श्वेताश्वतर ऊपनिषद्


औं । सह नाव् अवतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्वि नाव् अधीतम् अस्तु । मा विद्विषावहै ।

औं शान्तिः शान्तिः शान्तिः

प्रथमो’ध्यायः

हरिः ओं ब्रह्म-वादिनो वदन्ति

किं कारणं ब्रह्म कुतः स्म जाता
जीवाम केन क्व च संप्रतिष्ठाः ।
अधिष्ठिताः केन सुखेतरेषु
वर्तामहे ब्रह्म-विदो व्यवस्थाम् ॥१॥

कालः स्वभावो नियतिर् यदृच्छा
भूतानि योनिः पुरुष इति चिन्त्या ।
संयोग एषां न त्व् आत्म-भावाद्
आत्माप्य् अनीशः सुख-दुःख-हेतोः ॥२॥

ते ध्यान-योगानुगता अपश्यन्
देवात्म-शक्तिं स्व-गुणैर् निगूढाम् ।
यः कारणानि निखिलानि तानि
कालात्म-युक्तान्य् अधितिष्ठत्य् एकः ॥३॥

तम् एक-नेमिं त्रि-वृतं षोडशान्तं
शतार्धारं विंशति-प्रत्यराभिः ।
अष्टकैः षड्भिर् विश्व-रूपैक-पाशं
त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् ॥४॥

पञ्च-स्रोतो’म्बुं पञ्च-योन्य्-उग्र-वक्रां
पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम् ।
पञ्चावर्तां पञ्च-दुःखौघ-वेगां
पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः ॥५॥

सर्वाजीवे सर्व-संस्थे बृहन्ते
अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे ।
पृथग् आत्मानं प्रेरितारं च मत्वा
जुष्टस् ततस् तेनामृतत्वम् एति ॥६॥

उद्गीतम् एतत् परमं तु ब्रह्म
तस्मिंस् त्रयं सुप्रतिष्ठा’क्षरं च ।
अत्रान्तरं ब्रह्म-विदो विदित्वा
लीना ब्रह्मणि तत्-परा योनि-मुक्ताः ॥७॥

संयुक्तम् एतत् क्षरम् अक्षरं च
व्यक्ताव्यक्तं भरते विश्वम् ईशः ।
अनीशश् चात्मा बध्यते भोक्तृ-भावाज् 
ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥८॥

ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् 
अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता ।
अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता
त्रयं यदा विन्दते ब्रह्मम् एतत् ॥९॥

क्षरं प्रधानम् अमृताक्षरं हरः
क्षरात्मानाव् ईशते देव एकः ।
तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् 
भूयश् चान्ते विश्व-माया-निवृत्तिः ॥१०॥

ज्ञात्वा देवं सर्व-पाशापहानिः
क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः ।
तस्याभिध्यानात् तृतीयं देह-भेदे
विश्वैश्वर्यं केवल आप्त-कामः ॥११॥

एतज् ज्ञेयं नित्यम् एवात्म-संस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ॥१२॥

वह्नेर् यथा योनि-गतस्य मूर्तिर्
न दृश्यते नैव च लिङ्ग-नाशः ।
स भूय एवेन्धन-योनि-गृह्यस्
तद् वोभयं वै प्रणवेन देहे ॥१३॥

स्व-देहम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्यान-निर्मथनाभ्यासाद् देवं पश्यन् निगूढवत् ॥१४॥

तिलेषु तैलं दधनीव सर्पिर्
आपः स्रोतःस्व् अरणीषु चाग्निः ।
एवम् आत्मा’त्मनि गृह्यते’सौ
सत्येनैनं तपसा यो’नुपश्यति ॥१५॥

सर्व-व्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम् ।
आत्म-विद्या-तपो-मूलं तद् ब्रह्मोपनिषत् परम् ॥१६॥

तद् ब्रह्मोपनिषत् परम् ॥

इति प्रथमोऽध्यायः 
॥१॥

* * * * * 
()
द्वितीयो’ध्यायः

युञ्जानः प्रथमं मनस्-तत्त्वाय सविता धियः ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्याभरत् ॥१॥१

