| 1 [ज] एवं निपतिते कर्णे समरे सव्यसाचिना अल्पावशिष्टाः कुरवः किमकुर्वत वै थविज 2 उथीर्यमाणं च बलं थृष्ट्वा राजा सुयॊधनः पाण्डवैः पराप्तकालं च किं परापथ्यत कौरवः 3 एतथ इच्छाम्य अहं शरॊतुं तथ आचक्ष्व थविजॊत्तम न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत 4 [वै] ततः कर्णे हते राजन धार्तराष्ट्रः सुयॊधनः भृशं शॊकार्णवे मग्नॊ निराशः सर्वतॊ ऽभवत 5 हा कर्ण हा कर्ण इति शॊचमानः पुनः पुनः कृच्छ्रात सवशिबिरं परायाथ धतशेषैर नृपैः सह 6 स समाश्वास्यमानॊ ऽपि हेतुभिः शास्त्रनिश्चितैः राजभिर नालभच छर्म सूतपुत्र वधं समरन 7 स थिवं बलवन मत्वा भवितव्यं च पार्दिवः संग्रामे निश्चयं कृत्वा पुनर युथ्धाय निर्ययौ 8 शल्यं सेनापतिं कृत्वा विधिवथ राजपुंगवः रणायनिर्ययौ राजा हतशेषैर नृपैः सह 9 ततः सुतुमुलं युथ्धं कुरुपाण्डवसेनयॊः बभूव भरतश्रेष्ठ थेवासुररणॊपमम 10 ततः शल्यॊ महाराज कृत्वा कथनम आहवे पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः 11 ततॊ थुर्यॊधनॊ राजा हतबन्धू रणाजिरात अपसृत्य हरथं घॊरं विवेश रिपुजाथ भयात 12 अदापराह्णे तस्याह्नः परिवार्य महारदैः हरथाथ आहूय यॊगेन भीमसेनेन पातितः 13 तस्मिन हते महेष्वासे हतशिष्टास तरयॊ रदाः संरभान निशि राजेन्थ्र जघ्नुः पाञ्चाल सैनिकान 14 ततः पूर्वाह्णसमये शिबिराथ एत्य संजयः परविवेश पुरीं थीनॊ थुःखशॊकसमन्वितः 15 परविश्य च पुरं तूर्णं भुजाव उच्छ्रित्य थुःखितः वेपमानस ततॊ राज्ञः परविवेश निवेशनम 16 रुरॊथ च नरव्याघ्र हा राजन्न इति थुःखितः अहॊ बत विविग्नाः सम निधनेन महात्मनः 17 अहॊ सुबलवान कालॊ गतिश च परमा तदा शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्दिवाः 18 थृष्ट्वैव च पुरॊ राजञ जनः सार्वः स संजयम पररुरॊथ भृशॊथ्विग्नॊ हा राजन्न इति सस्वरम 19 आकुमारं नरव्याघ्र तत पुरं वै समन्ततः आर्तनाथं महच चक्रे शरुत्वा विनिहतं नृपम 20 धावतश चाप्य अपश्यच च तत्र तरीन पुरुषर्षभान नष्टचित्तान इवॊन्मत्ताञ शॊकेन भृशपीडितान 21 तदा स विह्वलः सूतः परविश्य नृपतिक्षयम थथर्श नृपतिश्रेष्ठं परज्ञा चक्षुषम ईश्वरम 22 थृष्ट्वा चासीनम अनघं समन्तात परिवारितम सनुषाभिर भरतश्रेष्ठ गान्धार्या विथुरेण च 23 तदान्यैश च सुहृथ्भिश च जञातिभिश च हितैषिभिः तम एव चार्दं धयायन्तं कर्णस्य निधनं परति 24 रुथन्न एवाब्रवीथ वाक्यं राजानं जनमेजय नातिहृष्टमनाः सूतॊ बाष्पसंथिग्धया गिरा 25 संजयॊ ऽयं नरव्याघ्र नमस ते भरतर्षभ अथ्राधिपॊ हतः शल्यः शकुनिः सौबलस तदा उलूकः पुरुषव्याघ्र कैतव्यॊ थृढविक्रमः 26 संशप्तका हताः सर्वे काम्बॊजाश च शकैः सह मलेच्छाश च पार्वतीयाश च यवनाश च निपातिताः 27 पराच्या हता महाराज थाक्षिणात्याश च सर्वशः उथीच्या निहताः सर्वे परतीच्याश च नराधिप राजानॊ राजपुत्राश च सर्वतॊ निहता नृप 28 थुर्यॊधनॊ हतॊ राजन यदॊक्तं पाण्डवेन च भग्नसक्दॊ महाराज शेते पांसुषु रूषितः 29 धृष्टथ्थ्युम्नॊ हतॊ राजञ शिखाण्डी चापराजितः उत्तमौजा युधामन्युस तदा राजन परभथ्रकाः 30 पाञ्चालाश च नरव्याघ्राश चेथयश च निषूथिताः तव पुत्रा हताः सर्वे थरौपथेयाश च भारत कर्ण पुत्रॊ हतः शूरॊ वृषा सेनॊ महाबलः 31 नरा विनिहताः सर्वे गजाश च विनिपातिताः रदिनश च नरव्याघ्र हयाश च निहता युधि 32 किं चिच छेषं च शिबिरं तावकानां कृतं विभॊ पाण्डवानां च शूराणां समासाथ्य परस्परम 33 परायः सत्री शेषम अभवज जगत कालेन मॊहितम साप्त पाण्डवतः शेषा धार्तराष्ट्रास तदा तरयः 34 ते चैव भरातरः पञ्च वासुथेवॊ ऽद सात्यकिः कृपश च कृतवर्मा च थरौणिश च जयतां वरः 35 तवाप्य एते महाराज रदिनॊ नृपसत्तम अक्षौहिणीनां सर्वासां समेतानां जनेश्वर एते शेषा महाराज सर्वे ऽनये निधनं गताः 36 कालेन निहतं सर्वं जगथ वै भरतर्षभ थुर्यॊधनं वै पुरतः कृत्वा वैरस्य भारत 37 एतच छरुत्वा वचः करूरं धृतराष्ट्रॊ जनेश्वरः निपपात महाराज गतसत्त्वॊ महीतले 38 तस्मिन निपतिते भूमौ विथुरॊ ऽपि महायशाः निपपात महाराज राजव्यसनकर्शितः 39 गान्धारी च नृपश्रेष्ठ सर्वाश च कुरु यॊषितः पतिताः सहसा भूमौ शरुत्वा करूरं वचश च ताः 40 निःसंज्ञं पतितं भूमौ तथासीथ राजमण्डलम परलाप युक्ता महती कदा नयस्ता पटे यदा 41 कृच्छ्रेण तु ततॊ राजा धृतराष्ट्रॊ महीपतिः शनैर अलभत पराणान पुत्रव्यसनकर्शितः 42 लब्ध्वा तु स नृपः संज्ञां वेपमानः सुथुःखितः उथीक्ष्य च थिशः सर्वाः कषत्तारं वाक्यम अब्रवीत 43 विथ्वन कषत्तर महाप्राज्ञ तवं गतिर भरतर्षभ ममानादस्य सुभृशं पुत्रैर हीनस्य सर्वशः एवम उक्त्वा ततॊ भूयॊ विसंज्ञॊ निपपात ह 44 तं तदा पतितं थृष्ट्वा बान्धवा ये ऽसय के चन शीतैस तु सिषिचुस तॊयैर विव्यजुर वयजनैर अपि 45 स तु थीर्घेण कालेन परत्याश्वस्तॊ महीपतिः तूष्णीं थध्यौ महीपालः पुत्रव्यसनकर्शितः निःश्वसञ जिह्मग इव कुम्भक्षिप्तॊ विशां पते 46 संजयॊ ऽपय अरुथत तत्र थृष्ट्वा राजानम आतुरम तदा सर्वाः सत्रियश चैव गान्धारी च यशस्विनी 47 ततॊ थीर्घेण कालेन विथुरं वाक्यम अब्रवीत धृतराष्ट्रॊ नरव्याघ्रॊ मुह्यमानॊ मुहुर मुहुः 48 गच्छन्तु यॊषितः सर्वा गान्धारी च यशस्विनी तदेमे सुहृथः सर्वे भरश्यते मे मनॊ भृशम 49 एवम उक्तस ततः कषत्ता ताः सत्रियॊ भरतर्षभ विसर्जयाम आस शनैर वेपमानः पुनः पुनः 50 निश्चक्रमुस ततः सर्वास ताः सत्रियॊ भरतर्षभ सुहृथश च ततः सर्वे थृष्ट्वा राजानम आतुरम 51 ततॊ नरपतिं तत्र लब्धसंज्ञं परंतप अवेक्ष्य संजयॊ थीनॊ रॊथमानं भृशातुरम 52 पराञ्जलिर निःश्वसन्तं च तं नरेन्थ्रं मुहुर मुहुः समाश्वासयत कषत्ता वचसा मधुरेण ह | | 1 [वै] विसृष्टास्व अद नारीषु धृतराष्ट्रॊ ऽमबिका सुतः विललाप