार्थः ॥ ंओथ्_,.१४ ॥


वक्तुं तवैतम् एवार्थम् अहम् आगतवान् अयम् /
कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः // ंओ_,.१५ //
स्पष्टम् । ब्रह्मणो वाक्यम् उपसंहरति "इत्य् उक्तवान्" इति ॥ ंओथ्_,.१५ ॥



राम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः /
मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः // ंओ_,.१६ //



"पुण्याश्रमात्" पवित्रात् मदाश्रमात् । "तस्मात्" तस्मिन् समये गृहीतात् । मुनयो
हि नवीनानि नवीनान्य् आश्रमाणि गृह्णन्ति । ब्रह्मा क "इव" "तरङ्ग इव" । यथा "वारिणः" "उद्यतः" पूर्वम् उत्थितः "तरङ्गः" "मुहूर्ताद् अन्तर्धिम्" आगच्छति तथेत्य् अर्थः ॥ ंओथ्_,.१६ ॥



तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः /
पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया // ंओ_,.१७ //
"भरद्वाजं" कथम्भूतम् । उपलक्षितं कया । "स्वच्छया धिया" । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ ंओथ्_,.१७ ॥

किम् अपृच्छ इत्य् । अत्राह
किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे /
इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मे ऽनघ // ंओ_,.१८ //
"अनघ" हे दोषरहित राम ॥ ंओथ्_,.१८ ॥

भरद्वाजः कथयति
एतद् उक्तम् भगवता यथा रामायणं कुरु /
सर्वलोकहितायाशु संसारार्णवपोतकम् // ंओ_,.१९ //
"एतत्"पदाकाङ्क्षाम् पूरयति "यथे"ति ॥ ंओथ्_,.१९ ॥
ननु ततस् तव किम् इत्य् । अत्राह
मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे /
रामो व्यवहृतो ऽप्य् अस्मिन् भरतश् च महामनाः // ंओ_,.२० //
"व्यवहृतः" व्यवहारं कृतवान् । "अपि"शब्दः असम्भावनाद्योतकः "संसारसङ्कटे" इत्य् अनेन सम्बध्यते ॥ ंओथ्_,.२० ॥



शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी /
रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः // ंओ_,.२१ //
स्पष्टम् ॥ ंओथ्_,.२१ ॥


निर्दुःखतां यथैते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् /
तथैवाहं तरिष्यामि ततो जनतया सह // ंओ_,.२२ //
"एते" रामादयः ॥ ंओथ्_,.२२ ॥
श्रीवाल्मीकिः श्रीरामम् प्रति कथयति
भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् /
तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुम् प्रवृत्तवान् // ंओ_,.२३ //
"अस्मि" अहम् । "इति" पूर्वोक्तप्रकारेण । "उक्तः" कथितः । "विभोः" ब्रह्मणः ॥ ंओथ्_,.२३ ॥



प्रवृत्तिम् एव स्फुटयति
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते /
श्रुतेन येन सम्मोहम् अलं दूरे करिष्यसि // ंओ_,.२४ //
"अलम्" अतिशयेन । "शृण्व्" इति प्रतिज्ञां सम्पादयितुम् प्रस्तावं करोति ॥ ंओथ्_,.२४ ॥


तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी /
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः // ंओ_,.२५ //
"सर्वासंसक्तया" समस्तफलासङ्गरहितया ॥ ंओथ्_,.२५ ॥
न केवलं राम एव किं त्व् अन्ये ऽपीत्य् अभिप्रायेण कथयति
लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस् तथा ॥ ंओथ्_,.२६ ॥


स्पष्टम् ॥ ंओथ्_,.२६ ॥


कृतास्थश् चाविरोधश् च बोधपारम् उपागतः /
वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे // ंओ_,.२७ //
"कृतास्थ" इति नाम "अविरोध" इति च । "अष्टौ मन्त्रिणः" अष्टाव् अमात्यास् । "तथेतरे" अन्ये ऽप्य् अष्टौ मन्त्रिणः । तेन षोडश मन्त्रिण इति परमार्थः ॥ ंओथ्_,.२७ ॥
"इतर" इत्य् अस्यार्थं स्फुटं कथयति
घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च /
विभीषणः सुषेणश् च हनुमान् इन्द्रजित् तथा // ंओ_,.२८ //
स्पष्टम् ॥ ंओथ्_,.२८ ॥


एते ऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः /
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः // ंओ_,.२९ //
"यथाप्राप्तानुवर्तिनः" । न तु स्वप्रयत्ननिष्ठा इति यावत् ॥ ंओथ्_,.२९ ॥


एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् /
तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात् // ंओ_,.३० //
"एभिः" रामादिभिः ॥ ंओथ्_,.३० ॥


भरद्वाजस्य प्रश्नावसरदानार्थं सर्गान्तश्लोकेन तावत् स्ववाक्यम् उपसंहरति
अपारसंसारसमुद्रपाती
लब्ध्वा परां युक्तिम् उदारसत्त्वः /
न शोकम् आयाति न दैन्यम् एति
गतज्वरस् तिष्ठति नित्यतृप्तः // ंओ_,.३१ //
"अपारः" यः "संसारसमुद्रः" । तत्र "पाती" पतनशीलः । "उदारसत्त्वः" उत्कृष्टधैर्ययुक्तः "पुरुषः" "पराम्" उत्कृष्टां । "युक्तिं" दृश्यात्यन्ताभावज्ञानलक्षणां वक्ष्यमाणां युक्तिं । प्राप्य । "शोकम्" अपेक्षालक्षणं शोकं । "नायाति" । तथा "दैन्यम्" दीनत्वम् । अतृप्तिम् इति यावत् । "नैति" । प्रत्युत "गतज्वरः" अपेक्षास्वरूपज्वररहितः । अत एव "नित्यतृप्तः" "तिष्ठती"ति शिवम् ॥ ंओथ्_,.३१ ॥



इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे प्रथमः सर्गः ॥ १,१ ॥


************************************************************************


भरद्वाजः पृच्छति
जीवन्मुक्तस्थितिम् ब्रह्मन् कृत्वा राघवम् आदितः /
क्रमात् कथय मे नित्यम् भविष्यामि सुखी यथा // ंओ_,.//
"ब्रह्मन्" श्रीवाल्मीके । त्वं । "जीवन्मुक्तस्थितिं" जीवन्मुक्तमर्यादां । "राघवं" श्रीरामम् । "आदितः" "कृत्वा" "मे कथय" श्रीरामवृत्तान्तद्वारेण कथयेति भावः । ननु किमर्थं कथयामीत्य् । अत्राह । "भविष्यामी"ति । अहं "यथा" येन जीवन्मुक्तस्थितिकथनेन । "नित्यसुखी" जीवन्मुक्त्याख्यमहासुखयुक्तो । "भविष्यामि" ॥ ंओथ्_,.१ ॥
श्रीवाल्मीकिः श्रीरामवृत्तान्तश्रवणाधिकारित्वसम्पादनार्थं तावत् सामान्येनोपदेशं करोति
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् /
अपुनःस्मरणम् मन्ये साधो विस्मरणं वरम् // ंओ_,.//
हे "साधो" । अहम् "अस्य" पुरः स्फुरतः । "जागतस्य" जगत्सम्बन्धिनः । तद्विषयस्येति यावत् । तथा "आकाशवर्णवत्" आकाशनीलिमवत् । "जातस्य" प्रादुर्भूतस्य । मिथ्याभातस्येति यावत् । "भ्रमस्य" जगत्त्वज्ञानरूपस्य मिथ्याज्ञानस्य । "अपुनःस्मरणम्" पुनःस्मृतिविषयभावानयनम् । उपेक्षाम् इति यावत् । "वरम्" उत्कृष्टं । "विस्मरणम्" विस्मृतिं । "मन्ये" । उपेक्षा एवात्र युक्ता । न विस्मृतिः । तस्याः जाड्यव्याप्तत्वाद् इति भावः ॥ ंओथ्_,.२ ॥



ननु तद् "अपुनःस्मरणं "केनोपायेन भविष्यतीत्य् । अत्राह
दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते /
कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः // ंओ_,.//
"नाम" निश्चये । "केनचित्" पुरुषेण । "तद्" अपुनःस्मरणं । दृश्यस्य ...



...

अज्ञानसुघनाकारा घनाहङ्कारशालिनी /
पुनर् जन्मकरी प्रोक्ता मलिना वासना बुधैः // ंओ_,.१२ //
पण्डितैः "वासना" "मलिना" "उक्ता" । कथम्भूता । "अज्ञानसुघनाकारा" "अज्ञानेन" चिन्मात्राज्ञानेन । "सुघनः आकारः" यस्याः । सा । चिन्मात्राज्ञानेनैव हि वासना घनीभवन्ति । अन्यथा शुद्धचिन्मात्रैक्येन वासना किंविषया स्यात् । पुनः कथम्भूता । "घनः" अच्छिन्नः । यः "अहङ्कारः" देहादिविषयः अहम्भावः । तेन "शालिनी" । वासनावशेनैव हि देहादिनिष्ठः अहङ्कारो घनीभवति । पुनः कथम्भूता । "पुनः जन्मकरी" पुनर् अपि भवकरी । पदार्थभावेन व्यक्तीभावात् ॥ ंओथ्_,.१२ ॥
शुद्धायाः स्वरूपं कथयति
पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् /
देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते // ंओ_,.१३ //
पण्डितैः "सा" वासना । "शुद्धेति" कथ्यते । "सा" का । या "देहान्तं" देहस्थितिपर्यन्तम् एव । न तु तदनन्तरम् अपि । "ध्रियते" अवतिष्ठते । या कथम्भूता ।" पुनर्जन्मा"ख्येन्"आङ्कुरेण" "त्यक्ता" । यतः "सम्भृष्टबीजवत्" भर्जितबीजवत् । "स्थिता" । यथा सम्भृष्टम् बीजम् आकारमात्रेण तिष्ठति । अङ्कुरसमर्थं न भवति । तथा शुद्धा वासनाप्य् आकारमात्रेणैव तिष्ठति । जन्माङ्कुरोत्पादनसमर्था न भवतीत्य् अर्थः । पुनः कथम्भूता । "ज्ञातं ज्ञेयम्" अवश्यज्ञेयत्वेन स्थितम् परमात्मतत्त्वम् । यया हेतुभूतया । तादृशी । शास्त्रविचारादिरूपया शुद्धया वासनयैव हि परमात्मतत्त्वं ज्ञायते ॥ ंओथ्_,.१३ ॥
शुद्धाया आश्रयविशेषं कथयति
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु /
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः // ंओ_,.१४ //
"जीवन्मुक्तेषु देहिषु" जीवेषु । "अपुनर्जन्मकरणी" पुनर्जन्माकारिका । "शुद्धा" "वासना देहे विद्यते" । न तु चित्ते । का "इव ""भ्रमः" "इव" । यथा "भ्रमः" चाक्राकारेण भ्रमणं । "चक्रे" विद्यते । तथेत्य् अर्थः । जीवन्मुक्तानां वासना फलाद्यनुसन्धानानुत्पादिका एवास्तीति भावः ॥ ंओथ्_,.१४ ॥



जीवन्मुक्तलक्षणं कथयति
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् /
ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः // ंओ_,.१५ //
"शुद्धा वासना" येषां । ते । तादृशाः ॥ ंओथ्_,.१५ ॥
सामान्येनोपदेशं कृत्वा श्रीरामवृत्तान्तम् आरभते
जीवन्मुक्तपदम् प्राप्तो यथा रामो महामतिः /
तत् ते ऽहम् सम्प्रवक्ष्यामि जरामरणशान्तये // ंओ_,.१६ //
ननु किमर्थं श्रीरामजीवन्मुक्तिप्राप्तिं कथयसीत्य् । अत्राह "जरे"ति । श्रीरामजीवन्मुक्तिपदप्राप्तिश्रवणेन हि तवापि तद्व्यवहारानुसारेण जरादिशान्तिर् भवतीति भावः ॥ ंओथ्_,.१६ ॥
ननु बहूपदेशकाङ्क्षिणो मम किं रामक्रममात्रकथनेनेत्य् । अत्राह
भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् /
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा // ंओ_,.१७ //
"सर्वथे"त्य् अनेन ततः काप्य् आकाङ्क्षा तव न स्याद् इति भावः ॥ ंओथ्_,.१७ ॥
तद् एव कथयति
विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः /
दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः // ंओ_,.१८ //
"दिवसानि" । न तु मासान् । अविद्यमानं कुतो ऽपि भयं यस्य सः "अकुतोभयः "। निर्भय इत्य् अर्थः ॥ ंओथ्_,.१८ ॥