युक्तेन मनसा वयं देवस्य सवितुः सवे ।
सुवर्गेयाय शक्त्या ॥२॥२

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥३॥३

युञ्जते मन उत युञ्जते धियो
विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक
इन्मही देवस्य सवितुः परिष्टुतिः ॥४॥४

युजे वां ब्रह्म पूर्व्यं नमोभिर् 
विश्लोक एतु पथ्य् एव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा 
आ ये धामानि दिव्यानि तस्थुः ॥५॥५

अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते ।
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥६॥

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् ।
यत्र योनिं कृणवसे न हि ते पूर्वम् अक्षिपत् ॥७॥

त्रिर् उन्नतं स्थाप्य समं शरीरं
हृदीन्द्रियाणि मनसा सन्निवेश्य ।
ब्रह्मोडुपेन प्रतरेत विद्वान्
स्रोतांसि सर्वाणि भयावहानि ॥८॥

प्राणान् प्रपीड्येह संयुक्त-चेष्टः
क्षीणे प्राणे नासिकयोच्छ्वसीत ।
दुष्टाश्व-युक्तम् इव वाहम् एनं
विद्वान् मनो धारयेताप्रमत्तः ॥९॥

समे शुचौ शर्करा-वह्नि-बालुका-
विवर्जिते शब्द-जलाश्रयादिभिः ।
मनो’नुकूले न तु चक्षु-पीडने
गुहा-निवाताश्रयणे प्रयोजयेत् ॥१०॥

नीहार-धूमार्कानिलानलानां
खद्योत-विद्युत्-स्फटिक-शशीनाम् ।
एतानि रूपाणि पुरः-सराणि
ब्रह्मण्य् अभिव्यक्ति-कराणि योगे ॥११॥

पृथिव्य्-अप्-तेजो’निल-खे समुत्थिते
पञ्चात्मके योग-गुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः
प्राप्तस्य योगाग्नि-मयं शरीरम् ॥१२॥

लघुत्वम् आरोग्यम् अलोलुपत्वं
वर्ण-प्रसादं स्वर-सौष्ठवं च ।
गन्धः शुभो मूत्र-पुरीषम् अल्पं
योग-प्रवृत्तिं प्रथमां वदन्ति ॥१३॥

यथैव बिम्बं मृदयोपलिप्तं
तेजो-मयं भ्राजते तत् सुधान्तम् ।
तद् वात्म-तत्त्वं प्रसमीक्ष्य देही
एकः कृतार्थो भवते वीत-शोकः ॥१४॥

यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं
दीपोपमेनेह युक्तः प्रपश्येत् ।
अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं
ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१५॥

एष ह देवः प्रदिशो’नु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः
प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः ॥१६॥

यो देवो अग्नौ यो’प्सु
यो विश्वं भुवनम् आविवेश ।
य ओषधीषु यो वनस्पतिषु
तस्मै देवाय नमो नमः ॥१७॥

इति द्वितीयोऽध्यायः 
॥२॥

* * * * * 

()
तृतीयो’ध्यायः

य एको जालवान् ईशत ईशनीभिः
सर्वांल् लोकान् ईशत ईशनीभिः ।
य एवैक उद्भवे सम्भवे च
य एतद् विदुर् अमृतास् ते भवन्ति ॥१॥

एको हि रुद्रो न द्वितीयाय तस्थुर्
य इमांल् लोकान् ईशत ईशनीभिः ।
प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले
संसृज्य विश्वा भुवनानि गोपाः ॥२॥

विश्वतश् चक्षुर् उत विश्वतो-मुखो
विश्वतो-बाहुर् उत विश्वतस्-पात् ।
सं६ बाहुभ्यां धमति सम्पतत्रैर्
द्याव्-आभूमी जनयन् देव एकः ॥३॥७

यो देवानां प्रभवश् चोद्भवश् च
विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं
स नो बुद्ध्या शुभया संयुनक्तु ॥४॥

या ते रुद्र शिवा तनूर् अघोरा’पाप-काशिनी ।
तया नस् तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥५॥८

याभिषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥६॥९

ततः परं ब्रह्म परं बृहन्तं
यथानिकायं सर्व-भूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारम्
ईशं तं ज्ञात्वा’मृता भवन्ति ॥७॥