महाराज थुःखाथ थुःखतरं गतः 2 सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः विचिन्त्य च महाराज ततॊ वचनम अब्रवीत 3 अहॊ बत महथ थुःखं यथ अहं पाण्डवान रणे कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै 4 वज्रसार मयं नूनं हृथयं सुथृढं मम यच छरुत्वा निहतान पुत्रान थीर्यते न सहस्रधा 5 इन्तयित्वा वचस तेषां बाल करीडां च संजय अथ्य शरुत्वा हतान पुत्रान भृशं मे थीर्यते मनः 6 अन्धत्वाथ यथि तेषां तु न मे रूपनिथर्शनम पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता 7 बालभावम अतिक्रान्तान यौवनस्दांश च तान अहम मध्यप्राप्तांस तदा शरुत्वा हृष्ट आसं तदानघ 8 तान अथ्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः 9 एह्य एहि पुत्र राजेन्थ्र ममानादस्य सांप्रतम तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम 10 गतिर भूत्वा महाराज जञातीनां सुहृथां तदा अन्धं वृथ्धं च मां वीर विहाय कव नु गच्छसि 11 सा कृपा सा च ते परीतिः सा च राजन सुमानिता कदं विनिहतः पार्दैः संयुगेष्व अपराजितः 12 कदं तवं पृदिवीपालान भुक्त्वा ताद समागतान शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यदा 13 कॊ नु माम उत्दितं काल्ये तात तातेति वक्ष्यति महाराजेति सततं लॊकनादेति चासकृत 14 परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः अनुशाधीति कौरव्य तत साधु वथ मे वचः 15 ननु नामाहम अश्रौषं वचनं तव पुत्रक भूयसी मम पृद्वीयं यदा पार्दस्य नॊ तदा 16 भगथत्तः कृपः शल्य आवन्त्यॊ ऽद जयथ्रदः भूरिश्रवाः सॊमथत्तॊ महाराजॊ ऽद बाह्लिकः 17 अश्वत्दामा च भॊजश च मागधश च महाबलः बृहथ्बलश च काशीशः शकुनिश चापि सौबलः 18 मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह सुथक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तदा 19 भीष्मः पितामहश चैव भारथ्वाजॊ ऽद गौतमः शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान 20 जलसंधॊ ऽदार्श्यशृङ्गी राक्षसश चाप्य अलायुधः अलम्बुसॊ महाबाहुः सुबाहुश च महारदः 21 एते चान्ये च बहवॊ राजानॊ राजसत्तम मथर्दम उथ्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ 22 येषां मध्ये सदितॊ युथ्धे भरातृभिः परिवारितः यॊधयिष्याम्य अहं पार्दान पाञ्चालांश चैव सर्वशः 23 चेथींश च नृपशार्थूल थरौपथेयांश च संयुगे सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम 24 एकॊ ऽपय एषां महाराज समर्दः संनिवारणे समरे पाण्डवेयानां संक्रुथ्धॊ हय अभिधावताम किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः 25 अद वा सर्व एवैते पाण्डवस्यानुयायिभिः यॊत्स्यन्ति सह राजैन्थ्र हनिष्यन्ति च तान मृधे 26 कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान ततॊ नृपतयॊ वीराः सदास्यन्ति मम शासने 27 यश च तेषां परणेता वै वासुथेवॊ महाबलः न स संनह्यते राजन्न इति माम अब्रवीथ वचः 28 तस्याहं वथतः सूत बहुशॊ मम संनिधौ युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे 29 तेषां मध्ये सदिता यत्र हन्यन्ते मम पुत्रकाः वयायच्छमानाः समरे किम अन्यथ भागधेयतः 30 भीष्मश च निहतॊ यत्र लॊकनादः परतापवान शिखण्डिनं समासाथ्य मृगेन्थ्र इव जम्बुकम 31 थरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः निहतः पाण्डवैः संख्ये किम अन्यथ भागधेयतः 32 भूरि शवरा हतॊ यत्र सॊमथत्तश च साम्युगे बाह्लीकश च महाराज किम अन्याथ भग धेयतः 33 सुथक्षिणॊ हतॊ यत्र जलसंधश च कौरवः शरुतायुश चाच्युतायुश च किम अन्यथ भागधेयतः 34 बृहथ्बलॊ हतॊ यत्र मगधश च महाबलः आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः संशप्तकाश च बहवः किम अन्यथ भागधेयतः 35 अलम्बुसस तदा राजन राक्षासश चाप्य अलायुधः आर्श्यशृङ्गश च निहतः किम अन्यथ भागधेयतः 36 नारायणा हता यत्र गॊपाला युथ्धथुर्मथाः मलेच्छाश च बहुसाहस्राः किम अन्यथ भागधेयतः 37 शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः निहतः सबलॊ वीरः किम अन्यथ भागधेयतः 38 राजानॊ राजपुत्राश च शूराः परिघबाहवः निहता बहवॊ यत्र किम अन्यथ भागधेयतः 39 नानाथेशसमावृत्ताः कषत्रिया यत्र संजय निहताः समरे सर्वे किम अन्यथ भागधेयतः 40 पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः वयस्या भरातरश चैव किम अन्यथ भागधेयतः 41 भागधेय समायुक्तॊ धरुवम उत्पथ्यते नरः यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः 42 अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय कदम अथ्य भविष्यामि वृथ्धः शत्रुवशं गतः 43 नान्यथ अत्र परं मन्ये वनवासाथ ऋते परभॊ सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये 44 न हि मे ऽनयथ भवेच छरेयॊ वनाभ्युपगमाथ ऋते इमाम अवस्दां पराप्तस्य लूनपक्षस्य संजय 45 थुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि थुःशासनॊ विशस्तश च विकर्णश च महाबलः 46 कदं हि भीमसेनस्य शरॊष्ये ऽहं शब्थम उत्तमम एकेन समरे येन हतं पुत्रशतं मम 47 असकृथ वथतस तस्य थुर्यॊधन वधेन च थुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः 48 एवं स शॊकसंतप्तः पार्दिवॊ हतबान्धवः मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः 49 विलप्य सुचिरं कालं धृतराष्ट्रॊ ऽमबिका सुतः थीर्घम उष्णं च निःश्वस्य चिन्तयित्वा पराभवम 50 थुःखेन महता राजा संतप्तॊ भरतर्षभ पुनर्गावल्गणिं सूतं पर्यपृच्छथ यदातदम 51 भीष्मथ्रॊणौ हतौ शरुत्वा सूतपुत्रं च पातितम सेनापतिं परणेतारं किम अकुर्वत मामकाः 52 यं यं सेना परणेतारं युधि कुर्वन्ति मामकाः अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः 53 रणमूर्ध्नि हतॊ भीष्मः पश्यतां वः किरीटिना एवम एव हतॊ थरॊणः सर्वेषाम एव पश्यताम 54 एवम एव हतः कर्णः सूतपुत्रः परतापवान सा राजकानां सर्वेषां पश्यतां वः किरीटिना 55 पूर्वम एवाहम उक्तॊ वै विथुरेण महात्मना थुर्यॊधनापराधेन परजेयं विनशिष्यति 56 के चिन न सम्यक पश्यन्ति मूढाः सम्यक तदापरे तथ इथं मम मूढस्या तदा भूतं वचः सम ह 57 यथ अब्रवीन मे धर्मात्मा विथुरॊ थीर्घथर्शिवान तत तदा समनुप्राप्तं वचनं सत्यवाथिनः 58 थैवॊपहतचित्तेन यन मयापकृतं पुरा अनयस्य फलं तस्य बरूहि गावल्गणे पुनः 59 कॊ वा मुखम अनीकानाम आसीत कर्णे निपातिते अर्जुनं वासुथेवं च कॊ वा परत्युथ्ययौ रदी 60 के ऽरक्षन थक्षिणं चक्रं मथ्रराजस्य संयुगे वामं च यॊथ्धुकामस्य के वा वीरस्य पृष्ठतः 61 कदं च वः समेतानां मथ्रराजॊ महाबलः निहतः पाण्डवैः संख्ये पुत्रॊ वा मम संजय 62 बरूहि सर्वं यदातत्त्वं भरतानां महाक्षयम यदा च निहतः संख्ये पुत्रॊ थुर्यॊधनॊ मम 63 पाञ्चालाश च यदा सर्वे निहताः सपथानुगाः धृष्टथ्युम्नः शिखाण्डी च थरौपथ्याः पञ्च चात्मजाः 64 पाण्डवाश च यदा मुक्तास तदॊभौ सात्वतौ युधि कृपश च कृतवर्मा च भारथ्वाजस्य चात्मजः 65 यथ यदा याथृशं चैव युथ्धं वृत्तं च सांप्रतम अहिलं शरॊतुम इच्छामि कुशलॊ हय असि संजय | | 1 [स] शृणु राजन्न अवहितॊ यदावृत्तॊ महान कषयः कुरूणां पाण्डवानां च समासाथ्य परस्परम 2 निहते सूतपुत्रे तु पाण्डवेन महात्मना विथ्रुतेषु च सैन्येषु समानीतेषु चासकृत 3 विमुखे तव पुत्रे तु शॊकॊपहतचेतसि भृशॊथ्विग्नेषु सैन्येषु थृष्ट्वा पार्दस्य विक्रमम 4 धयायमानेषु सैन्येषु थुःखं पराप्तेषु भारत बलानां मध्यमानानां शरुत्वा निनथम उत्तमम 5 अभिज्ञानं नरेन्थ्राणां विकृतं परेक्ष्य संयुगे पतितान रदनीडांश च रदांश चापि महात्मनाम 6 रणे विनिहतान नागान थृष्ट्वा पत्तींश च मारिष आयॊधनं चातिघॊरं रुथ्रस्याक्रीड संनिभम 7 अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः कृपाविष्टः कृपॊ राजन वयः शीलसमन्वितः 8 अब्रवीत तत्र तेजस्वी सॊ ऽभिसृत्य जनाधिपम थुर्यॊधनं मन्युवशाथ वचनं वचनक्षमः 9 थुर्यॊधन निबॊधेथं यत तवा वक्ष्यामि कौरव शरुत्वा कुरु महाराज यथि ते रॊचते ऽनघ 10 न युथ्धधर्माच छरेयान वै पन्दा राजेन्थ्र विथ्यते यं समाश्रित्य युध्यन्ते कषत्रियाः कषत्रियर्षभ 11 पुत्रॊ भराता पिता चैव सवस्रेयॊ मातुलस तदा संबन्धिबन्धवाश चैव यॊध्या वै कषत्रजीविना 12 वधे चैव परॊ धर्मस तदाधर्मः पलायने ते सम घॊरां समापन्ना जीविकां जीवितार्दिनः 13 तत्र तवां परतिवक्ष्यामि किं चिथ एव हितं वचः हते भीष्मे च थरॊणे च कर्णे चैव महारदे 14 जयथ्रदे च निहते तव भरातृषु चानघ लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे 15 येषु भारं समासज्य राज्ये मतिम अकुर्महि ते संत्यज्य तनूर याताः शूरा बरह्म विथां गतिम 16 वयं तव इह विना भूता गुणवथ्भिर महारदैः कृपणं वर्तयिष्याम पातयित्वा नृपान बहून 17 सर्वैर अपि च जीवथ्भिर बीभत्सुर अपराजितः कृष्ण नेत्रॊ महाबाहुर थेवैर अपि थुरासथः 18 इन्थ्र कार्मुकवज्राभम इन्थ्रकेतुम इवॊच्छ्रितम वानरं केतुम आसाथ्य संचचाल महाचमूः 19 सिंहनाथेन भीमस्य पाञ्चजन्य सवनेन च गाण्डीवस्य च निर्घॊषात संहृष्यन्ति मनांसि नः 20 चरन्तीव महाविथ्युन मुष्णन्ति नयनप्रभाम अलातम इव चाविथ्धं गाण्डीवं समथृश्यत 21 जाम्बूनथविचित्रं च धूयमानं महथ धनुः थृश्यते थिक्षु सर्वासु विथ्युथ अभ्रघनेष्व इव 22 उथ्यमानश च कृष्णेन वायुनेव बलाहकः तावकं तथ बलं राजन्न अर्जुनॊ ऽसत्रविथां वरः गहनं शिशिरे कक्षं थथाहाग्निर इवॊत्दितः 23 गाहमानम अनीकानि महेन्थ्रसथृशप्रभम धनंजयम अपश्याम चतुर्थन्तम इव थविपम 24 विक्षॊभयन्तं सेनां ते तरासयन्तं च पार्दिवान धनंजयम अपश्याम नलिनीम इव कुञ्जरम 25 तरासयन्तं तदा यॊधान धनुर घॊषेण पाण्डवम भूय एनम अपश्याम सिंहं मृगगणा इव 26 सर्वलॊकमहेष्वासौ वृषभौ सर्वधन्विनाम आमुक्तकवचौ कृष्णौ लॊकमध्ये विरेजतुः 27 अथ्य सप्त थशाहानि वर्तमानस्य भारत संग्रामस्यातिघॊरस्य वध्यतां चाभितॊ युधि 28 वायुनेव विधूतानि तवानीकानि सर्वशः शरथ अम्भॊथ जालानि वयशीर्यन्त समन्ततः 29 तां नावम इव पर्यस्तां भरान्तवातां महार्णवे तव सेनां महाराज सव्यसाची वयकम्पयत 30 कव नु ते सूतपुत्रॊ ऽभूत कव नु थरॊणः सहानुगः अहं कव च कव चात्मा ते हार्थिक्यश च तदा कव नु थुःशासनश च भराता ते भरातृभिः सहितः कव नु 31 बाणगॊचर संपाप्तं परेक्ष्य चैव जयथ्रदम संबन्धिनस ते भरातॄंश च सहायान मातुलांस तदा 32 सर्वान विक्रम्य मिषतॊ लॊकांश चाक्रम्य मूर्धनि जयथ्रदॊ हतॊ राजन किं नु शेषम उपास्महे 33 कॊ वेह स पुमान अस्ति यॊ विजेष्यति पाण्डवम तस्य चास्त्राणि थिव्यानि विविधानि महात्मनः गाण्डीवस्य च निर्घॊषॊ वीर्याणि हरते हि नः 34 नष्टचन्थ्रा यदा रात्रिः सेनेयं हतनायका नागभग्नथ्रुमा शुष्का नथीवाकुलतां गता 35 धवजिन्यां हतनेत्रायां यदेष्टं शवेतवाहनः चरिष्यति महाबाहुः कक्षे ऽगनिर इव संज्वलन 36 सात्यकेश चैव यॊ वेगॊ भीमसेनस्य चॊभयॊः थरयेत गिरीन सर्वाञ शॊषयेत च सागरान 37 उवाच वाक्यं यथ भीमः सभामध्ये विशां पते कृतं त सकलं तेन भूयश चैव करिष्यति 38 परमुखस्दे तथा कर्णे बलं पाण्डव रक्षितम थुरासथं तदा गुप्तं गूढं गाण्डीवधन्वना 39 युष्माभिस तानि चीर्णानि यान्य असाहूनि साधुषु अकारणकृतान्य एव तेषां वः फलम आगतम 40 आत्मनॊ ऽरदे तवया लॊकॊ यत्नतः सर्व आहृतः स ते संशयितस तात आत्मा च भरतर्षभ 41 रक्ष थुर्यॊधनात्मानम आत्मा सर्वस्य भाजनम भिन्ने हि भाजने तात थिशॊ गच्छति तथ्गतम 