अथ गच्छति काले ऽत्र पालयत्य् अवनिं नृपे /
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् // ंओ_,.१९ //
तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितम् मनः /
रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः // ंओ_,.२० //
स्पष्टम् । युग्मम् ॥ ंओथ्_,.१९-२० ॥


राघवश् चिन्तयित्वैवम् उपेत्य चरणौ पितुः /
हंसः पद्माव् इव नवौ जग्राह नवकेसरौ // ंओ_,.२१ //
पादवन्दनं चकारेत्य् अर्थः ॥ ंओथ्_,.२१ ॥
श्रीरामः पितरम् प्रति कथयति
तीर्थानि देवसद्मानि वनान्य् आयतनानि च /
द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशम् मनः // ंओ_,.२२ //
"हि" निश्चये ॥ ंओथ्_,.२२ ॥



तद् एताम् अर्थनाम् पूर्वां सफलीकर्तुम् अर्हसि /
न सो ऽस्ति भुवने तात त्वया यो ऽर्थी विमानितः // ंओ_,.२३ //
मयाद्य तावत् तव कापि प्रार्थना न कृतेति "पूर्वाम्" इत्य् अस्याभिप्रायः ॥ ंओथ्_,.२३ ॥ श्रीरामप्रार्थनाम् उपसंहरति
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा /
विचार्यामुञ्चद् एवैनं रामम् प्रथमम् अर्थिनम् // ंओ_,.२४ //
"विचार्यै"व । न तु "विचारम्" अकृत्वा । "प्रथमम् अर्थिनं" तत्पूर्वम् अर्थिभूतम् ॥ ंओथ्_,.२४ ॥



शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः /
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः // ंओ_,.२५ //
वसिष्ठप्रहितैर् विप्रैः शास्त्रतज्ज्ञैः समन्वितः /
स्निग्धैः कतिपयैर् एव राजपुत्रवरैः सह // ंओ_,.२६ //
अम्बाभिर् विहिताशीर्भिर् आलिङ्ग्यालिङ्ग्य भूषितः /
निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः // ंओ_,.२७ //
"आलिङ्ग्यालिङ्ग्ये"त्य् अनेन स्नेहातिशयो द्योत्यते । "निरगात्" निर्ययौ ॥ ंओथ्_,.२५-२७ ॥



निर्गतः स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः /
पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः // ंओ_,.२८ //
ग्रामीणललनालोकहस्तपद्मापवर्जितैः /
लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः // ंओ_,.२९ //
आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः /
आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले // ंओ_,.३० //
"परिचक्राम" पादचारेण गतवान् । तीर्थयात्रायां हि पादचारेण गमनम् पुण्यावहम् ॥ ंओथ्_,.२८-३० ॥



अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् /
स्नानदानतपोध्यानपूर्वकं स ददर्श ह // ंओ_,.३१ //
""शब्दः निपातः ॥ ंओथ्_,.३१ ॥
किं "ददर्शे"ति कर्मापेक्षायाम् आह
नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च /
जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम् // ंओ_,.३२ //
"वनान्तेषु" स्थितानि "जङ्गलानि" सजलाः देशाः ॥ ंओथ्_,.३२ ॥


मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् /
सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम् // ंओ_,.३३ //
स्पष्टम् ॥ ंओथ्_,.३३ ॥


वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा /
चर्मण्वतीं वितस्तां च विपाशाम् बाहुदाम् अपि // ंओ_,.३४ //
स्पष्टम् ॥ ंओथ्_,.३४ ॥



प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा /
वाराणसीं श्रीगिरिं च केदारम् पुष्करं तथा // ंओ_,.३५ //



स्पष्टम् ॥ ंओथ्_,.३५ ॥


मानसं च क्रमसरस् तथैवोत्तरमानसम् /
वडवाम् मडवां चैव तीर्थवृन्दं ससोदरम् // ंओ_,.३६ //
"तीर्थवृन्दं" कथम्भूतं । "ससोदरं" सोदराख्यतीर्थसहितम् ॥ ंओथ्_,.३६ ॥


अग्नितीर्थम् महातीर्थम् इन्द्रद्युम्नसरस् तथा /
सरांसि सरसीश् चैव तथा वापीह्रदावलीम् // ंओ_,.३७ //
स्पष्टम् ॥ ंओथ्_,.३७ ॥


स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा /
स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः // ंओ_,.३८ //
स्पष्टम् ॥ ंओथ्_,.३८ ॥



नानाश्चर्यविचित्राणि चतुरब्धितटानि च /
विन्द्यकन्दरकुञ्जांश् च कुलशैलस्थलानि च // ंओ_,.३९ //
स्पष्टम् ॥ ंओथ्_,.३९ ॥



राजर्षीणां च महताम् ब्रह्मर्षीणां तथैव च /
देवानाम् ब्राह्मणानां च पावनान् आश्रमाञ् शुभान् // ंओ_,.४० //
स्पष्टम् ॥ ंओथ्_,.४० ॥


भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः /
चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान् // ंओ_,.४१ //
स्पष्टम् ॥ ंओथ्_,.४१ ॥
सर्गान्तश्लोकेन तीर्थयात्राभ्रमणम् उपसंहरति
अमरकिन्नरमानवमानितः
समवलोक्य महीम् अखिलाम् इमाम् /
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक् शिवलोकम् इवेश्वरः // ंओ_,.४२ //
"ईश्वरः" कथम्भूतः । "विहृतदिक्" विहृताः विहारविषयीकृताः दिशः येन । तादृशः । इति शिवम् ॥ ंओथ्_,.४२ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वितीयः सर्गः ॥ १,२ ॥



************************************************************************


श्रीरामस्य गृहप्रवेशं कथयति
लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः /
स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा // ंओ_,.//
"विकीर्णः" भरितः ।" जयन्तः" इन्द्रपुत्रः ॥ ंओथ्_,.१ ॥
प्रणनामाथ पितरं वसिष्ठम् मातृबान्धवान् /
ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.२ ॥



सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च /
मुहुर् आलिङ्गनाचारै राघवो न ममौ तदा // ंओ_,.//
"राघवस्" "तदा" "सुहृद्"आदि"भिः" सहकृतैः "आलिङ्गनाचारैः" आलिङ्गनरूपैः लोकाचारैः ।" " "ममौ" महानन्दयुक्तो जात इति भावः ॥ ंओथ्_,.३ ॥



तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः /
जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव // ंओ_,.//
"तस्मिन्" "दाशरथौ" "मिथः" "प्रियप्रकथनैः" श्रीरामविषयैः अन्योऽन्यम् प्रियकथनैः । श्रीरामो गृहम् प्राप्त इत्य् एवंरूपैः परस्परम् प्रियकथनैर् इति यावत् ।" आशाः" दिशः । "जुघूर्णुः" घूर्णिम् प्रापुः । मङ्गलवाचिभूकम्पोत्थानाद् इयम् उक्तिः ।" प्रियप्रकथनैः" कथम्भूतैः । "दृढैस्" तथा "मधुरैः" कर्णसुखैः । "प्रियप्रकथनैः" कैर् "इव" "मृदुवंशस्वनैर्" "इव" । यथा तैः पुरुषाः घूर्णन्ति । तथेत्य् अर्थः ॥ ंओथ्_,.४ ॥
बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः /
महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः // ंओ_,.//
"अत्र" दशरथपुरे ।" रामागमनम्" " उत्सवः" "आस" अभूत् । कियन्तं कालं । "बहूनि" "दिनानि" । बहुदिनपर्यन्तम् इत्य् अर्थः ।" उत्सवः" किं कुर्वन् । "जनान् महानन्दे" "मुञ्चन्" "आसे"ति प्रयोग आर्षः ॥ ंओथ्_,.५ ॥



उवास स सुखं गेहे ततः प्रभृति राघवः /
वर्णयन् विविधाचारान् देशाचारान् इतस् ततः // ंओ_,.//
"इतस् ततः" यत्र तत्र ॥ ंओथ्_,.६ ॥


प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि /
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.७ ॥


कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह /
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः // ंओ_,.//
जगाम पित्रनुज्ञातो महत्या सेनयावृतः /
वराहमहिषाकीर्णं वनम् आखेटकेच्छया // ंओ_,.//
"आखेटेच्छया" मृगयाकाङ्क्षया ॥ ंओथ्_,.-९ ॥


तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् /
समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम् // ंओ_,.१० //
स्पष्टम् ॥ ंओथ्_,.१० ॥
एवंरूपम् आचारम् असौ नैकस्मिन्न् एव दिने कृतवान् अपि तु सर्वदैवेत्य् अभिप्रायेण कथयति
एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः /
आगत्य तीर्थयात्रायाः समुवास पितुर् गृहे // ंओ_,.११ //
स्पष्टम् ॥ ंओथ्_,.११ ॥


सर्गान्तश्लोकेनैतद् उपसंहरति
नृपतिसंव्यवहारमनोज्ञया
सुजनचेतसि चन्द्रिकया तथा /
परिनिनाय दिनानि स चेष्टया
श्रुतसुधारसपेशलयानघः // ंओ_,.१२ //



"सः अनघः" दोषरहितः श्रीरामः । एवंविधया "चेष्टया दिनानि परिनिनाय" लङ्घितवान् । किंविधया । "नृपतिव्यवहारेण" प्रजाविचारादिना राजव्यवहारेण । "मनोज्ञया" हृद्यया । तथा "सुजनचेतसि" सत्पुरुषमनसि । "चन्द्रिकया" सुजनहृदयाह्लादिकयेति यावत् । तथा "श्रुते" श्रवणे । "सुधारस"वत् "पेशलया" । दृष्टत्वे तु किं वाच्यम् इति भावः । इति शिवम् ॥ ंओथ्_,.१२ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे तृतीयः सर्गः ॥ १,३ ॥



************************************************************************


अथोनषोडशे वर्षे वर्तमाने रघूद्वहे /
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणे ऽपि च // ंओ_,.//
भरते संस्थिते नित्यम् मातामहगृहे सुखम् /
पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम् // ंओ_,.//
जन्यत्रार्थं च पुत्राणाम् प्रत्यहं सह मन्त्रिभिः /
कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे // ंओ_,.//
कृतायां तीर्थयात्रायां रामो निजगृहस्थितः /
जगामानुदिनं कार्श्यं शरदीवामलं सरः // ंओ_,.//
"तथा" ऊनषोडशवर्षे सतीत्य् अर्थः । "जन्यत्रार्थं" विवाहार्थम् । "कार्श्यं" क्षीणताम् ॥ ंओथ्_,.-४ ॥



कार्श्यम् एव कथयति
क्रमाद् अस्य विशालाक्षम् पाण्डुताम् मुखम् आदधे /
पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम् // ंओ_,.//
कृशतायां हि मुखस्य पाण्डिमा जायते ॥ ंओथ्_,.५ ॥


कपोलतलसंलीनपाणिः पद्मासनस्थितः /
चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः // ंओ_,.//
"सः" श्रीरामः ॥ ंओथ्_,.६ ॥


कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः /
नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.७ ॥


खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः /
चकाराह्निकम् आचारम् परिम्लानमुखाम्बुजः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.८ ॥


एवम् मुनिविशिष्टं तं रामं गुणगणाकरम् /
आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम् // ंओ_,.//
"मुनिविशिष्टम्" उत्कृष्टम् मुनिं । वैराग्यवत्त्वात् । "अस्य ताम्" "एव" "दशां" रामसम्बन्धिनीं कार्श्यादिरूपाम् एवावस्थाम् ॥ ंओथ्_,.९ ॥


तथा तेषु तनूजेषु खेदवत्सु कृशेषु च /
सपत्नीको महीपालश् चिन्ताविवशतां ययौ // ंओ_,.१० //
स्पष्टम् ॥ ंओथ्_,.१० ॥


का ते पुत्र घना चिन्तेत्य् एवं रामम् पुनः पुनः /
अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः // ंओ_,.११ //
"सः" रामः । "अस्य" पितुः ॥ ंओथ्_,.११ ॥


न किञ्चित् तात मे दुःकम् इत्य् उक्त्वा पितुर् अङ्कगः /
रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति // ंओ_,.१२ //
स्पष्टम् ॥ ंओथ्_,.१२ ॥


ततो दशरथो राजा रामः किं खेदवान् इति /
अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम् // ंओ_,.१३ //
"सर्वकार्यज्ञं" सर्वेषु कार्येषु निपुणम् । अन्यथा पृच्छनम् अयुक्तम् एव स्याद् इति भावः ॥ ंओथ्_,.१३ ॥


अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते /
इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः // ंओ_,.१४ //
"श्रीमत्" ज्ञानाख्यफलकारित्वात् । "कारणं" वैराग्याख्यं किञ्चिद् । अस्मिन् समये वक्तुम् अयुक्तम् इति भावः ॥ ंओथ्_,.१४ ॥


उपसंहृतम् अपि वसिष्ठवाक्यं सर्गान्तश्लोकेन पुनः कथयति
कोपं विषादकलनां विततं च हर्षं
नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहतिजवेन विना जगत्याम्
भूतानि भूप न महान्ति विकारयन्ति ॥ ंओथ्_,.१५ ॥



"सन्तः" साधवः । "अल्पेन" स्तोकेन । "कारणवशेन" विततं "कोपं" विततां "विषादकलनां" "विततं" "हर्षं" "" "" "वहन्ति" न धारयन्ति । "अल्पेने"ति विशेषणस्य "कारणे"त्य् अनेनार्थिकः सम्बन्धः । अत्र व्यतिरेकेण दृष्टान्तम् आह "सर्गेणे"ति । हे "भूप" "महान्ति भूतानि" महाभूतानि । "जगत्यां" जगति । "सर्गेण विना" महासृष्टिं "विना" । तथा "संहतिजवेन विना" संहाराख्यवेगेन विना । "न विकारयन्ति" कार्योत्पत्त्याख्यविकारयुक्तानि तथा नाशाख्यविकारयुक्तानि च न भवन्ति । तत् करोति तद् आचष्टे इति णिच् । "विकारवन्ती"ति वा पाठः । स्थित्यवस्थायाम् अवान्तरसर्गसंहतिरूपेणाल्पेन कारणेन न भवन्तीति भावः । इति शिवम् ॥ ंओथ्_,.१५ ॥



इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्थः सर्गः ॥ १,४ ॥



************************************************************************

श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति
इत्य् उक्ते मुनिनाथेन सन्देहवति पार्थिवे /
खेदवत्य् आस्थिते मौनं कञ्चित् कालम् प्रतीक्षिणि // ंओ_,.//
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु /
स्थितासु सावधानासु रामचेष्टासु सर्वतः // ंओ_,.//
एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः /
महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम् // ंओ_,.//
"आगमत्" आगच्छति स्म ॥ ंओथ्_,.-३ ॥



ननु किमर्थम् असौ आगत इत्य् । अत्राह
तस्य यज्ञो ऽथ रक्षोभिस् तदा विलुलुपे किल /
मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः // ंओ_,.//
रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् /
न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम् // ंओ_,.//
ननु किमर्थं तं "रक्षार्थं" "द्रष्टुम् ऐच्छद्" इत्य् । अत्राह "न ही"ति ॥ ंओथ्_,.-५ ॥



ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः /
विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम् // ंओ_,.//
[ऋआम् ई १७, २३]
"अभ्ययात्" अभिगच्छति स्म ॥ ंओथ्_,.६ ॥



स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह /
शीघ्रम् आख्यात माम् प्राप्तं कौशिकं गाधिनः सुतम् // ंओ_,.//
[ऋआम् ई १७, २४]
""शब्दः निपातः । किम् "उवाचे"ति कर्मापेक्षायाम् उत्तरार्धं कर्मत्वेन कथयति "शीघ्रम्" इति । "आख्यात" कथयत । यूयम् इति शेषः । "गाधिनः" गाधिराजस्य ॥ ंओथ्_,.७ ॥


तस्य तद् वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः /
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः // ंओ_,.//
[ऋआम् ई १७, २५]
"तेन" "वाक्येन" विश्वामित्रोक्तेन वाक्येन ॥ ंओथ्_,.८ ॥


ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः /
प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा // ंओ_,.//
[ऋआम् ई १७, २६]
"प्रतीहारपतिं" द्वास्थाधिकारिणम् ॥ ंओथ्_,.९ ॥


अथास्थानगतम् भूपं राजमण्डलम् आस्थितम् /
समुपेत्य त्वरायुक्तो याष्टीको ऽसौ व्यजिज्ञपत् // ंओ_,.१० //
"असौ याष्टीकः" प्रतीहारपतिः ॥ ंओथ्_,.१० ॥


किं "व्यजिज्ञपद्" इत्य् । अत्राह
देव द्वारि महातेजा बालभास्करसन्निभः /
ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः // ंओ_,.११ //
स्पष्टम् ॥ ंओथ्_,.११ ॥


स चामरपताकाढ्यं साश्वेभपुरुषायुधम् /
कृतवांस् तम् प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम् // ंओ_,.१२ //



स्पष्टम् ॥ ंओथ्_,.१२ ॥


वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि /
विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा // ंओ_,.१३ //
असौ पुरुषः "अस्मान्" "अनुद्धतया" "गिरे"ति "वक्ती"ति सम्बन्धः ।
याष्टीका इत्य् आमन्त्रणम् । यूयम् इत्य् अध्याहार्यम् ॥ ंओथ्_,.१३ ॥



इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः /
स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् // ंओ_,.१४ //
"हेमविष्टरात्" सुवर्णपीठात् ॥ ंओथ्_,.१४ ॥


पदातिर् एव महतां राज्ञां वृन्देन पालितः /
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः // ंओ_,.१५ //
स्पष्टम् ॥ ंओथ्_,.१५ ॥



जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः /
ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम् // ंओ_,.१६ //
स्पष्टम् ॥ ंओथ्_,.१६ ॥


कीदृशं ददर्शेत्य् अपेक्षायाम् आह
केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् /
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा // ंओ_,.१७ //
स्पष्टम् ॥ ंओथ्_,.१७ ॥


जराजरढया नित्यं तपःप्रसररूक्षया /
जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम् // ंओ_,.१८ //
स्पष्टम् ॥ ंओथ्_,.१८ ॥



उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा /
निभृतं चोर्जिताकारं दधानम् भास्वरं वपुः // ंओ_,.१९ //
"अप्रतिघम्" अप्रतिघाताकारम् । "निभृतं" कोमलं ॥ ंओथ्_,.१९ ॥



पेशलेनातिभीमेन प्रसन्नेनाकुलेन च /
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् // ंओ_,.२० //
स्पष्टम् ॥ ंओथ्_,.२० ॥


अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् /
धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम् // ंओ_,.२१ //
"श्लक्ष्णाम्" पेशलाम् ॥ ंओथ्_,.२१ ॥


करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः /
ईक्षणैर् अमृतेनेव संसिञ्चन्तम् इमाः प्रजाः // ंओ_,.२२ //
स्पष्टम् ॥ ंओथ्_,.२२ ॥



सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् /
आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः // ंओ_,.२३ //
"अवेक्षितुः" पश्यतः । अतिपेशलत्वात् "आनन्द"दानं । सतेजस्कत्वात् "भय"दानम् ॥ ंओथ्_,.२३ ॥


मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः /
प्रणनाम गलन्मौलिमणिमालितभूतलम् // ंओ_,.२४ //
"गलद्" इत्यादि क्रियाविशेषणम् ॥ ंओथ्_,.२४ ॥



मुनिर् अप्य् अवनेर् ईशम् भास्वान् इव शतक्रतुम् /
तत्राभिवादयां चक्रे मधुरोदारया गिरा // ंओ_,.२५ //
स्पष्टम् ॥ ंओथ्_,.२५ ॥


ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः /
स्वागतादिक्रमेणैनम् पूजयाम् आसुर् आदृताः // ंओ_,.२६ //
"एनं" विश्वामित्रम् ॥ ंओथ्_,.२६ ॥


दशरथः कथयति
अशङ्कितोपनीतेन भास्वता दर्शनेन ते /
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः // ंओ_,.२७ //
"अशङ्कितम्" शङ्कराहितम् । "उपनीतेन" प्राप्तेन ॥ ंओथ्_,.२७ ॥


यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् /
तद् आनन्दसुखम् प्राप्ता अद्य त्वद्दर्शनान् मुने // ंओ_,.२८ //
"त्वद्दर्शनेन" वयम् ब्रह्मानन्दम् "प्राप्ता" इति भावः ॥ ंओथ्_,.२८ ॥



अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः /
भवदागमनस्येमे यद् वयं लक्ष्यतां गताः // ंओ_,.२९ //
"वर्तामहे" तिष्ठामः । "लक्ष्यताम्" आश्रयत्वम् । विषयत्वम् इति यावत् ॥ ंओथ्_,.२९ ॥


एवम् प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः /
आसनेषु सभास्थानम् आस्थाय समुपाविशन् // ंओ_,.३० //
"समुपाविशन्" उपविष्टाः ॥ ंओथ्_,.३० ॥


स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् /
प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत् // ंओ_,.३१ //
[ऋआम् ई १७, २८]
"न्यवेदयद्" अर्पितवान् ॥ ंओथ्_,.३१ ॥


स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा /
प्रदक्षिणम् प्रकुर्वन्तं राजानम् पर्यपूजयत् // ंओ_,.३२ //
[ऋआम् ई १७, २९अब् (*५३९च्द्)]
स्पष्टम् ॥ ंओथ्_,.३२ ॥


स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा /
कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम् // ंओ_,.३३ //
[ऋआम् ई १७, २९च्द्]
स्पष्टम् ॥ ंओथ्_,.३३ ॥



वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः /
यथार्हं चार्चयित्वैनम् पप्रच्छानामयं ततः // ंओ_,.३४ //
[ऋआम् ई १७, ३०अब् (*५४१अब्)]
स्पष्टम् ॥ ंओथ्_,.३४ ॥


क्षणं यथार्हम् अन्योऽन्यम् पूजयित्वा समेत्य च /
ते सर्वे हृष्टमनसो महाराजनिवेशने // ंओ_,.३५ //
[ऋआम् ई १७, ३१अब् (*५४१च्द्)]
स्पष्टम् ॥ ंओथ्_,.३५ ॥


यथोचितासनगता मिथः संवृद्धतेजसः /
परस्परेण पप्रच्छुः सर्वे ऽनामयम् आदरात् // ंओ_,.३६ //
स्पष्टम् ॥ ंओथ्_,.३६ ॥


उपविष्टाय तस्मै स विश्वामित्राय धीमते /
पाद्यम् अर्घ्यं च गाश् चैव भूयो भूयो न्यवेदयत् // ंओ_,.३७ //
[ऋआम् ई *५४२अब्;एङ्]
स्पष्टम् ॥ ंओथ्_,.३७ ॥



अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत /
प्राञ्जलिः प्रयतो वाक्यम् इदम् प्रीतमना नृपः // ंओ_,.३८ //
[ऋआम् ई *५४२ग्-ज्]
स्पष्टम् ॥ ंओथ्_,.३८ ॥


यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके ।
[ऋआम् ई १७, ३३अब्]
यथान्धस्येक्षणप्राप्तिर् भवदागमनं तथा ॥ ंओथ्_,.३९ ॥



स्पष्टम् ॥ ंओथ्_,.३९ ॥



यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः ।
[ऋआम् ई १७, ३३च्द्]
स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा ॥ ंओथ्_,.४० ॥


[ऋआम् ई *५४५च्]
स्पष्टम् ॥ ंओथ्_,.४० ॥


यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
[ऋआम् ई *५४४]
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ंओथ्_,.४१ ॥


[ऋआम् ई १७, ३३ए]
स्पष्टम् ॥ ंओथ्_,.४१ ॥



यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् /
तथा त्वदागमाद् ब्रह्मन् स्वागतं ते महामुने // ंओ_,.४२ //
[ऋआम् ई १७, ३३ङ्-ह् (*५४५द्)]
"मृतस्य" "पुनर् आगमाद्" । इत्य् अत्र यथेति शेषः । हे महामुने । "ते" "स्वागतम्" अस्तु ॥ ंओथ्_,.४२ ॥



ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् /
मुने तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते // ंओ_,.४३ //
[ऋआम् ई *५४५एङ्;*५४६]
स्पष्टम् ॥ ंओथ्_,.४३ ॥



कश् च ते परमः कामः किं च ते करवाण्य् अहम् /
पात्रभूतो ऽसि मे विप्र प्राप्तः परमधार्मिकः // ंओ_,.४४ //
[ऋआम् ई १७, ३४अ-द्]
हे "विप्र" "असि" त्वं । "मे पात्रभूतः प्राप्तः" ॥ ंओथ्_,.४४ ॥