वेदाहम् एतं पुरुषं महान्तम्
आदित्य-वर्णं तमसः परस्तात् ।
तम् एव विदित्वातिमृत्युम् एति
नान्यः पन्था विद्यते’यनाय ॥८॥१०

यस्मात् परं नापरम् अस्ति किंचिद्
यस्मान् नाणीयो न ज्यायो’स्ति कश्चित्  ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस्
तेनेदं पूर्णं पुरुषेण सर्वम् ॥९॥

ततो यद् उत्तरतरं तद् अरूपम् अनामयम्  ।
य एतद् विदुर् अमृतास्ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥१०॥

सर्वानन-शिरो-ग्रीवः सर्व-भूत-गुहाशयः ।
सर्व-व्यापी स भगवांस् तस्मात् सर्व-गतः शिवः ॥११॥

महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।
सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥१२॥

अङ्गुष्ठ-मात्रः पुरुषो’न्तरात्मा
सदा जनानां हृदये सन्निविष्टः ।
हृदा मनीषो११ मनसाभिकॢप्तो
य एतद् विदुर् अमृतास् ते भवन्ति ॥१३॥

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम् ॥१४॥

पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् ।
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥१५॥१२

सर्वतः पाणि-पादं तत् सर्वतो’क्षि-शिरो-मुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१६॥

सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् ।
सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं बृहत्१३ ॥१७॥

नव-द्वारे पुरे देही हंसो लेलायते बहिः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥१८॥

अपाणि-पादो जवनो ग्रहीता
पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥१९॥

अणोर् अणीयान् महतो महीयान्
आत्मा गुहायां निहितो’स्य जन्तोः ।
तम् अक्रतुः पश्यति वीत-शोको
धातुः प्रसादान् महिमानम् ईशम् ॥२०॥१४

वेदाहम् एतम् अजरं पुराणं
सर्वात्मानं सर्व-गतं विभुत्वात् ।
जन्म-निरोधं प्रवदन्ति यस्य
ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् ॥२१॥

इति त्.र्तीयोऽध्यायः 
॥३॥

* * * * * 

()
चतुर्थो’ध्यायः

य एको’वर्णो बहुधा शक्ति-योगाद्
वरणान् अनेकान् निहितार्थो दधाति ।
वि चैति चान्ते विश्वम् आदौ स देवः
स नो बुद्ध्या शुभया संयुनक्तु ॥१॥

तद् एवाग्निस् तद् आदित्यस्
तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म
तद् आपस् तत् प्रजापतिः ॥२॥१५

त्वं स्त्री पुमान् असि
त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि
त्वं जातो भवसि विश्वतो-मुखः ॥३॥१६

नीलः पतङ्गो हरितो लोहिताक्षस्
तडिद्-गर्भ ऋतवः समुद्राः ।
अनादिमत् त्वं विभुत्वेन वर्तसे
यतो जातानि भुवनानि विश्वा ॥४॥

अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणो’नुशेते
जहात्य् एनां भुक्त-भोगाम् अजो’न्यः ॥५॥

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभिचाकशीति ॥६॥१७

समाने वृक्षे पुरुषो निमग्नो’
नीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्य् अन्यम् ईशम् 
अस्य महिमानम् इति वीत-शोकः ॥७॥

ऋचो अक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तं न वेद किम् ऋचा करिष्यति
य इत् तद् विदुस् त इमे समासते ॥८॥१८

छन्दांसि यज्ञाः क्रतवो व्रतानि
भूतं भव्यं यच् च वेदा वदन्ति ।
अस्मान् मायी सृजते विश्वम् एतत्
तस्मिंश् चान्यो मायया सन्निरुद्धः ॥९॥

मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरम् ।
तस्यावयव-भूतैस् तु व्याप्तं सर्वम् इदं जगत् ॥१०॥

यो योनिं योनिम् अधितिष्ठत्य् एको
यस्मिन्न् इदम् सं च विचैति सर्वम् ।
तम् ईशानं वरदं देवम् ईड्यं
निचाय्येमां शान्तिम् अत्यन्तम् एति ॥११॥

यो देवानां प्रभवश् चोद्भवश् च
विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु ॥१२॥