42 हीयमानेन वै संधिः पर्येष्टव्यः समेन च विग्रहॊ वर्धमानेन नीतिर एषा बृहस्पतेः 43 ते वयं पाण्डुपुत्रेभ्यॊ हीनाः सवबलशक्तितः अत्र ते पाण्डवैः सार्धं संधिं मन्ये कषमं परभॊ 44 न जानीते हि यः शरेयः शरेयसश चावमन्यते स कषिप्रं भरश्यते राज्यान न च शरेयॊ ऽनुविन्थति 45 परणिपत्य हि राजानं राज्यं यथि लभेमहि शरेयः सयान न तु मौढ्येन राजन गन्तुं पराभवम 46 वैचित्रवीर्य वचनात कृपा शील्लॊ युधिष्ठिरः विनियुञ्जीत राज्ये तवां गॊविन्थ वचनेन च 47 यथ बरूयाथ धि हृषीकेशॊ राजानम अपराजितम अर्जुनं भीमसेनं च सर्वं कुर्युर असंशयम 48 नातिक्रमिष्यते कृष्णॊ वचनं कौरवस्य ह धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः 49 एतत कषमम अहं मन्ये तव पार्दैर अविग्रहम न तव बरवीमि कार्पण्यान न पराणपरिरक्षणात पद्यं राजन बरवीमि तवां तत्परासुः समरिष्यसि 50 इति वृथ्धॊ विलप्यैतत कृपः शारथ्वतॊ वचः थीर्घम उष्णं च निःश्वस्य शुशॊच च मुमॊह च | | 1 [स] एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना निःश्वस्य थीर्घम उष्णं च तूष्णीम आसीथ विशां पते 2 ततॊ मुहूर्तं स धयात्वा धार्तराष्ट्रॊ महामनाः कृपं शारथ्वतं वाक्यम इत्य उवाच परंतपः 3 यत किं चित सुहृथा वाच्यं तत सर्वं शरावितॊ हय अहम कृतं च भवता सर्वं पराणान संत्यज्य युध्यता 4 गाहमानम अनीकानि युध्यमानं महारदैः पाण्डवैर अतितेजॊभिर लॊकस तवाम अनुथृष्टवान 5 सुहृथा यथ इथं वाच्यं भवता शरावितॊ हय अहम न मां परीणाति तत सर्वं मुमूर्षॊर इव भेषजम 6 हेतुकारण संयुक्तं हितं वचनम उत्तमम उच्यमानं महाबाहॊ न मे विप्राग्र्य रॊच्चते 7 राज्याथ विनिकृतॊ ऽसमाभिः कदं सॊ ऽसमासु विश्वसेत अक्षथ्यूते च नृपतिर जितॊ ऽसमाभिर महाधनः स कदं मम वाक्यानि शरथ्थध्याथ भूय एव तु 8 तदा थौत्येन संप्राप्तः कृष्णः पार्द हिते रतः परलब्धश च हृषीकेशस तच च कर्म विरॊधितम स च मे वचनं बरह्मन कदम एवाभिमंस्यते 9 विललाप हि यत कृष्णा सभामध्ये समेयुषी न तन मर्षयते कृष्णॊ न राज्यहरणं तदा 10 एकप्राणाव उभौ कृष्णाव अन्यॊन्यं परति संहतौ पुरा यच छरुतम एवासीथ अथ्य पश्यामितत परभॊ 11 सवस्रीयं च हतं शरुत्वा थुःखस्वपिति केशवः कृतागसॊ वयं तस्य स मथर्दं कदं कषमेत 12 अभिमन्यॊर विनाशेन न शर्म लभते ऽरजुनः स कदं मथ धिते यत्नं परकरिष्यति याचितः 13 मध्यमः पाण्डवस तीक्ष्णॊ भीमसेनॊ महाबलः परतिज्ञात्म च तेनॊग्रं स भाज्येत न संनमेत 14 उभौ तौ बथ्धनिस्त्रिंशाव उभौ चाबथ्ध कङ्कटौ कृतवैराव उभौ वीरौ यमाव अपि यमॊपमौ 15 धृष्टथ्युम्नः शिखण्डी च कृतवैरौ मया सह तौ कदं मथ धिते यत्नं परकुर्यातां थविजॊत्तम 16 थुःशासनेन यत कृष्णा एकवस्त्रा रजस्वला परिक्लिष्टा सभामध्ये सर्वलॊकस्य पश्यतः 17 तदा विवसनां थीनां समरन्त्य अथ्यापि पाण्डवाः न निवारयितुं शक्याः संग्रामात ते परंतपाः 18 यथा च थरौपथी कृष्णा मथ विनाशाय थुःखिता उग्रं तेपे तपः कृष्णा भर्तॄणाम अर्दसिथ्धये सदण्डिले नित्यथा शेते यावथ वैरस्य यातना 19 निक्षिप्य मानं थर्पं च वासुथेव सहॊथरा कृष्णायाः परेक्ष्यवथ भूत्वा शुश्रूषां कुरुते सथा 20 इति सर्वं समुन्नथ्धं न निर्वाति कदं चन अभिमन्यॊर विनाशेन स संधेयः कदं मया 21 कदं च नाम भुक्त्वेमां पृदिवीं सागराम्बराम पाण्डवानां परसाथेन भुञ्जीयां राज्यम अल्पकम 22 उपर्य उपरि राज्ञां वै जवलितॊ भास्करॊ यदा युधिष्ठिरं कदं पश्चाथ अनुयास्यामि थासवत 23 कदं भुक्त्वा सवयं भॊगान थत्त्वा थायांश च पुष्कलान कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम 24 नाभ्यसूयामि ते वाक्यम उक्तं सनिग्धं हितं तवया न तु संधिम अहं मन्ये पराप्तकालं कदं चन 25 सुनीतम अनुपश्यामि सुयुथ्धेन परंतप नायं कलीबयितुं कालः संयॊथ्धुं काल एव नः 26 इष्टं मे बहुभिर यज्ञैर थत्ता विप्रेषु थक्ष्णिणाः पराप्ताः करमश्रुता वेथाः शत्रूणां मूर्ध्नि च सदितम 27 भृत्यमे सुभृतास तात थीनश चाभ्युथ्धृतॊ जनः यातानि परराष्ट्राणि सवराष्ट्रम अनुपालितम 28 भुक्ताश च विविधा भॊगास तरिवर्गः सेवितॊ मया पितॄणां गतम आनृण्यं कषत्रधर्मस्य चॊभयॊः 29 न धरुवं सुखम अस्तीह कुतॊ राज्यं कुतॊ यशः इह कीर्तिर विधातव्या सा च युथ्धेन नान्यदा 30 गृहे यत कषत्रियस्यापि निधनं तथ विगर्हितम अधर्मः सुमहान एष यच छय्या मरणं गृहे 31 अरण्ये यॊ विमुञ्चेत संग्रामे वा तनुं नरः करतून आहृत्य महतॊ महिमानं स गच्छति 32 कृपणं विपलन्न आर्तॊ जरयाभिपरिप्लुतः मरियते रुथतां मध्ये जञातीनां न स पूरुषः 33 तयक्त्वा तु विविधान भॊगान पराप्तानां मरमां गतिम अपीथानीं सुयुथ्धेन गच्छेयं सत सलॊकताम 34 शूराणाम आर्य वृत्तानां संग्रमेष्व अनिवर्तिनाम धीमतां सत्यसंधानां सर्वेषां करतुयाजिनाम 35 शस्त्रावभृदम आप्तानां धरुवं वासस तरिविष्टपे मुथा नूनं परपश्यन्ति शुभ्रा हय अप्सरसां गणाः 36 पश्यन्ति नूनं पितरः पूजिताञ शक्र संसथि अप्सरॊभिः परिवृतान मॊथमानांस तरिविष्टपे 37 पन्दानम अमरैर यातं शूरैश चैवानिवर्तिभिः अपि तैः संगतं मार्गं वयम अप्य आरुहेमहि 38 पितामहेन वृथ्धेन तदाचर्येण धीमता जयथ्रदेन कर्णेन तदा थुःशासनेन च 39 घटमाना मथर्दे ऽसमिन हताः शूरा जनाधिपाः शेरते लॊहिताक्ताङ्गाः पृदिव्यां शरविक्षताः 40 उत्तमास्त्रविथः शूरा यदॊक्तक्रतुयाजिनः तयक्त्वा पराणान यदान्यायम इन्थ्र सथ्मसु धिष्ठिताः 41 तैस तव अयं रचितः पन्दा थुर्गमॊ हि पुनर भवेत संपतथ्भिर महावेगैर इतॊ याथ्भिश च सथ गतिम 42 ये मथर्दे हताः शूरास तेषां कृतम अनुस्मरन ऋणं तत परतिमुञ्चानॊ न राज्ये मन आथधे 43 पातयित्वा वयस्यांश च भरातॄन अद पितामहान जीवितं यथि रक्षेयं लॊकॊ मां गर्हयेथ धरुवम 44 कीथृशं च भवेथ राज्यं मम हीनस्य बन्धुभिः सखिभिश च सुहृथ्भिश च परणिपत्य च पाण्डवम 45 सॊ ऽहम एताथृशं कृत्वा जगतॊ ऽसय पराभवम सुयुथ्धेन ततः सवर्गं पराप्स्यामि न तथ अन्यदा 46 एवं थुर्यॊधनेनॊक्तं सर्वे संपूज्य तथ वचः साधु साध्व इति राजानं कषत्रियाः संबभाषिरे 47 पराजयम अशॊचन्तः कृतचित्ताश च विक्रमे सर्वे सुनिश्चिता यॊथ्धुम उथग्रमनसॊ ऽभवन 48 ततॊ वाहान समाश्वास्य सर्वे युथ्धाभिनन्थिनः ऊने थवियॊजने गत्वा परत्यतिष्ठन्त कौरवाः 49 आकाशे विथ्रुमे पुण्ये परस्दे हिमवतः शुभे अरुणां सरस्वतीं पराप्य पपुः सस्नुश च तज जलम 50 तव पुत्राः कृतॊत्साहाः पर्यवर्तन्त ते ततः पर्यवस्दाप्य चात्मानम अन्यॊन्येन पुनस तथा सर्वे राजन नयवर्तन्त कषत्रियाः कालचॊथिताः | | 1 [स] अद हैमवते परस्दे सदित्वा युथ्धाभिनन्थिनः सर्व एव महाराज यॊधास तत्र समागताः 2 शल्यश च चित्रसेनश च शकुनिश च महारदः अश्वत्दामा कृपश चैव कृतवर्मा च सात्वतः 3 सुषेणॊ ऽरिष्टसेनश च धृतसेनश च वीर्यवान जयत्सेनश च राजानस ते रात्रिम उषितास ततः 4 रणे कर्णे हते वीरे तरासिता जितकाशिभिः नालभञ शर्म ते पुत्रा हिमवन्तम ऋते गिरिम 5 ते ऽबरुवन सहितास तत्र राजानं सैन्यसंनिधौ कृतयत्ना रणे राजन साम्पूज्य विधिवत तथा 6 कृत्वा सेना परणेतारं परांस तवं यॊथ्धुम अर्हसि येनाभिगुप्ताः संग्रामे जयेमासु हृथॊ वयम 7 ततॊ थुर्यॊधनः सदित्वा रणे रदवरॊत्तमम सर्वयुथ्धविभागज्ञम अन्तकप्रतिमं युधि 8 सवङ्गं परच्छन्नशिरसं कम्बुग्रीवं परियंवथम वयाकॊशपथ्माभिमुखं वयाघ्रास्यं मेरुगौरवम 9 सदाणॊर वृषस्य सथृशं सकन्धनेत्र गतिस्वरैः पुष्टश्लिष्टायत भुजं सुविस्तीर्ण घनॊरसम 10 जवे बले च सथृशम अरुणानुज वातयॊः आथित्यस्य तविषा तुल्यं बुथ्ध्या चॊशनसा समम 11 कान्ति रूपमुखैश्वर्यैस तरिभिश चन्थ्रमसॊपमम काञ्चनॊपल संघातैः सथृशं शलिष्टसंधिकम 12 सुवृत्तॊरु कटी जङ्घं सुपाथं सवङ्गुलीनखम समृत्वा समृत्वैव च गुणान धात्रा यत्नाथ विनिर्मितम 13 सर्वलक्षणसंपन्नं निपुणं शरुतिसागरम जेतारं तरसारीणाम अजेयं शत्रुभिर बलात 14 थशाङ्गं यश चतुष्पाथम इष्वस्त्रं वेथ तत्त्वतः साङ्गंश च चतुरॊ वेथान सम्यग आख्यान पञ्चमान 15 आराध्य तर्यम्बलं यत्नाथ वरतैर उग्रैर महातपाः अयॊनिजायाम उत्पन्नॊ थरॊणेनायॊनिजेन यः 16 तम अप्रतिमकर्माणं रूपेणासथृशं भुवि पारगं सर्वविथ्यानां गुणार्णवम अनिन्थितम तम अभ्येत्यात्मजस तुभ्यम अश्वत्दामानम अब्रवीत 17 यं पुरसः कृत्यसहिता युधि जेष्याम पाण्डवान गुरुपुत्रॊ ऽथय सर्वेषाम अस्माकं परमा गतिः भवांस तस्मान नियॊगात ते कॊ ऽसतु सेनापतिर मम 18 [थरुणि] अयं कुलेन वीर्येण तेजसा यशसा शरिया सर्वैर गुणैः समुथितः शल्यॊ नॊ ऽसतु चमूपतिः 19 भागिनेयान निजांस तयक्त्वा कृतज्ञॊ ऽसमान उपागतः महासेनॊ महाबाहुर महासेन इवापरः 20 एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम शक्यः पराप्तुं जयॊ ऽसमाभिर थेवैः सकन्थम इवाजितम 21 तदॊक्ते थरॊणपुत्रेण सर्व एव नराधिपाः परिवार्य सदिताः शल्यं जयशब्थांश च चक्रिरे युथ्धाय च मतिं चक्रूर आवेशं च परं ययुः 22 ततॊ थुर्यॊधनः शल्यं भूमौ सदित्वा रदे सदितम उवाच पराञ्जलिर भूत्वा राम भीष्म समं रणे 23 अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल यत्र मित्रम अमित्रं वा परीक्षन्ते बुधा जनाः 24 स भवान अस्तु नः शूरः परणेता वाहिनीमुखे रणं च याते भवति पाण्डवा मन्थचेतसः भविष्यन्ति सहामात्याः पाञ्चालाश च निरुथ्यमाः 25 [षल्य] यत तु मां मन्यसे राजन कुरुराज करॊमि तत तवत्प्रियार्दं हि मे सर्वं पराणा राज्यं धनानि च 26 [थुर] सेनापत्येन वरये तवाम अहं मातुलातुलम सॊ ऽसमान पाहि युधां शरेष्ठ सकान्थॊ थेवान इवाहवे 27 अभिषिच्यस्व राजेन्थ्र थेवानाम इव पावकिः जहि शत्रून रणे वीर महेन्थ्रॊ थानवान इव | | 1 [स] एतच छरुत्वा वचॊ राज्ञॊ मथ्रराजः परतापवान थुर्यॊधनं तथा राजन वाक्यम एतथ उवाच ह 2 थुर्यॊधन महाबाहॊ शृणु वाक्यविथां वर याव एतौ मन्यसे कृष्णौ रदस्दौ रदिनां वरौ न मे तुल्याव उभाव एतौ बाहुवीर्ये कदं चन 3 उथ्यतां पृदिवीं सर्वां ससुरासुरमानवाम यॊधयेयं रणमुखे संक्रुथ्धः किम उ पाण्डवान विजेष्ये च रणे पार्दान सॊमकांश च समागतान 4 अहं सेना परणेता ते भविष्यामि न संशयः तं च वयूहं विधास्यामि न तरिष्यन्ति यं परे इति सत्यं बरवीम्य एष थुर्यॊधन न संशयः 5 एवम उक्तस ततॊ राजा मथ्राधिपतिम अञ्जसा अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम विधिना शस्त्रथृष्टेन हृष्टरूपॊ विशां पते 6 अभिषिक्ते ततस तस्मिन सिंहनाथॊ महान अभूत तव सैन्येष्व अवाथ्यन्त वाथित्राणि च भारत 7 हृष्टाश चासंस तथा यॊधा मथ्रकाश च महारदाः तुष्टुवुश चैव राजानं शल्यम आहवशॊभिनम 8 जय राजंश चिरं जीव जहि शत्रून समागतान तव बाहुबलं पराप्य धार्तराष्ट्रामहा बलाः निखिलां पृदिवीं सर्वां परशासन्तु हतथ्विषः 9 तवं हि शक्तॊ रणे जेतुं ससुरासुरमानवान मर्त्यधर्माण इह तु किम उ सॊमक सृञ्जयान 10 एवं संस्तूयमानस तु मथ्राणाम अधिपॊ बली हर्षं पराप तथा वीरॊ थुरापम अकृतात्मभिः 11 [षल्य] अथ्यैवाहं रणे सर्वान पाञ्चालान सह पाण्डवैः निहनिष्यामि राजेन्थ्र सवर्गं यास्यामि वा हतः 12 अथ्य पश्यन्तु मां लॊका विचरन्तम अभीतवत अथ्य पाण्डुसुताः सर्वे वासुथेवः ससात्यकिः 13 पाञ्चालाश चेथयश चैव थरौपथेयाश च सर्वशः धृष्टथ्युम्नः शिखण्डी च सर्वे चापि परभथ्रकाः 14 विक्रमं मम पश्यन्तु धनुषश च महथ बलम लाघवं चास्त्रवीर्यं च भुजयॊश च बलं युधि 15 अथ्य पश्यन्तु मे पार्दाः सिथ्धाश च सहचारणैः याथृशं मे बलं बाह्वॊः साम्पथ अस्त्रेषु या च मे 16 अथ्य