पूर्वं राजर्षिशब्देन तपसा द्योतितप्रजः /
ब्रह्मर्षित्वम् अनु प्राप्तः पूज्यो ऽसि भगवन् मम // ंओ_,.४५ //
[ऋआम् ई १७, ३५]
हे "भगवन्" "पूर्वं" "राजर्षिशब्देनै"व पूज्यः । "अनु" पश्चात् । "तपसा द्योतितप्रजः" सन् । "ब्रह्मर्षित्वम्" "प्राप्तः" त्वम् । "मम पूज्यः असि" ॥ ंओथ्_,.४५ ॥



गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम /
तथा त्वद्दर्शनात् प्रीतिर् अन्तः शीतयतीव माम् // ंओ_,.४६ //
[ऋआम् ई *५५१अ-च्]
"अन्तः" मनसि ॥ ंओथ्_,.४६ ॥


विगतेच्छाभयक्रोधो वीतरागो निरामयः /
इदम् अत्यद्भुतम् ब्रह्मन् यद् भवान् माम् उपागतः // ंओ_,.४७ //
"माम्" उपागमानर्हम् इति भावः ॥ ंओथ्_,.४७ ॥


शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् ।
[ऋआम् ई १७, ३६च्]
चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥ ंओथ्_,.४८ ॥


"उन्मग्नम्" उदितम् ॥ ंओथ्_,.४८ ॥


साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनम् मतम् /
पूतो ऽस्म्य् अनुगृहीतो ऽस्मि तवाभ्यागमनान् मुने // ंओ_,.४९ //
[ऋआम् ई *५५५]
स्पष्टम् ॥ ंओथ्_,.४९ ॥


त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् /
अद्य मे सफलं जन्म जीवितं तत् सुजीवितम् // ंओ_,.५० //
[ऋआम् ई १७, ३४एङ्]
"त्वदागमनात्" उत्पन्नेन "पुण्येन" "मे जन्म मे जीवितं" च । "यत्" "अनुरञ्जितम्" स्वोपरक्तं कृतं । "तत्" ततो हेतोः । "मे जन्म सफलम्" भवति । "मे जीवितं सुजीवितम्" भवति ॥ ंओथ्_,.५० ॥



त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
[ऋआम् ई *५५२]
आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् यथा ॥ ंओथ्_,.५१ ॥



स्पष्टम् ॥ ंओथ्_,.५१ ॥


यत् कार्यं येन चार्थेन प्राप्तो ऽसि मुनिपुङ्गव /
कृतम् इत्य् एव तद् विद्धि मान्यो ऽसि हि भृशम् मम // ंओ_,.५२ //
[ऋआम् ई *५५७]
स्पष्टम् ॥ ंओथ्_,.५२ ॥


स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक /
भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते // ंओ_,.५३ //
[ऋआम् ई १७, ३८अब् (*५५८)]
हे "कौशिक" "त्वं" "स्वकार्येण" सह "विमर्शं कर्तुम् अर्हसि" किम् मम कार्यम् अस्तीति विचारं कर्तुम् अर्हसीति भावः । ननु किमर्थम् अहं "स्वकार्येण" सह "विमर्शं" करोमीत्य् । अत्राह "भगवन्न्" इति । "हि" यस्मात् । हे "भगवन्" "त्वयि यत् प्रतिपद्यते" उपयुज्यते । तत् "अदेयं नास्ति" । तद् ददाम्य् एवेत्य् अर्थः ॥ ंओथ्_,.५३ ॥



कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः /
कर्ता चाहम् अशेषं ते दैवतम् परमम् भवान् // ंओ_,.५४ //
[ऋआम् ई १७, ३८]
स्पष्टम् ॥ ंओथ्_,.५४ ॥



सर्गान्तश्लोकेन दशरथविनयोक्त्या मुनेर् हर्षगमनं कथयति
इदम् अतिमधुरं निशम्य वाक्यं
श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् /
प्रथितगुणवशाद् गुणैर् विशिष्टं
मुनिवृषभः परमं जगाम हर्षम् // ंओ_,.५५ //
[ऋआम् ई १७, ३९]
"अतिमधुरम्" उत्कृष्टमधुराख्यगुणविशिष्टं । "श्रुतिसुखं" कर्णसुखम् । "अर्थविदा" परमार्थज्ञेन दशरथेन । "विनीतं" सविनयं यथा भवति तथ्"ओक्तं" कथितं । तथा "प्रथिताः" ये "गुणाः" वाक्यगुणास् । तद्"वशात्" "गुणैः विशिष्टम्" । प्रथितगुणविशिष्टम् इति यावत् । ईदृशं "वाक्यं निशम्य" सः "मुनिवृषभः" मुनिश्रेष्ठः कौशिकः । "परमं हर्षं जगाम" । दातृविनयेन हि अर्थिनो महान् हर्षो जायते । इति शिवम् ॥ ंओथ्_,.५५ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चमः सर्गः ॥ १,५ ॥



************************************************************************


तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् /
हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत // ंओ_,.//
[ऋआम् ई १८, ]
स्पष्टम् ॥ ंओथ्_,.१ ॥


सदृशं राजशार्दूल तवैवैतन् महीतले /
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः // ंओ_,.//
[ऋआम् ई १८, ]
"तवैव" न त्व् अन्यस्येत्य् अर्थः ॥ ंओथ्_,.२ ॥


यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् /
कुरु त्वं राजशार्दूल धर्मं समनुपालय // ंओ_,.//
[ऋआम् ई १८, ]
"तु"शब्दः "वाक्य"वाच्यस्य "कार्य"स्यातिकष्टं सम्पादनीयतां द्योतयति । तस्य "कार्यनिर्णयम्" हृद्गतवाक्यवाच्यकार्यनिर्णयम् इत्य् अर्थः । ननु किमर्थं करोमीत्य् । अत्राह "धर्मम्" इति । तवानेन धर्मपालनम् भविष्यतीति भावः ॥ ंओथ्_,.३ ॥



"हृद्गतं वाक्यम्" प्रकटीकरोति
अहं नियमम् आतिष्ठे सिद्ध्यर्थम् पुरुषर्षभ /
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः // ंओ_,.//
[ऋआम् ई १८, ]
"आतिष्ठे" आश्रयामि ॥ ंओथ्_,.४ ॥


यदा यदा तु यज्ञेन यजे ऽहं विबुधव्रजम् /
तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः // ंओ_,.//
"यजे" पूजयामि ॥ ंओथ्_,.५ ॥


बहुशो विहिते तस्मिन् मम राक्षसनायकाः /
अकिरंस् ते महीं यागे मांसेन रुधिरेण च // ंओ_,.//
[ऋआम् ई १८, (*५६२)]
स्पष्टम् ॥ ंओथ्_,.६ ॥



अवधूते तथाभूते तस्मिन् यागकदम्बके /
कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम् // ंओ_,.//
[ऋआम् ई १८, ]
"अपागमम्" अपगतः ॥ ंओथ्_,.७ ॥


न च मे क्रोधम् उत्स्रष्टुम् बुद्धिर् भवति पार्थिव /
तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते // ंओ_,.//
[ऋआम् ई १८, ]
शापदानेन स यज्ञः नश्यतीति भावः ॥ ंओथ्_,.८ ॥



ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ /
त्वत्प्रसादाद् अविघ्नेन प्रापयेयम् महाफलम् // ंओ_,.//
हे "राजन्" । अतः "मम तस्मिन् महाक्रतौ ईदृशी क्षमा" भवति । अतः अहम् "महाफलम्" तं क्रतुं । "त्वत्प्रसादात् प्रापयेयम्" प्राप्नुयाम् । "प्रापयेयम्" इति स्वार्थे णिच् आर्षः ॥ ंओथ्_,.९ ॥



त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् /
अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः // ंओ_,.१० //
स्पष्टम् ॥ ंओथ्_,.१० ॥


ननु केन प्रकारेणाहं त्वत्त्राणं करोमीत्य् । अत्राह
तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः /
महेन्द्रसदृशो वीरो रामो रक्षोविदारणः // ंओ_,.११ //
स्पष्टम् ॥ ंओथ्_,.११ ॥



ननु ततः किम् इत्य् । अत्राह
तम् पुत्रं राजशार्दूल रामं सत्यपराक्रमम् /
काकपक्षधरं शूरं ज्येष्ठम् मे दातुम् अर्हसि // ंओ_,.१२ //
[ऋआम् ई १८, ]
तेनैव रक्षापरपर्यायं त्राणम् मे भविष्यतीति भावः ॥ ंओथ्_,.१२ ॥


ननु कथं शिशुरूपो ऽसौ राक्षसेभ्यस् तव मखं रक्षिष्यतीत्य् । अत्राह
शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा /
राक्षसा ये ऽपकर्तारस् तेषाम् मूर्धविनिग्रहे // ंओ_,.१३ //
[ऋआम् ई १८, ]
स्पष्टम् ॥ ंओथ्_,.१३ ॥


श्रेयश् चास्मिन् करिष्यामि बहुरूपम् अनन्तकम् /
त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति // ंओ_,.१४ //
[ऋआम् ई १८, १०]
स्पष्टम् ॥ ंओथ्_,.१४ ॥


ननु कथम् असौ तादृशानां राक्षसानाम् पुरः स्थातुं शक्नोतीत्य् । अत्राह
न च तेन समासाद्य स्थातुं शक्ता निशाचराः ।
[ऋआम् ई १८, ११अब्]
क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥ ंओथ्_,.१५ ॥



"तेन" इति द्वितीयास्थाने तृतीया आर्षी ॥ ंओथ्_,.१५ ॥



तेषां च नान्यः काकुत्स्थाद् योद्धुम् उत्सहते पुमान् ।
[ऋआम् ई १८, ११च्द्]
ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव ॥ ंओथ्_,.१६ ॥



स्पष्टम् ॥ ंओथ्_,.१६ ॥


वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
[ऋआम् ई १८, १२अब्]
खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव ॥ ंओथ्_,.१७ ॥



स्पष्टम् ॥ ंओथ्_,.१७ ॥


रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
[ऋआम् ई १८, १२च्द्]
अनारतागता धारा जलदस्येव पांसवः ॥ ंओथ्_,.१८ ॥



स्पष्टम् ॥ ंओथ्_,.१८ ॥


न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव ।
[ऋआम् ई १८, १३अब्]
न तद् अस्ति जगत्य् अस्मिन् यन् न देयम् महात्मनः ॥ ंओथ्_,.१९ ॥


स्पष्टम् ॥ ंओथ्_,.१९ ॥


हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् ।
[ऋआम् ई १८, १३च्द्]
न ह्य् अस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ ंओथ्_,.२० ॥



"हन्त" हर्षे ।" नूनं" निश्चये । अहं तान् "राक्षसान्" "हतान्" जानामि । त्वम् अपि "विद्धि" । ननु कथम् अहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह "" "ही"ति । "सं" सम्यक् । "प्रवृत्तिः" । येषां । ते तादृशाः ॥ ंओथ्_,.२० ॥


अहं वेद्मि महात्मानं रामं राजीवलोचनम् /
वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः // ंओ_,.२१ //
[ऋआम् ई १८, १४]
स्पष्टम् ॥ ंओथ्_,.२१ ॥


यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् /
तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि // ंओ_,.२२ //
[ऋआम् ई १८, १५]
"मनसि स्थितं" काङ्क्षितम् । "अभिप्रेतम्" प्रोक्तं कार्यार्थम् इष्टम् ॥ ंओथ्_,.२२ ॥


दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः ।
[ऋआम् ई १८, १७च्द्]
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ ंओथ्_,.२३ ॥


स्पष्टम् ॥ ंओथ्_,.२३ ॥


अत्राभ्यनुज्ञां काकुत्स्थ ददताम् तव मन्त्रिणः /
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय // ंओ_,.२४ //
[ऋआम् ई १८, १६]
स्पष्टम् ॥ ंओथ्_,.२४ ॥


नात्येति कालः कालज्ञ यथायम् मम राघव /
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः // ंओ_,.२५ //
[ऋआम् ई १८, १८]
"अत्येति" गच्छति ॥ ंओथ्_,.२५ ॥


कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् /
महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः // ंओ_,.२६ //
"अकालतः" अकाले ॥ ंओथ्_,.२६ ॥


इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः /
विरराम महातेजा विश्वामित्रो मुनीश्वरः // ंओ_,.२७ //
[ऋआम् ई १८, १९]
स्पष्टम् ॥ ंओथ्_,.२७ ॥