यो देवानाम् अधिपो
यस्मिन् लोका अधिश्रिताः ।
य ईशे अस्य द्विपदश् चतुष्पदः
कस्मै देवाय हविषा विधेम ॥१३॥

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारम् अनेक-रूपम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति ॥१४॥१९

स एव काले भुवनस्य गोप्ता
विश्वाधिपः सर्व-भूतेषु गूढः ।
यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च
तम् एवं ज्ञात्वा मृत्यु-पाशांश् छिनत्ति ॥१५॥

घृतात् परं मण्डम् इवातिसूक्ष्मं
ज्ञात्वा शिवं सर्व-भूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१६॥

एष देवो विश्व-कर्मा महात्मा
सदा जनानां हृदये संनिविष्टः ।
हृदा मनीषा मनसाभिकॢप्तो
य एतद् विदुर् अमृतास् ते भवन्ति ॥१७॥

यदा’तमस् तन् न दिवा न रात्रिर्
न सन् न चासच् छिव एव केवलः ।
तद् अक्षरं तत् सवितुर् वरेण्यं
प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥

नैनम् ऊर्ध्वं न तिर्यञ्चं
न मध्ये न परिजग्रभत् ।
न तस्य प्रतिमा अस्ति
यस्य नाम महद् यशः ॥१९॥

न संदृशे तिष्ठति रूपम् अस्य
न चक्षुषा पश्यति कश्चनैनम् ।
हृदा हृदि-स्थं मनसा य एनम्
एवं विदुर् अमृतास्ते भवन्ति ॥२०॥

अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते ।
रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥२१॥

मा नस् तोके तनये मा न आयुषि
मा नो गोषु मा न अश्वेषु रीरिषः ।
वीरान् मा नो रुद्र भामितो
वधीर् हविष्मन्तः सदामित् त्वा हवामहे ॥२२॥इ

इति चतुर्थोऽध्यायः 
॥४॥

* * * * * 

()
पञ्चमो’ध्यायः

द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते
विद्याविद्ये निहिते यत्र गूढे ।
क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या
विद्याविद्ये ईशते यस् तु सो’न्यः ॥१॥

यो योनिं योनिम् अधितिष्ठत्य् एको
विश्वानि रूपाणि योनीश् च सर्वाः ।
ऋषिं प्रसूतं कपिलं यस् तम् अग्रे
ज्ञानैर् बिभर्ति जायमानं च पश्येत् ॥२॥

एकैक-जालं बहुधा विकुर्वन्न्
अस्मिन् क्षेत्रे संहरत्य् एष देवः ।
भूयः सृष्ट्वा पतयस् तथेशः
सर्वाधिपत्यं कुरुते महात्मा ॥३॥

सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक्
प्रकाशयन् भ्राजते यद् व् अनड्वान् ।
एवं स देवो भगवान् वरेण्यो
योनि-स्वभावान् अधितिष्ठत्य् एकः ॥४॥

यच् च स्वभावं पचति विश्व-योनिः
पाच्यांश् च सर्वान् परिणामयेद् यः ।
सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको
गुणांश् च सर्वान् विनियोजयेद् यः ॥५॥

तद् वेद-गुह्योपनिषत्सु गूढं
तद् ब्रह्मा वेदते ब्रह्म-योनिम् ।
ये पूर्वं देवा ऋषयश् च तद् विदुस्
ते तन्-मया अमृता वै बभूवुः ॥६॥

गुणान्वयो यः फल-कर्म-कर्ता
कृतस्य तस्यैव स चोपभोक्ता ।
स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा
प्राणाधिपः सञ्चरति स्व-कर्मभिः ॥७॥

अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः
सङ्कल्पाहङ्कार-समन्वितो यः ।
बुद्धेर् गुणेनात्म-गुणेन चैव
आराग्र-मात्रो’प्य् अपरो’पि दृष्टः ॥८॥

बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥९॥

नैव स्त्री न पुमान् एष न चैवायं नपुंसकः ।
यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते ॥१०॥

सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर्
ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म ।
कर्मानुगान्य् अनुक्रमेण देही
स्थानेषु रूपाण्य् अभिसम्प्रपद्यते ॥११॥