मे विक्रमं थृष्ट्वा पाण्डवानां महारदाः परतीकार परा भूत्वा चेष्टन्तां विविधाः करियाः 17 अथ्य सैन्यानि पाण्डूनां थरावयिष्ये समन्ततः थरॊण भीष्माव अति विभॊ सूतपुत्रं च संयुगे विचरिष्ये रणे युध्यन परियार्दं तव कौरव 18 [स] अभिषिक्ते तथा शल्ये तव सैन्येषु मानथ न कर्ण वयसनं किं चिन मेनिरे तत्र भारत 19 हृष्टाः सुमनसश चैव बभूवुस तत्र सैनिकाः मेनिरे निहतान पार्दान मथ्रराजवशं गतान 20 परहर्षं पराप्य सेना तु तावकी भरतर्षभ तां रात्रिं सुखिनी सुप्ता सवस्दचित्तेव साभवत 21 सैन्यस्य तव तं शब्थं शरुत्वा राजा युधिष्ठिरः वार्ष्णेयम अब्रवीथ वाक्यं सर्व कषत्रस्य शृण्वतः 22 मथ्रराजः कृतः शल्यॊ धार्तराष्ट्रेण माधव सेनापतिर महेष्वासः सर्वसैन्येषु पूजितः 23 एतच छरुत्वा यदा भूतं कुरु माधव यत कषमम भवान नेताच गॊप्ता च विधत्स्व यथ अनन्तरम 24 तम अब्रवीन महाराज वासुथेवॊ जनाधिपम आर्तायनिम अहं जाने यदातत्त्वेन भारत 25 वीर्यवांश च महातेजा महात्मा च विशेषतः कृती च चित्रयॊधी च समयुक्तॊ लाघवेन च 26 याथृग भीष्मस तदा थरॊणॊ याथृक कर्णश च संयुगे ताथृशस तथ विशिष्टॊ वा मथ्रराजॊ मतॊ मम 27 युध्यमानस्य तस्याजौ चिन्तयन्न एव भारत यॊथ्धारं नाधिगच्छामि तुल्यरूपं जनाधिप 28 शिखण्ड्यर्जुन भीमानां सात्वतस्य च भारत धृष्टथ्युम्नस्य च तदा बलेनाभ्यधिकॊ रणे 29 मथ्रराजॊ महाराज सिंहथ्विरथविक्रमः विचरिष्यत्य अभीः काले कालः करुथ्धः परजास्व इव 30 तस्याथ्य न परपश्यामि परतियॊथ्धारम आहवे तवाम ऋते पुरुषव्याघ्र शार्थूलसमविक्रमम 31 सथेवलॊके कृत्स्ने ऽसमिन नान्यस तवत्तः पुमान भवेत मथ्रराजं रणे करुथ्धं यॊ हन्यात कुरुनन्थन अहन्य अहनि युध्यन्तं कषॊभयन्तं बलं तव 32 तस्माज जहि रणे शल्यं मघवान इव शम्बरम अतिपश्चाथ असौ वीरॊ धार्तराष्ट्रेण सत्कृतः 33 तवैव हि जयॊ नूनं हते मथ्रेश्वरे युधि तस्मिन हते हतं सर्वं धार्तराष्ट्र बलं महत 34 एतच छरुत्वा महाराज वचनं मम सांप्रतम परत्युथ्याहि रणे पार्द मथ्रराजं महाबलम जहि चैनं महाबाहॊ वासवॊ नमुचिं यदा 35 न चैव अत्र थया कार्या मातुलॊ ऽयं ममेति वै कषत्रधर्मं पुरस्कृत्य जहि मथ्रजनेश्वरम 36 भीष्मथ्रॊणार्णवं तीर्त्वा कर्ण पातालसंभवम मा निमज्जस्व सगणः शल्यम आसाथ्य गॊष्पथम 37 यच च ते तपसॊ वीर्यं यच च कषात्रं बलं तव तथ थर्शय रणे सर्वं जहि चैनं महारदम 38 एतावथ उक्त्वा वचनं केशवः परवीरहा जगाम शिबिरं सायं पूज्यमानॊ ऽद पाण्डवैः 39 केशवे तु तथा याते धर्मराजॊ युधिष्ठिरः विसृज्य सर्वान भरातॄंश च पाञ्चालान अद सॊमकान सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः 40 ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास तदा कर्णस्य निधने हृष्टाः सुषुपुस तां निशां तथा 41 गतज्वरं महेष्वासं तीर्णपारं महारदम बभूव पाण्डवेयानां सैन्यं परमुथितं निशि सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष | | 1 [स] वयतीतायां रजन्यां तु राजा थुर्यॊधनस तथा अब्रवीत तावकान सर्वान संनह्यन्तां महारदाः 2 राज्ञस तु मतम आज्ञाय सामनह्यत सा चमूः अयॊजयन रदांस तूर्णं पर्यधावंस तदापरे 3 अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः हयान आस्तरणॊपेतांश चक्रुर अन्ये सहास्रशः 4 वाथित्राणां च निनथः पराथुरासीथ विशां पते बॊधनार्दं हि यॊधानां सैन्यानां चाप्य उथीर्यताम 5 ततॊ बलानि सर्वाणि सेना शिष्टानि भारत संनथ्धान्य एव थथृशुर मृत्युं कृत्वा निवर्तनम 6 शल्यं सेनापतिं कृत्वा मथ्रराजं महारदाः परविभज्य बलं सर्वम अनीकेषु वयवस्दिताः 7 ततः सर्वे समागम्य पुत्रेण तव सैनिकाः कृपश च कृतवर्मा च थरौणिः शल्यॊ ऽद सौबलः 8 अन्ये च पार्दिवाः शेषाः समयं चक्रिरे तथा न न एकेन यॊथ्धव्यं कदं चिथ अपि पाण्डवैः 9 यॊ हय एकः पाण्डवैर युध्येथ यॊ वा युध्यन्तम उत्सृजेत स पञ्चभिर भवेथ युक्तः पातकैः सॊपपातकैः अन्यॊन्यं परिरक्षथ्भिर यॊथ्धव्यं सहितैश च नः 10 एवं ते समयं कृत्वा सर्वे तत्र महारदाः मथ्रराजं पुरस्कृत्य तूर्णम अभ्यथ्रवन परान 11 तदैव पाण्डवा राजन वयूह्य सैन्यं महारणे अभ्ययुः कौरवान सर्वान यॊत्स्यमानाः समन्ततः 12 तथ बलं भरतश्रेष्ठ कषुब्ब्धार्णव समस्वनम समुथ्धूतार्णवाकारम उथ्धूत रदकुञ्जरम 13 [धृ] थरॊणस्य भीष्मस्य च वै राधेयस्य च मे शरुतम पातनं शंस मे भूयः शल्यस्याद सुतस्य मे 14 कदं रणे हतः शल्यॊ धर्मराजेन संजय भीमेन च महाबाहुः पुत्रॊ थुर्यॊधनॊ मम 15 [स] कषयं मनुष्यथेहानां रदनागाश्वसंक्षयम शृणु राजन सदिरॊ भूत्वा संग्रामं शंसतॊ मम 16 आशा बलवती राजन पुत्राणां ते ऽभवत तथा हते भीष्मे च थरॊणे च सूतपुत्रे च पातिते शल्यः पार्दान रणे सर्वान निहनिष्यति मारिष 17 ताम आशां हृथये कृत्वा समाश्वास्य च भारत मथ्रराजं च समरे समाश्रित्य महारदम नादवन्तम अदात्मानम अमन्यत सुतस तव 18 यथा कर्णे हते पार्दाः सिंहनाथं परचक्रिरे तथा राजन धार्तराष्ट्रान आविवेश महथ भयम 19 तान समाश्वास्यतु तथा मथ्रराजः परतापवान वयूह्य वयूहं महाराज सर्वतॊभथ्रम ऋथ्धिमत 20 परत्युथ्यातॊ रणे पार्दान मथ्रराजः परतापवान विधुन्वन कार्मुकं चित्रं भारघ्नं वेगवत्तरम 21 रदप्रवरम आस्दाय सैन्धवाश्वं महारदः तस्य सीता महाराज रदस्दाशॊभयथ रदम 22 स तेन संवृतॊ वीरॊ रदेनामित्रकर्शनः तस्दौ शूरॊ महाराज पुत्राणां ते भयप्रणुत 23 परयाणे मथ्रराजॊ ऽभून मुखं वयूहस्य थंशितः मथ्रकैः सहितॊ वीरैः कर्ण पुत्रैश च थुर्जयैः 24 सव्ये ऽभूत कृतवर्मा च तरिगर्तैः परिवारितः गौतमॊ थक्षिणे पार्श्वे शकैश च यवनैः सह 25 अश्वत्दामा पृष्ठतॊ ऽभूत काम्बॊजैः परिवारितः थुर्यॊधनॊ ऽभवन मध्ये रक्षितः कुरुपुंगवैः 