सर्गान्तश्लोकेन दशरथतूष्णीम्भावं कथयति
श्रुत्वा वचो मुनिवरस्य महाप्रभावस्
तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् /
नो युक्तियुक्तकथनेन विनैति तोषं
धीमान् अपूरितमनोऽभिमतश् च लोकः // ंओ_,.२८ //
"महाप्रभावो" महानुभावयुक्तः । "" दशरथः । "मुनिवरस्य" विश्वामित्रस्य । "वचः" "श्रुत्वा" "तूष्णीम् अतिष्ठ्%अत्" । नो किञ्चिद् अप्य् उक्तवान् इत्य् अर्थः । "इदं" तूष्णीम् आसनम् । "उपपन्नं" युक्तम् । भवति । यतः "धीमान्" बुद्धियुक्तः । "युक्तियुक्तकथनेन" "विना" "वक्तुं" कथयितुं "तोषं" "नैति" । न कथयतीत्य् अर्थः । "लोकश्" "" लोकस् तु । "अपूरितमनोऽभि"लषितः "वक्तुं" "तोषं" "नैति" । अतः युक्तिरहितं विश्वामित्रस्य वाक्यं श्रुत्वा दशरथः तुष्णीम् अभूद् इति भावः । इति शिवम् ॥ ंओथ्_,.२८ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षष्ठः सर्गः ॥ १,६ ॥


************************************************************************


तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् /
मुहूर्तम् आसीन् निश्चेष्टः सदैन्यं चैवम् अब्रवीत् // ंओ_,.//
[ऋआम् ई १९, ]
स्पष्टम् ॥ ंओथ्_,.१ ॥



ऊनषोडशवर्षो ऽयं रामो राजीवलोचनः /
न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः // ंओ_,.//
[ऋआम् ई १९, ]
स्पष्टम् ॥ ंओथ्_,.२ ॥


इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहम् प्रभो /
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् // ंओ_,.//
[ऋआम् ई १९, ]
"पिशिताशिनां" राक्षसानाम् ॥ ंओथ्_,.३ ॥


इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः ।
[ऋआम् ई १९, ४अब्]
अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि ॥ ंओथ्_,.४ ॥



[ऋआम् ई १९, ५अब्]
स्पष्टम् ॥ ंओथ्_,.४ ॥


एभिः सह तवारीणाम् महेन्द्रमहताम् अपि /
ददामि युद्धम् मत्तानां करिणाम् इव केसरी // ंओ_,.//
"हि" यस्माद् । एते "भृत्या" भवन्ति । "अहम् चैषां समरमूर्धनि गोप्ता"स्मि । अतः अहम् "एभिः" "सह तवारीणां युद्धं ददामी"ति सम्बन्धः ॥ ंओथ्_,.५ ॥


बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् ।
[ऋआम् ई १९, ७अब्]
अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः ॥ ंओथ्_,.६ ॥



स्पष्टम् ॥ ंओथ्_,.६ ॥

न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः /
न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु // ंओ_,.//
एष इति शेषः ॥ ंओथ्_,.७ ॥


केवलम् पुष्पषण्डेषु नगरोपवनेषु च /
उद्यानवनकुञ्जेषु सदैव परिशीलितः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.८ ॥


विहर्तुम् एष जानाति सह राजकुमारकैः /
कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.९ ॥


अद्य त्व् अतितराम् ब्रह्मन् मम भाग्यविपर्ययात् /
हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः // ंओ_,.१० //
"हरितः" पाण्डुः ॥ ंओथ्_,.१० ॥



नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ /
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् // ंओ_,.११ //
"अत्तुम्" भक्षितुम् ॥ ंओथ्_,.११ ॥


सदारः सहभृत्यो ऽहं तत्कृते मुनिनायक /
शरदीव पयोवाहो नूनं निःसहतां गतः // ंओ_,.१२ //
"निःसहताम्" उत्कृशतां । सोढुम् अशक्तत्वम् ॥ ंओथ्_,.१२ ॥


ईदृशो ऽसौ सुतो बाल आधिना विवशीकृतः /
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः // ंओ_,.१३ //
स्पष्टम् ॥ ंओथ्_,.१३ ॥


अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् /
राज्याद् अपि सुखायैष पुत्रस्नेहो महामते // ंओ_,.१४ //
स्पष्टम् ॥ ंओथ्_,.१४ ॥


ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः /
पुत्रस्नेहेन सन्तो ऽपि कुर्वते ते न संश्रयम् // ंओ_,.१५ //
"सन्तः अपि" स्थिता अपि । "संश्रयं" स्थितिं । "पुत्रस्नेहेन ते" विस्मृतिं गच्छन्तीति भावः ॥ ंओथ्_,.१५ ॥


असवो ऽथ धनं दारास् त्यज्यन्ते मानवैः सुखम् /
न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु // ंओ_,.१६ //
स्पष्टम् ॥ ंओथ्_,.१६ ॥


राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
[ऋआम् ई १९, ७एङ्]
रामस् तान् योधयत्व् इत्थम् उक्तिर् एवातिदुःसहा ॥ ंओथ्_,.१७ ॥



"कूटयुद्धं" छलयुद्धम् । "उक्तिर् एवे"ति अनुष्ठानस्य का कथेति भा-वः ॥ ंओथ्_,.१७ ॥


विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे /
जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि // ंओ_,.१८ //
[ऋआम् ई १९, ]
"नोत्सहे" समर्थो न भवामि । "जीवितुं" जीवनक्रियाकर्तृताम् अनुभवितुम् । "जीविताकाङ्क्षी" मम जीविताकाङ्क्षीत्य् अर्थः ॥ ंओथ्_,.१८ ॥


नववर्षसहस्राणि मम यातानि कौशिक /
दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया // ंओ_,.१९ //
[ऋआम् ई १९, १०]
अनुकम्पिताः पुत्राः "पुत्रकाः" ॥ ंओथ्_,.१९ ॥



प्रधानभूतस् तेष्व् एषु रामः कमललोचनः /
तं विना ते त्रयो ऽप्य् अन्ये धारयन्ति न जीवितम् // ंओ_,.२० //
स्पष्टम् ॥ ंओथ्_,.२० ॥



स एव रामो भवता नीयते राक्षसान् प्रति /
यदि तत् पुत्रहीनं त्वम् मृतम् एवाशु विद्धि माम् // ंओ_,.२१ //
स्पष्टम् ॥ ंओथ्_,.२१ ॥



चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा /
ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि // ंओ_,.२२ //
[ऋआम् ई १९, ११]
निर्धारणे षष्ठी ॥ ंओथ्_,.२२ ॥


निशाचरबलं हन्तुम् मुने यदि तवेप्सितम् /
चतुरङ्गसमायुक्तं मया सह बलं नय // ंओ_,.२३ //
स्पष्टम् ॥ ंओथ्_,.२३ ॥


किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते /
कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् // ंओ_,.२४ //
[ऋआम् ई १९, १२]
स्पष्टम् ॥ ंओथ्_,.२४ ॥


कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् । / मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् // ंओ_,.२५ //
[ऋआम् ई १९, १३]
रामस्याग्रे स्थितत्वाभावात् "तेने"त्य् उक्तम् ॥ ंओथ्_,.२५ ॥


सर्वम् मे शंस भगवन् यथा तेषाम् मया रणे /
स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः // ंओ_,.२६ //
[ऋआम् ई १९, १४]
स्पष्टम् ॥ ंओथ्_,.२६ ॥


श्रूयते हि महावीरो रावणो नाम राक्षसः /
साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः // ंओ_,.२७ //
[ऋआम् ई १९, १७]
स्पष्टम् ॥ ंओथ्_,.२७ ॥


अस्तु सः । ततः किम् इत्य् । अत्राह
स चेत् तव मखे विघ्नं करोति किल दुर्मतिः /
तत् सङ्ग्रामे न शक्ताः ऽस्मो वयं तस्य दुरात्मनः // ंओ_,.२८ //
[ऋआम् ई १९, १९च्द्]
"तत्" तदा ॥ ंओथ्_,.२८ ॥


ननु कथम् असौ तादृग्वीर्यः अस्तीत्य् । अत्राह
काले काले पृथग् ब्रह्मन् भूरिवीर्यविभूतयः । /
भूतेष्व् अभ्युदयं यान्ति प्रलीयन्ते च कालतः // ंओ_,.२९ //
"भूरिवीर्यविभूतयः" महद्वीर्यसम्पद्युक्ताः । "भूतेष्व्" इति निर्धारणे सप्-तमी ॥ ंओथ्_,.२९ ॥


अद्यास्मिंस् ते वयं काले रावणादिषु शत्रुषु /
न समर्थाः पुरः स्थातुं नियतेर् एष निश्चयः // ंओ_,.३० //
स्पष्टम् ॥ ंओथ्_,.३० ॥


तस्मात् प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके /
मम चैवाल्पभाग्यस्य भवान् ह्य् असमदैवतम् // ंओ_,.३१ //
[ऋआम् ई १९, २०]
"अल्पभाग्यस्ये"ति । अन्यथा त्वं रामं न याचितवान् इति भावः ॥ ंओथ्_,.३१ ॥


देवदानवगन्धर्वा यक्षप्लवगपन्नगाः /
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि // ंओ_,.३२ //
स्पष्टम् ॥ ंओथ्_,.३२ ॥


महावीर्यवतां वीर्यम् आदत्ते स सुधाभुजाम् /
तेन सार्धं न शक्ता स्मस् संयुगे तस्य वावराः // ंओ_,.३३ //
[ऋआम् ई १९, २२अ-द्]
"आदत्ते" गृह्णाति । प्रतिबध्नातीति यावत् । महावीर्यान् सुधाभुजो ऽप्य् असौ वीर्यरहितान् करोतीति भावः । "अवरास्" तदपेक्षया नीचाः । "वा"शब्दः पादपूरणार्थः ॥ ंओथ्_,.३३ ॥



ननु रामस्य सज्जनत्वेनैवावश्यं जयः स्याद् इत्य् । अत्राह
अयम् अन्यतमः कालः पेलवीकृतसज्जनः /
राघवो ऽपि गतो दैन्यं यत्र वार्धकजर्जरः // ंओ_,.३४ //
"अपि"शब्दः राघवस्य महासज्जनत्वं द्योतयति । वार्धकेनेव जर्जरः "वार्धकजर्जरः" ॥ ंओथ्_,.३४ ॥


अथ वा लवणम् ब्रह्मन् यज्ञघ्नं तम् मधोः सुतम् /
कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् // ंओ_,.३५ //
"अथ वा मधोः सुतं तं" प्रसिद्धं । "यज्ञघ्नं लवणं" योद्धुं "न शक्ताः" स्मः इति व्यवहिताध्याहृतैः सह सम्बन्धः । लवणो ऽपि चेत् तव यज्ञविघ्नकारी अस्ति तम् अपि योद्धुं न शक्ताः स्म इति भावः । हे "सुरप्रख्य" "त्वं कथय" । अहं "पुत्रकं क्वेव" कुत्रेव । "मोक्ष्यामि" । न मोक्ष्यामीति भावः ॥ ंओथ्_,.३५ ॥



अथ नेच्छसि चेद् ब्रह्मंस् तद् विधेयो ऽहम् एव ते /
अन्यथा तु न पश्यामि शाश्वतं जयम् आत्मनः // ंओ_,.३६ //
"अथ" पक्षान्तरे । त्वम् पुत्रामोक्षणं "चेत्" यदि । "नेच्छसि" "तद् अहं ते" तव । "विधेयः" आयत्तः । "एवा"स्मि । तदा अहम् एवागच्छामीत्य् अर्थः । "अन्यथा" सहजविचारे क्रियमाणे । अहम् "आत्मनः शाश्वतं जयं न पश्यामि" । न जानामीत्य् अर्थः ॥ ंओथ्_,.३६ ॥



सर्गान्तश्लोकेन दशरथवचनम् उपसंहरति
इत्य् उक्त्वा मृदुवचनम् भयाकुलो ऽसाव्
आलोले मुनिमतसंशये निमग्नः /
नाज्ञासीत् कणम् अपि निश्चयं महात्मा
प्रोद्वीचाव् इव जलधौ समुह्यमानः // ंओ_,.३७ //
"मुनिमतस्य संशये" ऽनुष्ठानाननुष्ठानरूपे सन्देहे । "मग्नः" । अत एव "भयाकुलः" "महात्मा असौ" दशरथः । "इत्य्" एवं । "मृदुवचनं" कोमलवचनम् । "उक्त्वा" "कणम् अपि" स्तोकम् अपि । "निश्चयं न अज्ञासीत्" न ज्ञातवान् । "असौ" कथम्भूतः "इव" "प्रोद्वीचौ जलधौ समुह्यमान इव" । जलधौ समुह्यमानो ऽपि कुत्र गच्छामीति निश्चयं न जानातीति शिवम् ॥ ंओथ्_,.३७ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तमः सर्गः ॥ १,७ ॥


