श्वेताश्वतर ऊपनिषद् औं । सह नाव् अवतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नाव् अधीतम् अस्तु । मा विद्विषावहै । औं शान्तिः शान्तिः शान्तिः प्रथमो’ध्यायः हरिः ओं ब्रह्म-वादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्म-विदो व्यवस्थाम् ॥१॥ कालः स्वभावो नियतिर् यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्व् आत्म-भावाद् आत्माप्य् अनीशः सुख-दुःख-हेतोः ॥२॥ ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् निगूढाम् । यः कारणानि निखिलानि तानि कालात्म-युक्तान्य् अधितिष्ठत्य् एकः ॥३॥ तम् एक-नेमिं त्रि-वृतं षोडशान्तं शतार्धारं विंशति-प्रत्यराभिः । अष्टकैः षड्भिर् विश्व-रूपैक-पाशं त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् ॥४॥ पञ्च-स्रोतो’म्बुं पञ्च-योन्य्-उग्र-वक्रां पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम् । पञ्चावर्तां पञ्च-दुःखौघ-वेगां पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः ॥५॥ सर्वाजीवे सर्व-संस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति ॥६॥ उद्गीतम् एतत् परमं तु ब्रह्म तस्मिंस् त्रयं सुप्रतिष्ठा’क्षरं च । अत्रान्तरं ब्रह्म-विदो विदित्वा लीना ब्रह्मणि तत्-परा योनि-मुक्ताः ॥७॥ संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः । अनीशश् चात्मा बध्यते भोक्तृ-भावाज् ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥८॥ ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता । अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता त्रयं यदा विन्दते ब्रह्मम् एतत् ॥९॥ क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः । तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् भूयश् चान्ते विश्व-माया-निवृत्तिः ॥१०॥ ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः । तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥११॥ एतज् ज्ञेयं नित्यम् एवात्म-संस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ॥१२॥ वह्नेर् यथा योनि-गतस्य मूर्तिर् न दृश्यते नैव च लिङ्ग-नाशः । स भूय एवेन्धन-योनि-गृह्यस् तद् वोभयं वै प्रणवेन देहे ॥१३॥ स्व-देहम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्यान-निर्मथनाभ्यासाद् देवं पश्यन् निगूढवत् ॥१४॥ तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः । एवम् आत्मा’त्मनि गृह्यते’सौ सत्येनैनं तपसा यो’नुपश्यति ॥१५॥ सर्व-व्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम् । आत्म-विद्या-तपो-मूलं तद् ब्रह्मोपनिषत् परम् ॥१६॥ तद् ब्रह्मोपनिषत् परम् ॥ इति प्रथमोऽध्यायः ॥१॥ * * * * * (२) द्वितीयो’ध्यायः युञ्जानः प्रथमं मनस्-तत्त्वाय सविता धियः । अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्याभरत् ॥१॥१ युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या ॥२॥२ युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥३॥३ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन्मही देवस्य सवितुः परिष्टुतिः ॥४॥४ युजे वां ब्रह्म पूर्व्यं नमोभिर् विश्लोक एतु पथ्य् एव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥५॥५ अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥६॥ सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । यत्र योनिं कृणवसे न हि ते पूर्वम् अक्षिपत् ॥७॥ त्रिर् उन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ॥८॥ प्राणान् प्रपीड्येह संयुक्त-चेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्व-युक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः ॥९॥ समे शुचौ शर्करा-वह्नि-बालुका- विवर्जिते शब्द-जलाश्रयादिभिः । मनो’नुकूले न तु चक्षु-पीडने गुहा-निवाताश्रयणे प्रयोजयेत् ॥१०॥ नीहार-धूमार्कानिलानलानां खद्योत-विद्युत्-स्फटिक-शशीनाम् । एतानि रूपाणि पुरः-सराणि ब्रह्मण्य् अभिव्यक्ति-कराणि योगे ॥११॥ पृथिव्य्-अप्-तेजो’निल-खे समुत्थिते पञ्चात्मके योग-गुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्नि-मयं शरीरम् ॥१२॥ लघुत्वम् आरोग्यम् अलोलुपत्वं वर्ण-प्रसादं स्वर-सौष्ठवं च । गन्धः शुभो मूत्र-पुरीषम् अल्पं योग-प्रवृत्तिं प्रथमां वदन्ति ॥१३॥ यथैव बिम्बं मृदयोपलिप्तं तेजो-मयं भ्राजते तत् सुधान्तम् । तद् वात्म-तत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीत-शोकः ॥१४॥ यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१५॥ एष ह देवः प्रदिशो’नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः ॥१६॥ यो देवो अग्नौ यो’प्सु यो विश्वं भुवनम् आविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥१७॥ इति द्वितीयोऽध्यायः ॥२॥ * * * * * (३) तृतीयो’ध्यायः य एको जालवान् ईशत ईशनीभिः सर्वांल् लोकान् ईशत ईशनीभिः । य एवैक उद्भवे सम्भवे च य एतद् विदुर् अमृतास् ते भवन्ति ॥१॥ एको हि रुद्रो न द्वितीयाय तस्थुर् य इमांल् लोकान् ईशत ईशनीभिः । प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले संसृज्य विश्वा भुवनानि गोपाः ॥२॥ विश्वतश् चक्षुर् उत विश्वतो-मुखो विश्वतो-बाहुर् उत विश्वतस्-पात् । सं६ बाहुभ्यां धमति सम्पतत्रैर् द्याव्-आभूमी जनयन् देव एकः ॥३॥७ यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥४॥ या ते रुद्र शिवा तनूर् अघोरा’पाप-काशिनी । तया नस् तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥५॥८ याभिषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥६॥९ ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्व-भूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वा’मृता भवन्ति ॥७॥ वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते’यनाय ॥८॥१० यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो’स्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥९॥ ततो यद् उत्तरतरं तद् अरूपम् अनामयम् । य एतद् विदुर् अमृतास्ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥१०॥ सर्वानन-शिरो-ग्रीवः सर्व-भूत-गुहाशयः । सर्व-व्यापी स भगवांस् तस्मात् सर्व-गतः शिवः ॥११॥ महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः । सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥१२॥ अङ्गुष्ठ-मात्रः पुरुषो’न्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषो११ मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥१३॥ सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् । स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ॥१४॥ पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥१५॥१२ सर्वतः पाणि-पादं तत् सर्वतो’क्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१६॥ सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं बृहत्१३ ॥१७॥ नव-द्वारे पुरे देही हंसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥१८॥ अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥१९॥ अणोर् अणीयान् महतो महीयान् आत्मा गुहायां निहितो’स्य जन्तोः । तम् अक्रतुः पश्यति वीत-शोको धातुः प्रसादान् महिमानम् ईशम् ॥२०॥१४ वेदाहम् एतम् अजरं पुराणं सर्वात्मानं सर्व-गतं विभुत्वात् । जन्म-निरोधं प्रवदन्ति यस्य ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् ॥२१॥ इति त्.र्तीयोऽध्यायः ॥३॥ * * * * * (४) चतुर्थो’ध्यायः य एको’वर्णो बहुधा शक्ति-योगाद् वरणान् अनेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ॥१॥ तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः । तद् एव शुक्रं तद् ब्रह्म तद् आपस् तत् प्रजापतिः ॥२॥१५ त्वं स्त्री पुमान् असि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतो-मुखः ॥३॥१६ नीलः पतङ्गो हरितो लोहिताक्षस् तडिद्-गर्भ ऋतवः समुद्राः । अनादिमत् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥४॥ अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां स-रूपाः । अजो ह्य् एको जुषमाणो’नुशेते जहात्य् एनां भुक्त-भोगाम् अजो’न्यः ॥५॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥६॥१७ समाने वृक्षे पुरुषो निमग्नो’ नीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥७॥ ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस् तं न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे समासते ॥८॥१८ छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच् च वेदा वदन्ति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः ॥९॥ मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरम् । तस्यावयव-भूतैस् तु व्याप्तं सर्वम् इदं जगत् ॥१०॥ यो योनिं योनिम् अधितिष्ठत्य् एको यस्मिन्न् इदम् सं च विचैति सर्वम् । तम् ईशानं वरदं देवम् ईड्यं निचाय्येमां शान्तिम् अत्यन्तम् एति ॥११॥ यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥१२॥ यो देवानाम् अधिपो यस्मिन् लोका अधिश्रिताः । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥१३॥ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेक-रूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति ॥१४॥१९ स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्व-भूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च तम् एवं ज्ञात्वा मृत्यु-पाशांश् छिनत्ति ॥१५॥ घृतात् परं मण्डम् इवातिसूक्ष्मं ज्ञात्वा शिवं सर्व-भूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१६॥ एष देवो विश्व-कर्मा महात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥१७॥ यदा’तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः । तद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥ नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥१९॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा हृदि-स्थं मनसा य एनम् एवं विदुर् अमृतास्ते भवन्ति ॥२०॥ अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते । रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥२१॥ मा नस् तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदामित् त्वा हवामहे ॥२२॥इ इति चतुर्थोऽध्यायः ॥४॥ * * * * * (५) पञ्चमो’ध्यायः द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या विद्याविद्ये ईशते यस् तु सो’न्यः ॥