26 हयानीकेन महता सौबलश चापि संवृतः परययौ सर्वसैन्येन कैतव्यश च महारदः 27 पाण्डवाश च महेष्वासा वयूह्य सैन्यम अरिंथमाः तरिधा भूत्वा महाराज तव सैन्यम उपाथ्रवन 28 धृष्टथ्युम्नः शिखण्डी च सत्यकिश च महारदः शलयस्य वाहिनीं तूर्णम अभिथुथ्रुवुर आहवे 29 ततॊ युधिष्ठिरॊ राजा सवेनानीकेन संवृतः शल्यम एवाभिथुथ्राव जिघांसुर भरतर्षभ 30 हार्थिक्यं तु महेष्वासम अर्जुनः शत्रुपूगहा संशप्तक गणांश चैव वेगतॊ ऽभिविथुथ्रुवे 31 गौतमं भीमसेनॊ वै सॊमकाश च महारदाः अभ्यथ्रवन्त राजेन्थ्र जिघांसन्तः परान युधि 32 माथ्रीपुत्रौ तु शकुनिम उलूकं च महारदौ ससैन्यौ सहसेनौ ताव उपतस्दतुर आहवे 33 तदैवायुतशॊ यॊधास तावकाः पाण्डवान रणे अभ्यथ्रवन्त संक्रुथ्धा विविधायुधपाणयः 34 [धृ] हते भीष्मे महेष्वासे थरॊणे कर्णे महारदे कुरु षवल्पावशिष्टेषु पाण्डवेषु च संयुगे 35 सुसंरब्धेषु पार्देषु पराक्रान्तेषु संजय मामकानां परेषां च किं शिष्टम अभवथ बलम 36 [स] यदा वयं परे राजन युथ्धाय समवस्दिताः यावच चासीथ बलं शिष्टं संग्रामे तन निबॊध मे 37 एकाथश सहस्राणि रदानां भरतर्षभ थश थन्ति सहस्राणि सप्त चैव शतानि च 38 पूर्णे शतसहस्रे थवे हयानां भरतर्षभ नरकॊट्यस तदा तिस्रॊ बलम एतत तवाभवत 39 रदानां षट सहस्राणि षट सहस्राश च कुञ्जराः थश चाश्वसहस्राणि पत्तिकॊटी च भारत 40 एतथ बलं पाण्डवानाम अभवच छेषम आहवे एत एव समाजग्मुर युथ्धाय भरतर्षभ 41 एवं विभज्य राजेन्थ्र मथ्रराजमते सदिताः पाण्डवान परत्युथीयाम जय गृथ्धाः परमन्यवः 42 तदैव पाण्डवाः शूराः समरे जितकाशिनः उपयाता नरव्याघ्राः पाञ्चालाश च यशस्विनः 43 एवम एते बलौघेन परस्परवधैषिणः उपयाता नरव्याघ्राः पूर्वां संध्यां परति परभॊ 44 ततः परववृते युथ्धं घॊररूपं भयानकम तावकानां परेषां च निघ्नताम इतरेतरम | | 1 [स] तद परववृते युथ्धं कुरूणां भयवर्धनम सृञ्जयैः सह राजेन्थ्र घॊरं थेवासुरॊपमम 2 नरा रदा गजौघाश च साथिनश च सहस्रशः वाजिनश च पराक्रान्ताः समाजग्मुः परस्परम 3 नागानां भीमरूपाणां थरवतां निस्वनॊ महान अश्रूयत यदाकाले जलथानां नभस्तले 4 नागैर अभ्याहताः के चित सरदा रदिनॊ ऽपतन वयथ्रवन्त रणे वीरा थराव्यमाणा मथॊत्कटैः 5 हयौघान पाथरक्षांश च रदिनस तत्र शिक्षिताः शरैः संप्रेषयाम आसुः परलॊकाय भारत 6 साथिनः शिक्षिता राजन परिवार्य महारदान विचरन्तॊ रणे ऽभयघ्नन परासशक्त्यृष्टिभिस तदा 7 धन्विनः पुरुषाः के चित संनिवार्य महारदान एकं बहव आसाथ्य परेषयेयुर यमक्षयम 8 नागं रदवरांश चान्ये परिवार्य महारदाः सॊत्तरायुधिनं जघ्नुर थरवमाणा महारवम 9 तदा च रदिनं करुथ्धं विकिरन्तं शरान बहून नागा जघ्नुर महाराज परिवार्य समन्ततः 10 नागॊ नागम अभिथ्रुत्य रदी च रदिनं रणे शक्तॊ तॊमरनाराचैर निजघ्नुस तत्र तत्र ह 11 पाथातान अवमृथ्नन्तॊ रदवारणवाजिनः रणमध्ये वयथृश्यन्त कुर्वन्तॊ महथ आकुलम 12 हयाश च पर्यधावन्त चामरैर उपशॊभिताः हंसा हिमवतः परस्दे पिबन्त इव मेथिनीम 13 तेषां तु वाजिनां भूमिः खुरैश चित्रा विशां पते अशॊभत यदा नारी करज कषतविक्षता 14 वाजिनां खुरशब्थेन रदे नेमिस्वनेन च पत्तीनां चापि शब्थेन नागानां बृह्मितेन च 15 वाथित्राणां च घॊषेण शङ्खानां निस्वनेन च अभवन नाथिता भूमिर निर्घातिर इव भारत 16 धनुषां कूजमानानां निस्त्रिंशानां च थीप्यताम कवचानां परभाभिश च न पराज्ञायत किं चन 17 बहवॊ बाहवश छिन्ना नागराजकरॊपमाः उथ्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति थारुणम 18 शिरसां च महाराज पततां वसुधातले चयुतानाम इव तालेभ्यः फलानां शरूयते सवनः 19 शिरॊभिः पतितैर भाति रुधिरार्थ्रैर वसुंधरा तपनीयनिभैः काले नलिनैर इव भारत 20 उथ्वृत्तनयनैस तैस तु गतसत्त्वैः सुविक्षतैः वयभ्राजत महाराज पुण्डरीकैर इवावृता 21 बाहुभिश चन्थनाथिग्धैः सकेयूरैर महाधनैः पतितैर भाति राजेन्थ्र मही शक्रध्वजैर इव 22 ऊरुभिश च नरेन्थ्राणां विनिकृत्तैर महाहवे हस्तिहस्तॊपमैर अन्यैः संवृतं तथ रणाङ्गणम 23 कबन्ध शतसंकीर्णं छत्त्र चामरशॊभितम सेना वनं तच छुशुभे वनं पुष्पाचितं यदा 24 तत्र यॊधा महाराज विचरन्तॊ हय अभीतवत थृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः 25 मातङ्गाश चाप्य अथृश्यन्त शरतॊमर पीडिताः पतन्तस तत्र तत्रैव छिन्नाभ्र सथृशा रणे 26 गजानीकं महाराज वध्यमानं महात्मभिः वयथीर्यत थिशः सर्वा वातनुन्ना घना इव 27 ते गजा घनसंकाशाः पेतुर उव्यां समन्ततः वज्ररुग्णा इव बभुः पर्वता युगसंक्षये 28 हयानां साथिभिः सार्धं पतितानां महीतले राशयः संप्रथृश्यन्ते गिरिमात्रास ततस ततः 29 संजज्ञे रणभूमौ तु परलॊकवहा नथी शॊणितॊथा रदावर्ता धवजवृक्षास्दि शर्करा 30 भुजनक्रा धनुः सरॊता हस्तिशैला हयॊपला मेथॊ मज्जा कर्थमिनी छत्त्र हंसा गथॊडुपा 31 कवचॊष्णीष संछन्ना पताका रुचिरथ्रुमा चक्रचक्रावली जुष्टा तरिवेणू थण्डकावृता 32 शूराणां हर्षजननी भीरूणां भयवर्धिनी परावर्तत नथी रौरा कुरुसृञ्जयसंकुला 33 तां नथीं पितृलॊकाय वहन्तीम अतिभैरवाम तेरुर वाहन नौभिस ते शूराः परिघबाहवः 34 वर्तमाने तदा युथ्धे निर्मर्याथे विशां पते चतुरङ्गक्षये घॊरे पूर्वं थेवासुरॊपमे 35 अक्रॊशन बान्धवान अन्ये तत्र तत्र परंतप करॊशथ्भिर बान्धवैश चान्ये भयार्ता न निवर्तिरे 36 निर्मर्याथे तदा युथ्धे वर्तमाने भयानके अर्जुनॊ भीमसेनश च मॊहयां चक्रतुः परान 37 सा वध्यमाना महती सेना तव जनाधिप अमुह्यत तत्र तत्रैव यॊषिन मथवशाथ इव 38 मॊहयित्वाच तां सेनां भिम सेनधनंजयौ थध्मतुर वारिजौ तत्र सिंहनाथं च नेथतुः 39 शरुत्वैव तु महाशब्थं धृष्टथ्युम्न शिखण्डिनौ धर्मराजं पुरस्कृत्य मथ्रराजम अभिथ्रुतौ 40 