************************************************************************



तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् /
समन्युः कौशिको वाक्यम् प्रत्युवाच महीपतिम् // ंओ_,.//
[ऋआम् ई २०, ]
"तस्य" दशरथस्य ॥ ंओथ्_,.१ ॥



विश्वामित्रः कथयति
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि ।
[ऋआम् ई २०, २अब्]
सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि ॥ ंओथ्_,.२ ॥



स्पष्टम् ॥ ंओथ्_,.२ ॥


राघवानाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः ।
[ऋआम् ई २०, २च्द्]
न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥ ंओथ्_,.३ ॥


ननु कथं "राघवानां कुलस्यायं विपर्ययः अयुक्तो" भवतीत्य् । अत्र दृष्टान्तम् आह । "न कदाचने"ति ॥ ंओथ्_,.३ ॥


यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः /
हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः // ंओ_,.//
[ऋआम् ई २०, ]
स्पष्टम् ॥ ंओथ्_,.४ ॥



श्रीवाल्मीकिः भरद्वाजम् प्रति कथयति
तस्मिन् कोपपरीते ऽथ विश्वामित्रे महात्मनि /
चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन् // ंओ_,.//
[ऋआम् ई २०, ]
स्पष्टम् ॥ ंओथ्_,.५ ॥



क्रोधाभिभूतं विज्ञाय जगन्मित्रम् महामुनिम् /
धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत् // ंओ_,.//
[ऋआम् ई २०, ]
"जगन्मित्रं" विश्वामित्रम् ॥ ंओथ्_,.६ ॥


श्रीवसिष्ठः कथयति
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
[ऋआम् ई २०, ६अब्]
भवान् दशरथः श्रीमांस् त्रैलोक्ये गुणभूषितः ॥ ंओथ्_,.७ ॥


स्पष्टम् ॥ ंओथ्_,.७ ॥


नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि ।
[ऋआम् ई २०, ६च्द्]
मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि ॥ ंओथ्_,.८ ॥


स्पष्टम् । युग्मम् ॥ ंओथ्_,.८ ॥


त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः /
स्वधर्मम् प्रतिपद्यस्व न धर्मं हातुम् अर्हसि // ंओ_,.//
[ऋआम् ई २०, ]
"प्रतिपद्यस्व" स्वीकुरु ॥ ंओथ्_,.९ ॥


करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः /
इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय // ंओ_,.१० //
[ऋआम् ई २०, ]
"इष्टापूर्तः" इष्टापूर्तस्वरूपः । प्रतिज्ञाताकरणेन हि सर्वो धर्मः नश्यति ॥ ंओथ्_,.१० ॥


गुप्तम् पुरुषसिंहेन ज्वलनेनामृतं यथा ।
[ऋआम् ई २०, ९च्द्]
कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥ ंओथ्_,.११ ॥


[ऋआम् ई २०, ९अब्]
"कृतास्त्रं" शिक्षितास्त्रम् ॥ ंओथ्_,.११ ॥


इक्ष्वाकुवंशजातो ऽपि स्वयं दशरथो ऽपि सन् /
न पालयसि चेद् वाक्यं को ऽपरः पालयिष्यति // ंओ_,.१२ //
स्पष्टम् ॥ ंओथ्_,.१२ ॥


युष्मदादिप्रणीतेन व्यवहारेण जन्तवः /
मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि // ंओ_,.१३ //
"ताम्" मर्यादाम् ॥ ंओथ्_,.१३ ॥



एष विग्रहवान् धर्म एष वीर्यवतां वरः /
एष बुद्ध्याधिको लोके तपसां च परायणः // ंओ_,.१४ //
[ऋआम् ई २०, १०]
"परायणः" आश्रयः ॥ ंओथ्_,.१४ ॥



एषो ऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे /
नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन // ंओ_,.१५ //
[ऋआम् ई २०, ११]
स्पष्टम् ॥ ंओथ्_,.१५ ॥


न च देवर्षयः केचिन् नामरा न च राक्षसाः /
न नागयक्षगन्धर्वा अनेन सदृशा नृप // ंओ_,.१६ //
[ऋआम् ई २०, १२]
स्पष्टम् ॥ ंओथ्_,.१६ ॥


अस्त्रम् अस्मै कृशाश्वेन परैः परमदुर्जयम् ।
[ऋआम् ई २०, १३;५९९*]
कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥ ंओथ्_,.१७ ॥


[ऋआम् ई २०, १३च्द्]
"परैः" अन्यैः । "परमदुर्जयम्" अत्यन्तं जेतुम् अशक्यं । "समन्वशात्" -मपालयत् ॥ ंओथ्_,.१७ ॥



ननु किमर्थं कृशाश्वेनास्मै अस्त्राणि दत्तानीत्य् । अत्राह
ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः /
एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः // ंओ_,.१८ //
[ऋआम् ई २०, १४]
"हि" यस्मात् । "प्रजापतिसुतोपमास् ते" प्रसिद्धाः । "कृशाश्वस्य पुत्राः" "एनं" विश्वामित्रम् । "अन्वचरन्" अनुचरन्ति स्म । अतः पुत्रस्नेहेन दत्तवान् इति भावः ॥ ंओथ्_,.१८ ॥



ते पुत्राः के इत्य् अपेक्षायाम् आह
जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे /
तयोस् तु यान्य् अपत्यानि शतम् परमदुर्जयम् // ंओ_,.१९ //
"जया च सुप्रभा चैवे"ति ये । "दाक्षायण्यौ" दक्षस्य स्त्रीरूपे अपत्ये । "सुमध्यमे" स्त्रियौ । आस्ताम् । "तयोः" "यानि" "परमदुर्जयं" "शतं" "अपत्यानि" आसन् । अत्र च पूर्वश्लोकापेक्षयोत्तरवाक्यगतत्वाद् यच्छब्दस्य तच्छब्दापेक्षा नास्ति ॥ ंओथ्_,.१९ ॥



ननु कस्याः कत्य् अपत्यानि आसन्न् इत्य् अपेक्षायाम् आह
पञ्चाशतः सुताञ् जज्ञे जया लब्धवरा पुरा /
वधायासुरसैन्यानां ते ऽक्षयाः कामरूपिणः // ंओ_,.२० //
[ऋआम् ई २०, १६]
"अक्षयाः" नाशरहिताः ॥ ंओथ्_,.२० ॥



सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् /
सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः // ंओ_,.२१ //
[ऋआम् ई २०, १७]
"दुर्धर्षान्" पराभवितुम् अशक्यान् । "दुराक्रोशान्" शत्रुभिः समरे आह्वातुम् अशक्यान् ॥ ंओथ्_,.२१ ॥



प्रासङ्गिकम् उपसंहृत्य प्रकृतम् अनुसरति
एवंवीर्यो महातेजा विश्वामित्रो महामुनिः /
न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि // ंओ_,.२२ //
[ऋआम् ई २०, १९]
पूर्वार्धम् उत्तरार्धस्य हेतुत्वेन योज्यम् ॥ ंओथ्_,.२२ ॥


सर्गान्तश्लोकेन श्रीवसिष्ठो वाक्यं समापयति
अस्मिन् महासत्त्वमये मुनीन्द्रे
स्थिते समीपे पुरुषस् तु साधुः /
प्राप्ते ऽपि मृत्याव् अमरत्वम् एति
मा दीनतां गच्छ यथा विमूढः // ंओ_,.२३ //
"यथा विमूढः" । मूढवद् इत्य् अर्थः । इति शिवम् ॥ ंओथ्_,.२३ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टमः सर्गः ॥ १,८ ॥



************************************************************************


श्रीवाल्मीकिर् भरद्वाजम् प्रति कथयति
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् /
समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम् // ंओ_,.//
[ऋआम् ई २१, ]
"समुत्स्रष्टुमनाः" दातुमनाः ॥ ंओथ्_,.१ ॥


दशरथः प्रतीहारम् प्रति कथयति
प्रतीहार महाबाहुं रामम् सत्यपराक्रमम् /
सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.२ ॥



दशरथवाक्यम् उपसंहरति
इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् /
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.३ ॥



प्रतीहारः कथयति
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे /
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.४ ॥


आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः /
न कस्यचिच् च निकटे स्थातुम् इच्छति खिन्नधीः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.५ ॥


इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् /
सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम् // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.६ ॥


राजप्रश्नम् एव कथयति
कथं कीदृक् स्थितो राम इति पृष्टो महीभृता /
रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम् // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.७ ॥


देहयष्टिम् इमां देव धारयन्त इमे वयम् /
खिन्नाः खेदपरिम्लाने विभो रामे सुते तव // ंओ_,.//
हे "देव" हे राजन् । "देहयष्टिं" देहलतां । "रामे" रामाख्ये । "तव सुते" तव सुतनिमित्तं । चर्मणि द्वीपिनं हन्तीतिवत् ॥ ंओथ्_,.८ ॥



रामो राजीवपत्राक्षो यतःप्रभृति चागतः /
सविप्रस् तीर्थयात्रायास् ततःप्रभृति दुर्मनाः // ंओ_,.//
स्पष्टम् ॥ ंओथ्_,.९ ॥


यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् /
सायम् अम्लानवदनः करोति न करोति वा // ंओ_,.१० //
स्पष्टम् ॥ ंओथ्_,.१० ॥


स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् /
प्रार्थितो ऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः // ंओ_,.११ //
"आ तृप्तेः" तृप्तिपर्यन्तम् ॥ ंओथ्_,.११ ॥


लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने /
न च क्रीडति लीलाभिर् वराद्भिर् इव चातकः // ंओ_,.१२ //
"वराद्भिः" सरोजलैः । "चातकः" पक्षिविशेषः । स हि वर्षाबिन्दून् एव पिबति ॥ ंओथ्_,.१२ ॥



माणिक्यमुक्तासम्प्रोता केयूरकटकावली /
नानन्दयति तं राजन् द्यौः पातविवशं यथा // ंओ_,.१३ //
"पातविवशम्" पतन्तम् ॥ ंओथ्_,.१३ ॥



क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु /
लतावलयगेहेषु भवत्य् अतिविषादवान् // ंओ_,.१४ //
"लतावलयगेहेषु" लतामण्डलयुक्तेषु गृहेषु ॥ ंओथ्_,.१४ ॥


यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा /
बाष्पपूरेक्षण इव तेनैव परिखिद्यते // ंओ_,.१५ //
स्पष्टम् ॥ ंओथ्_,.१५ ॥



किम् इमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः /
इति नृत्तविलासेषु कामिनीः परिनिन्दति // ंओ_,.१६ //
"इमाः" एताः कामिन्यः ॥ ंओथ्_,.१६ ॥



भोजनं शयनम् पानं विलासं स्नानम् आसनम् /
उन्मत्तवेष्टितम् इव नाभिनन्दति निन्दितम् // ंओ_,.१७ //
"निन्दितं" निन्दाविषयीकृतम् ॥ ंओथ्_,.१७ ॥


किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः /
सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एको ऽवतिष्ठते // ंओ_,.१८ //
स्पष्टम् ॥ ंओथ्_,.१८ ॥


नोदेति परिहासेषु न भोगेषु निमज्जति /
न च तिष्ठति कार्येषु मौनम् एवावलम्बते // ंओ_,.१९ //
स्पष्टम् ॥ ंओथ्_,.१९ ॥



विलोलालकवल्लर्यो हेलावलितलोचनाः /
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा // ंओ_,.२० //
स्पष्टम् ॥ ंओथ्_,.२० ॥



एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च /
रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु // ंओ_,.२१ //
"विक्रीतो" हि पलायनार्थं "जन्तुरहिते" एव देशे "रतिम् आयाति" ॥ ंओथ्_,.२१ ॥


वस्त्रपानाशनादानपराङ्मुखतया तया /
परिव्रड्धर्मिणां राजन् सो ऽनुयाति तपस्विनाम् // ंओ_,.२२ //
"तपस्विनाम् अनुयाति" तपस्विसम्बन्धिचरितम् अनुकरोतीत्य् अर्थः । न माषाणाम् अश्नीयाद् इतिवत् प्रयोगः ॥ ंओथ्_,.२२ ॥


एक एव वसन् देशे जनशून्ये जनेश्वर /
न हसत्य् एकया बुद्ध्या न गायति न रोदिति // ंओ_,.२३ //
"एकया बुद्ध्या" सर्वत्यागरूपया मत्या उपलक्षितः ॥ ंओथ्_,.२३ ॥


पुनः किं करोतीत्य् अपेक्षायाम् आह
बद्धपद्मासनः शून्यमना वामकरस्थले /
कपोलतलम् आदाय केवलम् परितिष्ठति // ंओ_,.२४ //
स्पष्टम् ॥ ंओथ्_,.२४ ॥