स्थूलानि सूक्ष्माणि बहूनि चैव
रूपाणि देही स्व-गुणैर् वृणोति ।
क्रिया-गुणैर् आत्म-गुणैश् च तेषां
संयोग-हेतुर् अपरो’पि दृष्टः ॥१२॥

अनाद्य्-अनन्तं कलिलस्य मध्ये
विश्वस्य स्रष्टारम् अनेक-रूपम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१३॥

भाव-ग्राह्यम् अनीडाख्यं भावाभाव-करं शिवम् ।
कला-सर्ग-करं देवं ये विदुस् ते जहुस् तनुम् ॥१४॥

इति पञ्चमोऽध्यायः 
॥५॥

* * * * * 

()
षष्ठो’ध्यायः

स्वभावम् एके कवयो वदन्ति
कालं तथान्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके
येनेदं भ्राम्यते ब्रह्म-चक्रम् ॥१॥

येनावृतं नित्यम् इदं हि सर्वं 
ज्ञः काल-कालो गुणी सर्व-विद् यः ।
तेनेशितं कर्म विवर्तते ह
पृथिव्य्-अप्-तेजो’निल-खानि चिन्त्यम् ॥२॥

तत् कर्म कृत्वा विनिवर्त्य भूयस्
तत्त्वस्य तत्त्वेन समेत्य योगम् ।
एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा
कालेन चैवात्म-गुणैश् च सूक्ष्मैः ॥३॥

आरभ्य कर्माणि गुणान्वितानि
भावांश् च सर्वान् विनियोजयेद् यः ।
तेषाम् अभावे कृत-कर्म-नाशः
कर्म-क्षये याति स तत्त्वतो’न्यः ॥४॥

आदिः स संयोग-निमित्त-हेतुः
परस् त्रिकालाद् अकलो’पि दृष्टः ।
तं विश्व-रूपं भव-भूतम् ईड्यं
देवं स्व-चित्त-स्थम् उपास्य पूर्वम् ॥५॥

स वृक्ष-कालाकृतिभिः परो’न्यो
यस्मात् प्रपञ्चः परिवर्तते’यम् ।
धर्मावहं पाप-नुदं भगेशं
ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम ॥६॥

तम् ईश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशम् ईड्यम् ॥७॥

न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥८॥

न तस्य कश्चित् पतिर् अस्ति लोके
न चेशिता नैव च तस्य लिङ्गम्
स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः ॥९॥

यस् तन्तु-नाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।
देव एकः स्वम् आवृणोति स नो दधातु ब्रह्माप्ययम् ॥१०॥

एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥११॥

एको वशी निष्क्रियाणां बहूनाम्
एकं बीजं बहुधा यः करोति ।
तम् आत्म-स्थं ये’नुपश्यन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥

नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तत् कारणं साङ्ख्य-योगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥१३॥

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो’यम् अग्निः ।
तम् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति ॥१४॥

एको हंसो भुवनस्यास्य मध्ये
स एवाग्निः सलिले संनिविष्टः
तम् एव विदित्वातिमृत्युम् एति
नान्यः पन्था विद्यते’यनाय ॥१५॥

स विश्व-कृद् विश्व-विद् आत्म-योनिर्
ज्ञः काल-कालो गुणी सर्व-विद् यः ।
प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः
संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥१६॥

स तन्-मयो ह्य् अमृत ईश-संस्थो
ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।
य ईशे’स्य जगतो नित्यम् एव
नान्यो हेतुर् विद्यत ईशनाय ॥१७॥

यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवं आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥१८॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुं दग्धेन्दनम् इवानलम् ॥१९॥

यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति ॥२०॥

तपः-प्रभावाद् देव-प्रसादाच् च
ब्रह्म ह श्वेताश्वतरो’थ विद्वान् ।
अत्याश्रमिभ्यः परमं पवित्रं
प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् ॥२१॥

वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥२२॥

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥२३॥

ओं सह नाव् अवतु सह नौ भुनक्तु सह वीर्यं करवावहै
तेजस्वि नावधीतम् अस्तु मा विद्विषावहै

ओं शान्तिः शान्तिः शान्तिः

इति षष्ठो’ध्यायः

॥ इति श्वेताश्वतरोपनिषत् सम्पूर्णा ॥

* * * * *