१॥ यो योनिं योनिम् अधितिष्ठत्य् एको विश्वानि रूपाणि योनीश् च सर्वाः । ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति जायमानं च पश्येत् ॥२॥ एकैक-जालं बहुधा विकुर्वन्न् अस्मिन् क्षेत्रे संहरत्य् एष देवः । भूयः सृष्ट्वा पतयस् तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥३॥ सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद् व् अनड्वान् । एवं स देवो भगवान् वरेण्यो योनि-स्वभावान् अधितिष्ठत्य् एकः ॥४॥ यच् च स्वभावं पचति विश्व-योनिः पाच्यांश् च सर्वान् परिणामयेद् यः । सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको गुणांश् च सर्वान् विनियोजयेद् यः ॥५॥ तद् वेद-गुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म-योनिम् । ये पूर्वं देवा ऋषयश् च तद् विदुस् ते तन्-मया अमृता वै बभूवुः ॥६॥ गुणान्वयो यः फल-कर्म-कर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा प्राणाधिपः सञ्चरति स्व-कर्मभिः ॥७॥ अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः सङ्कल्पाहङ्कार-समन्वितो यः । बुद्धेर् गुणेनात्म-गुणेन चैव आराग्र-मात्रो’प्य् अपरो’पि दृष्टः ॥८॥ बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥९॥ नैव स्त्री न पुमान् एष न चैवायं नपुंसकः । यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते ॥१०॥ सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर् ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म । कर्मानुगान्य् अनुक्रमेण देही स्थानेषु रूपाण्य् अभिसम्प्रपद्यते ॥११॥ स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्व-गुणैर् वृणोति । क्रिया-गुणैर् आत्म-गुणैश् च तेषां संयोग-हेतुर् अपरो’पि दृष्टः ॥१२॥ अनाद्य्-अनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेक-रूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१३॥ भाव-ग्राह्यम् अनीडाख्यं भावाभाव-करं शिवम् । कला-सर्ग-करं देवं ये विदुस् ते जहुस् तनुम् ॥१४॥ इति पञ्चमोऽध्यायः ॥५॥ * * * * * (६) षष्ठो’ध्यायः स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्म-चक्रम् ॥१॥ येनावृतं नित्यम् इदं हि सर्वं ज्ञः काल-कालो गुणी सर्व-विद् यः । तेनेशितं कर्म विवर्तते ह पृथिव्य्-अप्-तेजो’निल-खानि चिन्त्यम् ॥२॥ तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्म-गुणैश् च सूक्ष्मैः ॥३॥ आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः । तेषाम् अभावे कृत-कर्म-नाशः कर्म-क्षये याति स तत्त्वतो’न्यः ॥४॥ आदिः स संयोग-निमित्त-हेतुः परस् त्रिकालाद् अकलो’पि दृष्टः । तं विश्व-रूपं भव-भूतम् ईड्यं देवं स्व-चित्त-स्थम् उपास्य पूर्वम् ॥५॥ स वृक्ष-कालाकृतिभिः परो’न्यो यस्मात् प्रपञ्चः परिवर्तते’यम् । धर्मावहं पाप-नुदं भगेशं ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम ॥६॥ तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥७॥ न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥८॥ न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गम् स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥९॥ यस् तन्तु-नाभ इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः स्वम् आवृणोति स नो दधातु ब्रह्माप्ययम् ॥१०॥ एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥११॥ एको वशी निष्क्रियाणां बहूनाम् एकं बीजं बहुधा यः करोति । तम् आत्म-स्थं ये’नुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥ नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तत् कारणं साङ्ख्य-योगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१३॥ न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो’यम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥१४॥ एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते’यनाय ॥१५॥ स विश्व-कृद् विश्व-विद् आत्म-योनिर् ज्ञः काल-कालो गुणी सर्व-विद् यः । प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥१६॥ स तन्-मयो ह्य् अमृत ईश-संस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे’स्य जगतो नित्यम् एव नान्यो हेतुर् विद्यत ईशनाय ॥१७॥ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै । तं ह देवं आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥१८॥ निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्दनम् इवानलम् ॥१९॥ यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः । तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति ॥२०॥ तपः-प्रभावाद् देव-प्रसादाच् च ब्रह्म ह श्वेताश्वतरो’थ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् ॥२१॥ वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥२२॥ यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥२३॥ ओं सह नाव् अवतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्वि नावधीतम् अस्तु मा विद्विषावहै ओं शान्तिः शान्तिः शान्तिः इति षष्ठो’ध्यायः ॥ इति श्वेताश्वतरोपनिषत् सम्पूर्णा ॥ * * * * *