नाभिमानम् उपादत्ते नापि वाञ्छति राजताम् /
नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु // ंओ_,.२५ //
स्पष्टम् ॥ ंओथ्_,.२५ ॥


न विद्मः किम् असौ जातः किं करोति किम् ईहते /
किं ध्यायति किम् आयाति कथं किम् अनुधावति // ंओ_,.२६ //
"न विद्म" इत्य् अस्य कर्मापेक्षायाम् आह "किम् असौ जातः" किमर्थम् असौ जातः । जननं हि भोगादिसेवनार्थम् इति भावः ॥ ंओथ्_,.२६ ॥



प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् /
विरागम् प्रत्यहं याति शरदन्त इव द्रुमः // ंओ_,.२७ //
स्पष्टम् ॥ ंओथ्_,.२७ ॥


अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ /
तादृशाव् एव तस्यैव प्रतिबिम्बाव् इव स्थितौ // ंओ_,.२८ //
स्पष्टम् ॥ ंओथ्_,.२८ ॥


भृत्यै राजभिर् अम्बाभिः स पृष्टो ऽपि पुनः पुनः /
उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः // ंओ_,.२९ //
"सः" श्रीरामः । निरीहितः चेष्टितरहितः । "इति"शब्दः पादपूरणार्थः श्रीरामोत्तरवाक्यस्वरूपनिर्देशपरो वा ज्ञेयः ॥ ंओथ्_,.२९ ॥



आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः /
इति पार्श्वगतम् भव्यम् अनुशास्ति सुहृज्जनम् // ंओ_,.३० //
"भव्यम्" अनुशासनयोग्यम् ॥ ंओथ्_,.३० ॥


नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च /
पुरःस्थितम् इवास्नेहो नाशम् एवानुपश्यति // ंओ_,.३१ //
स्पष्टम् ॥ ंओथ्_,.३१ ॥


रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः /
चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति // ंओ_,.३२ //
सः रामः । "रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः" "चेष्टितैर् एव" केवलैः अभिनयैर् एवोपलक्षितया "काकल्या" कलसूक्ष्मध्वनिना । "गायति" ॥ ंओथ्_,.३२ ॥



सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् /
प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः // ंओ_,.३३ //
स्पष्टम् ॥ ंओथ्_,.३३ ॥


न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् /
करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि // ंओ_,.३४ //
स्पष्टम् ॥ ंओथ्_,.३४ ॥


अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने /
इत्थम् एतत् कथम् इति विस्मयो ऽस्य न जायते // ंओ_,.३५ //
विस्मयस्य स्वरूपं दर्शयति "इत्थम् एतत् कथम्" इति ॥ ंओथ्_,.३५ ॥


कान्तामध्यगतस्यापि मनो ऽस्य मदनेषवः /
न भेदयन्ति दुर्भेदं धारा इव महोपलम् // ंओ_,.३६ //
स्पष्टम् ॥ ंओथ्_,.३६ ॥


आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् /
अनुशास्येति सर्वस्वम् अर्थिने सम्प्रयच्छति // ंओ_,.३७ //
"अनुशास्य" अनुशासनं कृत्वा ॥ ंओथ्_,.३७ ॥


इयम् आपद् इयं संपद् इत्य् अयं कल्पनामयः /
मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति // ंओ_,.३८ //
स्पष्टम् ॥ ंओथ्_,.३८ ॥


हा हतो ऽहम् अनाथो ऽहम् इत्य् आक्रन्दपरो ऽपि सन् /
न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ // ंओ_,.३९ //
आक्रन्दपरस्य वैराग्यं युक्तम् एवेत्य् "अपि"शब्देन द्योत्यते ॥ ंओथ्_,.३९ ॥



रघुकाननसालेन रामेण रिपुघातिना /
भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः // ंओ_,.४० //
स्पष्टम् ॥ ंओथ्_,.४० ॥



न विद्मः किम् महाबाहो तस्य तादृशचेतसः /
कुर्मः कमलपत्राक्ष गतिर् अत्र हि नो भवान् // ंओ_,.४१ //
स्पष्टम् ॥ ंओथ्_,.४१ ॥


राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् /
हसन् पशुम् इवाव्यग्रः सो ऽवधीरयति प्रभो // ंओ_,.४२ //
स्पष्टम् ॥ ंओथ्_,.४२ ॥


प्रपञ्चो ऽयम् इह स्फारं जगन्नाम यद् उत्थितम् /
नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः // ंओ_,.४३ //
यः "अयम् प्रपञ्चः उत्थितम्" इदं "स्फारं जगन्नाम" भवति । "एतद्" "वस्तु" परमार्थसत् । "" भवति । "एव"शब्दः अपिशब्दस्यार्थे । "अहम्" अपि "वस्तु न च" भवामि । "इति" एवं । "निर्णीया"सौ रामः "संस्थितः" ॥ ंओथ्_,.४३ ॥


नारौ नात्मनि नो मित्रे न राज्ये न च मातरि /
न संपदापदोर् नान्तस् तस्यास्था न विभोर् बहिः // ंओ_,.४४ //
"आस्था" रतिः ॥ ंओथ्_,.४४ ॥



निरस्तास्थो निराशो ऽसौ निरीहो ऽसौ निरास्पदः /
मोहे न च विमुक्तो ऽसौ तेन तप्यामहे वयम् // ंओ_,.४५ //
स्पष्टम् ॥ ंओथ्_,.४५ ॥


किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया /
इति निश्चयवान् अन्तः प्राणत्यागमनाः स्थितः // ंओ_,.४६ //
स्पष्टम् ॥ ंओथ्_,.४६ ॥


भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि /
परम् उद्वेगम् आयातश् चातको ऽवग्रहे यथा // ंओ_,.४७ //
स्पष्टम् ॥ ंओथ्_,.४७ ॥


तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् /
संसारजालम् आभोगि प्रभो प्रतिविषायते // ंओ_,.४८ //
प्रतिविषम् इवाचरते "प्रतिविषायते" ॥ ंओथ्_,.४८ ॥


तादृशः स्यान् महासत्त्वः क इवास्मिन् महीतले /
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः // ंओ_,.४९ //
स्पष्टम् ॥ ंओथ्_,.४९ ॥


इति नो येयम् आयाता शाखाप्रसरशालिनी /
आपत् ताम् अलम् उद्धर्तुं समुदेतु दया परा // ंओ_,.५० //
"समुदेतु" तवेति शेषः ॥ ंओथ्_,.५० ॥


सर्गान्तश्लोकेन रामभृत्यवचनं समापयति
मनसि मोहम् अपास्य महामनाः
सकलम् आर्तिमतः किल साधुताम् /
सफलतां नयतीह तमो हरन्
दिनकरो भुवि भास्करताम् इव // ंओ_,.५१ //
"महामनाः" पुरुषः । "आर्तिमतः" आर्तियुक्तस्य पुरुषस्य । "मनसि सकलम् मोहम्" आर्तिस्वरूपं समस्तम् मोहम् । "अपास्य" दूरीकृत्य । "साधुताम्" स्वस्मिन् स्थितं साधुभावं । "सफलतां नयति" । क "इव" "दिनकर इव" । यथा "दिनकरः" "भुवि" "तमः" "हरन्" "भास्करताम्" "सफलतां" "नयति" । तथेत्य् अर्थः । इति शिवम् ॥ ंओथ्_,.५१ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे नवमः सर्गः ॥ १,९ ॥


************************************************************************


रामभृत्यवचनं श्रुत्वा विश्वामित्रः कथयति
एवं चेत् तन् महाप्राज्ञम् भवन्तो रघुनन्दनम् /
इहानयन्तु त्वरितं हरिणं हरिणा इव // ंओ_,१०.//
स्पष्टम् ॥ ंओथ्_,१०.१ ॥



एष मोहो रघुपतेर् नापद्भ्यो न च रागतः /
विवेकवैराग्यकृतो बोध एष महोदयः // ंओ_,१०.//
महान् उदयः मुक्तिलक्षणः यस्मात् "सः" "महोदयः" ॥ ंओथ्_,१०.२ ॥



इहायातु क्षणाद् रामस् तद् इहैव वयं क्षणात् /
मोहं तस्यापनेष्यामो मरुतो ऽद्रेर् घनं यथा // ंओ_,१०.//
"वयं" के इव । "मरुत" इव । "यथा" "मरुतः" वायवः । "अद्रेः" "घनं" मेघम् । अपनयन्ति । तथेत्य् अर्थः ॥ ंओथ्_,१०.३ ॥
एतस्मिन् मार्जिते युक्त्या मोहे च रघुनन्दनः /
विश्रान्तिम् एष्यति पदे तस्मिन् वयम् इवोत्तमे // ंओ_,१०.//
"तस्मिन् पदे" चिन्मात्राख्ये विश्रान्तिस्थाने ॥ ंओथ्_,१०.४ ॥



सत्यताम् मुदिताम् प्रज्ञां विश्रान्तिं च समेत्य सः /
पीनतां वरवर्णत्वम् पीतामृत इवैष्यति // ंओ_,१०.//
स्पष्टम् ॥ ंओथ्_,१०.५ ॥


निजां च प्रकृताम् एव व्यवहारपरम्पराम् /
परिपूर्णमना मान्य आचरिष्यत्य् अखण्डिताम् // ंओ_,१०.//
स्पष्टम् ॥ ंओथ्_,१०.६ ॥


भविष्यति महासत्त्वो ज्ञातलोकपरावरः /
सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः // ंओ_,१०.//
[भ्ह्घ् Vई ८द्; ॠईV २४ब्]
"ज्ञाते" सम्यक् निश्चिते । "लोकानाम्" "परावरे" परावाची । पारद्वयम् इति यावत् । येन । सः ॥ ंओथ्_,१०.७ ॥


विश्वामित्रवाक्यम् उपसंहरति
इत्य् उक्ते मुनिनाथेन राजा सम्पूर्णमानसः /
प्राहिणोद् रामम् आनेतुम् भूयो दूतपरम्पराम् // ंओ_,१०.//
स्पष्टम् ॥ ंओथ्_,१०.८ ॥


एतावता च कालेन रामो निजगृहासनात् /
पितुः सकाशम् आगन्तुम् उत्थितो ऽर्क इवाचलात् // ंओ_,१०.//
स्पष्टम् ॥ ंओथ्_,१०.९ ॥


वृतः कतिपयैर् भृत्यैर् भ्रातृभ्यां चाजगाम ह /
तत् पुण्यम् पितुर् आस्थानं स्वर्गं सुरपतेर् इव // ंओ_,१०.१० //
स्पष्टम् ॥ ंओथ्_,१०.१० ॥


दूराद् एव ददर्शासौ रामो दशरथं तदा /
वृतं राजसमूहेन देवौघेनेव वासवम् // ंओ_,१०.११ //
स्पष्टम् ॥ ंओथ्_,१०.११ ॥


वसिष्ठविश्वामित्राभ्यां सेवितम् पार्श्वयोर् द्वयोः /
सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् // ंओ_,१०.१२ //
स्पष्टम् ॥ ंओथ्_,१०.१२ ॥


चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।
ककुब्भिर् इव मूर्ताभिः संस्थिताभिर् यथोचितम् ॥ ंओथ्_,१०.१३ ॥


"ककुब्भिः" दिग्भिः ॥ ंओथ्_,१०.१३ ॥


वसिष्ठविश्वामित्राद्यास् तथा दशरथादयः /
ददृशू राघवं दूराद् उपायान्तं गुहोपमम् // ंओ_,१०.१४ //
"गुहोपमं" कुमारसदृशम् ॥ ंओथ्_,१०.१४ ॥


सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् /
श्रितं सकलसेव्येन गम्भीरेण स्वरेण च // ंओ_,१०.१५ //
"सत्त्वस्यावष्टम्भेन" हस्तावलम्बेन यः "गर्वः" । तेन । पूर्वस्य श्लोकस्य विशेषणत्वेन योज्यम् ॥ ंओथ्_,१०.१५ ॥



सौम्यं समशुभाकारं विनयोदारम् ऊर्जितम् /
कान्तोपशान्तवपुषम् परस्यार्थस्य भाजनम् // ंओ_,१०.१६ //
"परस्यार्थस्य" मोक्षस्य ॥ ंओथ्_,१०.१६ ॥



समुद्यद्यौवनारम्भम् उद्योगशमशोभितम् /
अनुद्विग्नम् अनायासम् पूर्णप्रायमनोरथम् // ंओ_,१०.१७ //
स्पष्टम् ॥ ंओथ्_,१०.१७ ॥


विचारितजगद्यात्रम् पवित्रगुणगोचरम् /
महासत्त्वैकलोभेन गुणैर् इव समाश्रितम् // ंओ_,१०.१८ //
"महासत्त्वस्य" महाधैर्यस्य । यः "एको" "लोभः" । तत्सङ्गलोभः इति यावत् । तेन ॥ ंओथ्_,१०.१८ ॥



उदारसारम् आपूर्णम् अन्तःकरणकोटरम् /
अविक्षुभितया वृत्त्या दर्शयन्तम् अनुत्तमम् // ंओ_,१०.१९ //
रामम् पुनः कथम्भूतम् । ईदृश्या "वृत्त्या" ईदृशम् "अन्तःकरणं" "दर्शयन्तम्" इति सम्बन्धः । "आपूर्णम्" भोगान् प्रति अलौल्येन समन्तात् पूर्णम् ॥ ंओथ्_,१०.१९ ॥



श्रीरामविशेषणान्य् उपसंहरति
एवम् गुणगणाकीर्णो दूराद् एव रघूद्वहः /
परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः // ंओ_,१०.२० //
प्रणनाम चलच्चारुचूडामणिमरीचिना /
शिरसा वसुधाकम्पलोलमानाचलश्रिया // ंओ_,१०.२१ //
"परिमेयाः" परिमिताः । "सिताः" "अच्छाच्छाः" "स्वहाराम्बरपल्लवाः" यस्य । सः तादृशः । "शिरसा" कथम्भूतेन । "वसुधायां" यः "कम्पः" । तेन "लोलमानस्या-चलस्य" "श्रीः" यस्य । तत् । तादृशेन । युग्मम् ॥ ंओथ्_,१०.२०-२१ ॥



कान् प्रणनामेत्य् अपेक्षायाम् आह
प्रथमम् पितरम् पश्चान् मुनीन् मान्यैकम् आनतः /
ततो विप्रांस् ततो बन्धूंस् ततो ऽधिकगुणान् गुरून् // ंओ_,१०.२२ //
"पितरं" कथम्भूतं । मान्यानाम् मध्ये एकम् "मान्यैकम्" ॥ ंओथ्_,१०.२२ ॥


जग्राह चात्मना दृष्ट्वा मनाक् स्वादुगिरा तथा /
राजलोकेन विहितां स प्रणामपरस्पराम् // ंओ_,१०.२३ //
स्पष्टम् ॥ ंओथ्_,१०.२३ ॥


विहिताशीर् मुनिभ्यां तु रामः सशममानसः /
आससाद पितुः पुण्यं समीपं सुरसुन्दरः // ंओ_,१०.२४ //
"समीपं" निकटम् ॥ ंओथ्_,१०.२४ ॥


पादाभिवन्दनरतं तम् अथासौ महीपतिः /
शिरस्य् अभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः // ंओ_,१०.२५ //
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा /
आलिलिङ्ग घनस्नेहं राजहंसो ऽम्बुजं यथा // ंओ_,१०.२६ //
स्पष्टम् । युग्मम् ॥ ंओथ्_,१०.२५-२६ ॥



उत्सङ्गे वत्स तिष्ठेति वदत्य् अथ महीपतौ /
भूमौ परिजनास्तीर्णे सो ऽंशुके ऽथ न्यविक्षत // ंओ_,१०.२७ //
"न्यविक्षत" उपाविशत् । "अथ"शब्दद्वयं सम्बन्धिभेदेनानन्तर्यद्वयवाचकम् ॥ ंओथ्_,१०.२७ ॥


दशरथः कथयति
पुत्र प्राप्तविवेकस् त्वं कल्याणानां च भाजनम् /
जनवज् जीर्णया बुद्ध्या खेदायात्मा न दीयते // ंओ_,१०.२८ //
त्वया "न दीयते" न देय इत्य् अर्थः । "खेदाय्"एति सम्प्रदाने चतुर्थी ॥ ंओथ्_,१०.२८ ॥


वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता /
पदम् आसाद्यते पुण्यं न मोहम् अनुधावता // ंओ_,१०.२९ //
स्पष्टम् ॥ ंओथ्_,१०.२९ ॥


तावद् एवापदो दूरे तिष्ठन्ति परिपेलवाः /
यावद् एव न मोहस्य प्रसरः पुत्र दीयते // ंओ_,१०.३० //
स्पष्टम् ॥ ंओथ्_,१०.३० ॥


श्रीवसिष्ठः कथयति
राजपुत्र महाबाहो शूरस् त्वं विजितास् त्वया /
दुरुच्छेदा दुरारम्भा अप्य् अमी विषयारयः // ंओ_,१०.३१ //
स्पष्टम् ॥ ंओथ्_,१०.३१ ॥


किम् अतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे /
विनिमज्जसि कल्लोलगहने जाड्यशालिनि // ंओ_,१०.३२ //
स्पष्टम् ॥ ंओथ्_,१०.३२ ॥


विश्वामित्र आह
चलन्नीलोत्पलव्यूहसमलोचन लोलताम् /
ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि // ंओ_,१०.३३ //
हे "चलन्नीलोत्पलव्यूहसमलोचन "त्वं । "चेतःकृतां" "लोलतां" "त्यक्त्वा" "ब्रूहि" । कर्मापेक्षायां वाक्यं कर्मत्वेन कथयति "हेतुने"ति । त्वं किमर्थं "मुह्यसी"त्य् अर्थः ॥ ंओथ्_,१०.३३ ॥



किंनिष्ठाः कियता केन कियन्तः कारणेन ते /
आधयो नु विलुम्पन्ति मनो गेहम् इवाखवः // ंओ_,१०.३४ //
"ते" "कियन्तः" "आधयः" "किंनिष्ठाः" किंविषयाः सन्तः । "कियता" "केन" "कारणेन" "मनः" "नु" "विलुम्पन्ति" । के "इव" "आखव" "इव" । यथा "आखवः गेहं विलुम्पन्ति" । तथेत्य् अर्थः । "नु"शब्दः प्रश्नद्योतकः ॥ ंओथ्_,१०.३४ ॥


मन्ये नानुचितानां त्वम् आधीनाम् पदम् उत्तमः /
आपत्सु चाप्तो यो धीरो निर्जितास् तेन चाधयः // ंओ_,१०.३५ //
"आप्तः" विचारकारी । न ह्य् उचितस्य्"आनुचितपदत्वं" युक्तम् इति भावः ॥ ंओथ्_,१०.३५ ॥


यथाभिमतम् आशु त्वम् ब्रूहि प्राप्स्यसि चानघम् /
सर्वम् एव पुनर् येन तव भेत्स्यन्ति नाधयः // ंओ_,१०.३६ //
"येन" सर्वप्रापणेन ॥ ंओथ्_,१०.३६ ॥


विश्वामित्रवाक्यं सर्गान्तश्लोकेनोपसंहरति
इत्य् उक्तम् अस्य स मुने रघुवंशकेतुर्
आकर्ण्य वाक्यम् उचितार्थविलासगर्भम् /
तत्याज खेदम् अभिगर्जति वारिवाहे
बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः // ंओ_,१०.३७ //
"अभ्यनुमिता" गर्जनहेतुकेनानुमानेन ज्ञाता । "अभिमतार्थस्य सिद्धिः" यस्-य । स । इति शिवम् ॥ ंओथ्_,१०.३७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे दशमः सर्गः ॥ १,१० ॥



************************************************************************


इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः /
उवाच वचनं चारु धीरपूर्णार्थमन्थरम् // ंओ_,११.//
"धीरं" च तत् "पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥ ंओथ्_,११.१ ॥


इतः परं वैराग्यप्रकरणारम्भः ।

स्मृत्वा तत्त्वम् परमगहनं स्वस्वरूपाख्यम् आद्यं
स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर् धूलिपुञ्जम् प्रयत्नात् *
कृत्वा देवं शरणम् अनिशं विघ्नराजं च टीका
वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ **



समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर् वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यम् प्रकटीकरोति
भगवन् भवता पृष्टो यथावद् अधुना किल /
कथयाम्य् अहम् अज्ञो ऽपि को लङ्घयति सद्वचः // ंओ_,११.//
"भवते"ति कुलगुरुं वसिष्ठम् प्रत्य् उक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥ ंओथ्_,११.२ ॥



स्वयं कृताम् प्रतिज्ञां सम्पादयति
अहं तावद् अयं जातो निजे ऽस्मिन् पितृसद्मनि /
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः // ंओ_,११.//
"तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥ ंओथ्_,११.३ ॥



ततः सदाचारपरो भूत्वाहम् मुनिनायक /
विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम् // ंओ_,११.//
स्पष्टम् ॥ ंओथ्_,११.४ ॥



एतावताथ कालेन संसारास्थाम् इमाम् मम /
स्वविवेको जहारान्तर् ओघस् तटलताम् इव // ंओ_,११.//
"स्वविवेकः" को ऽहम् इति विचारः ॥ ंओथ्_,११.५ ॥


विवेकेन परीतात्मा तेनाहं तद् अनु स्वयम् /
भोगनीरसया बुद्ध्या प्रविचारितवान् इदम् // ंओ_,११.//
स्पष्टम् ॥ ंओथ्_,११.६ ॥


किं त्वया "प्रविचारितम्" इत्य् । अत्राह
किं नामेदं वत सुखं यो ऽयं संसारसंसृतिः /
जायते मृतये लोको म्रियते जननाय च // ंओ_,११.//
"वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्य् अर्थः । "इदं" किं । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" "मृतये" यत् "जायते" "जननाय" च यन् "म्रियते" ॥ ंओथ्_,११.७ ॥



मृतिजननरूपस्य संसरणस्य दुःखत्वम् उक्त्वा तदाश्रयभूतानाम् भावानां दुःखयुक्तत्वं कथयति
स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः /
आपदाम् पतयः पापा भावा विभवभूमयः // ंओ_,११.//
"सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे" ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वाद् इत्य् अर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥ ंओथ्_,११.८ ॥



ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनाद् इत्य् । अत्राह
अयःशलाकासदृशाः परस्परम् असङ्गिनः /
श्लिष्यन्ते केवलम् भावा मनःकल्पनया स्वया // ंओ_,११.//
अयम् मम पुत्रादिः अयम् मम पित्रादिर् इति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धो ऽस्ति । न तु परमार्थत इति भावः ॥ ंओथ्_,११.९ ॥



ननु मनसः कथम् एतावती शक्तिर् अस्तीत्य् । अत्राह
मनःसमायत्तम् इदं जगद् आभोगि दृश्यते /
मनश् चासद् इहाभाति केन स्मः परिमोहिताः // ंओ_,११.१० //
"आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥ ंओथ्_,११.१० ॥


असतैव वयं कष्टं विक्रीता मूढबुद्धयः /
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव // ंओ_,११.११ //
"असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥ ंओथ्_,११.११ ॥



न केनचिच् च विक्रीता विक्रीता इव संस्थिताः /
वत मूढा वयं सर्वे जनाना अपि शम्बरम् // ंओ_,११.१२ //
"शम्बरम्" मायाम् ॥ ंओथ्_,११.१२ ॥


किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः /
मुधैव हि वयम् मोहात् संस्थिता बद्धभावनाः // ंओ_,११.१३ //
"एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात् न किञ्चिद् अपि भवन्तीत्य् अर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥ ंओथ्_,११.१३ ॥


अज्ञाते बहुकालेन व्यर्थ एव वयं घने /
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव // ंओ_,११.१४ //
"मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥ ंओथ्_,११.१४ ॥

किम् मे राज्येन किम् भोगैः को ऽहं किम् इदम् आगतम् /
यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम् // ंओ_,११.१५ //
[भ्ह्घ् ई ३२च्द्]
"यत् मिथ्या" भवति "तत् मिथ्यैवास्तु" इति सम्बन्धः ॥ ंओथ्_,११.१५ ॥


अवान्तरम् उपसंहारं करोति
एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम /
भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव // ंओ_,११.१६ //
स्पष्टम् ॥ ंओथ्_,११.१६ ॥


स्वाभिमतम् आविष्करोति
तद् एतद् भगवन् ब्रूहि किम् इदम् परिनश्यति /
किम् इदं जायते भूयः किम् इदम् परिवर्धते // ंओ_,११.१७ //
"किम्" इति कथम् इत्य् अस्यार्थे ॥ ंओथ्_,११.१७ ॥


जरामरणम् आपच् च जननं सम्पदस् तथा /
आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः // ंओ_,११.१८ //
भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥ ंओथ्_,११.१८ ॥



भावैस् तैर् एव तैर् एव तुच्छैर