तत्राश्चर्यम अपश्याम घॊररूपं विशां पते शल्येन संगताः शूरा यथ अयुध्यन्त भागशः 41 माथ्रीपुत्रौ सरभसौ कृतास्त्रौ युथ्धथुर्मथौ अभ्ययातां तवरायुक्तौ जिगीषन्तौ बलं तव 42 ततॊ नयवर्तत बलं तावकं भरतर्षभ शरैः परणुन्नं बहुधा पाण्डवैर जितकाशिभिः 43 वथ्यमाना चमूः सा तु पुत्राणां परेक्षतां तव भेजे थिशॊ महाराज परणुन्ना थृढधन्विभिः हाहाकारॊ महाञ जज्ञे यॊधानां तव भारत 44 तिष्ठ तिष्ठेति वाग आसीथ थरावितानां महात्मनाम कषत्रियाणां तथान्यॊन्यं संयुगे जयम इच्छताम आथ्रवन्न एव भग्नास ते पाण्डवस तव सैनिकाः 45 तयक्त्वा युथ्धि परियान पुत्रान भरातॄन अद पितामहान मातुलान भागिनेयांश च तदा संबन्धिबान्धवान 46 हयान थविपांस तवरयन्तॊ यॊधा जग्मुः समन्ततः आत्मत्राण कृतॊत्साहास तावका भरतर्षभ | | 1 [स] तत पराभग्नं बलं थृष्ट्वा मथ्रराजः परतापवान उवाच सारदिं तूर्णं चॊथयाश्वान महाजवान 2 एष तिष्ठति वै राजा पाण्डुपुत्रॊ युधिष्ठिरः छत्त्रेण धरियमाणेन पाण्डुरेण विराजता 3 अत्र मां परापय कषिप्रं पश्या मे सारदे बलम न समर्दा हि मे कषिप्रं पश्य मे सारदे बलम न समर्दा हि मे पार्दाः सदातुम अथ्य पुरॊ युधि 4 एवम उक्तस ततः परायान मथ्रराजस्य सारदिः यत्र राजा सत्यसंधॊ धर्मराजॊ युधिष्ठिरः 5 आपतन्तं च सहसा पाण्डवानां महथ बलम थधारैकॊ रणे शल्यॊ वेलेवॊथ्धृतम अर्णवम 6 पाण्डवानां बलौघस तु शल्यम आसाथ्य मारिष वयतिष्ठत तथा युथ्धे सिन्धॊर वेग इवाचलम 7 मथ्रराजं तु समरे थृष्ट्वा युथ्धाय विष्ठितम कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनाम 8 तेषु राजन निवृत्तेषु वयूढानीकेषु भागशः परावर्तत महारौथ्रः संग्रामः शॊणितॊथकः समार्च्छच्च चित्रसेनेन नकुलॊ युथ्धथुर्मथः 9 तौ परस्परम आसाथ्य चित्रकार्मुकधारिणौ मेघाव इव यदॊथ्वृत्तौ थक्षिणॊत्तर वर्षिणौ 10 शरतॊयैः सिषिचतुस तौ परस्परम आहवे नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा 11 उभौ कृतास्त्रौ बलिनौ रदचर्या विशारथौ परस्परवधे यत्तौ छिथ्रान वेषणतत्परौ 12 चित्रसेनस तु भल्लेन पीतेना निशितेन च नकुलस्य महाराज मुष्टिथेशे ऽचछिनथ धनुः 13 अदैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः तरिभिः शरैर असंभ्रान्तॊ ललाटे वै समर्पयत 14 हयांश चास्य शरैस तीक्ष्णैः परेषयाम आस मृत्यवे तदा धवजं सारदिं च तरिभिस तरिभिर अपातयत 15 स शत्रुभुज निर्मुक्तैर ललाटस्दस तरिभिः शरैः नकुलः शुशुभे राजंस तरिशृङ्ग इव पर्वतः 16 स छिन्नधन्वा विरदः खड्गम आथाय चर्म च रदाथ अवतरथ वीरः शैलाग्राथ इव केसरी 17 पथ्भ्याम आपततस तस्य शरवृष्टिम अवासृजत नकुलॊ ऽपय अग्रसत्तां वै चर्माणा लघुविक्रमः 18 चित्रसेनरदं पराप्य चित्रयॊधी जितश्रमः आरुरॊह महाबाहुः सर्वसैन्यस्य पश्यतः 19 सकुण्डलं समुकुटं सुनसं सवायतेक्षणम चित्रसेनशिरः कायाथ अपाहरत पाण्डवः स पपात रदॊपस्दाथ थिवाकरसमप्रभः 20 चित्रसेनं विशस्तं तु थृष्ट्वा तत्र महारदाः साथ्धु वाथस्वनांश चक्रुः सिंहनाथांश च पुष्कलान 21 विशस्तं भरातरं थृष्ट्वा कर्ण पुत्रौ महारदौ सुषेणः सत्यसेनश च मुञ्चन्तौ निशिताञ शरान 22 ततॊ ऽभयधावतां तूर्णं पाण्डवं रदिनां वरम जिघांसन्तौ यदा नागं वयाघ्रौ राजन महावने 23 ताव अभ्यधावतां तीक्ष्णौ थवाव अप्य एनं महारदम शरौघान सम्यग अस्यन्तौ जीमूतौ सलिलं यदा 24 स शरैः सर्वतॊ विथ्धः परहृष्ट इव पाण्डवः अन्यत कार्मुकम आथाय रदम आरुह्य वीर्यवान अतिष्ठत रणे वीरः करुथ्ध रूप इवान्तकः 25 तस्य तौ भरातरौ राजञ शरैः संनतपर्वभिः रदं विशकलीकर्तुं समारब्धौ विशां पते 26 ततः परहस्य नकुलश चतुर्भिश चतुरॊ रणे जघान निशितैस तीक्ष्णैः सत्यसेनस्य वाजिनः 27 ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम धनुश चिच्छेथ राजेन्थ्र सत्यसेनस्य पाण्डवः 28 अदान्यं रदम आस्दाय धनुर आथाय चापरम सत्यसेनः सुषेणश च पाण्डवं पर्यधावताम 29 अविध्यत ताव असंभ्रान्तौ माथ्रीपुत्रः परतापवान थवाभ्यां थवाभ्यां महाराज शराभ्यां रणमूर्धनि 30 सुषेणस तु ततः करुथ्धः पाण्डवस्य महथ धनुः चिच्छेथ परहसन युथ्धे कषुरप्रेण महारदः 31 अदान्यथ धनुर आथाय नकुलः करॊधमूर्च्छितः सुषेणं पञ्चभिर विथ्ध्वा धवजम एकेन चिच्छिथे 32 सत्यसेनस्य च धनुर हस्तावापं च मारिष चिच्छेथ तरसा युथ्धे तत उच्चुक्रुशुर जनाः 33 अदान्यथ धनुर आथाय वेगघ्नं भारसाधनम शरैः संछाथयाम आस समन्तात पाण्डुनन्थनम 34 संनिवार्य तु तान बाणान नकुलः परवीरहा सत्यसेनं सुषेणं च थवाभ्यां थवाभ्याम अविध्यत 35 ताव एनं परत्यविध्येतां पृदक्पृदग अजिह्मगैः सारदिं चास्य राजेन्थ्र शरैर विव्यधतुः शितैः 36 सत्यसेनॊ रदेषां तु नकुलस्या धनुस तदा पृदक शराभ्यां चिच्छेथ कृतहस्तः परतापवान 37 स रदे ऽतिरदस तिष्ठन रदशक्तिं परामृशत सवर्णथण्डाम अकुण्ठाग्रां तैलधौतां सुनिर्मलाम 38 लेलिहानाम इव विभॊ नागकन्यां महाविषाम समुथ्यम्य च चिक्षेप सत्यसेनस्य संयुगे 39 सा तस्य हृथयं संख्ये बिभेथ शतधा नृप स पपात रदाथ भूमौ गतसत्त्वॊ ऽलपचेतनः 40 भरातरं निहतं थृष्ट्वा सुषेणः करॊधमूर्छितः अभ्यवर्षच छरैस तूर्णं पथातिं पाण्डुनन्थनम 41 नकुलं विरदं थृष्ट्वा थरौपथेयॊ महाबलः सुत सॊमॊ ऽभिथुथ्राव परीप्सन पितरं रणे 42 ततॊ ऽधिरुह्य नकुलः सुत सॊमस्य तं रदम शुशुभे भरतश्रेष्ठॊ गिरिस्द इव केसरी सॊ ऽनयत कार्मुकम आथाय सुषेणं समयॊधयत 43 ताव उभौ शरवर्षाभ्यां समासाथ्य परस्परम परस्परवधे यत्नं चक्रतुः सुमहारदौ 44 सुषेणस तु ततः करुथ्धः पाण्डवं विशिखैस तरिभिः सुत सॊमं च विंशत्या बाह्वॊर उरसि चार्पयत 45 ततः करुथ्धॊ महाराज नकुलः परवीरहा शरैस तस्य थिशः सर्वाश छाथयाम आस वीर्यवान 46 ततॊ गृहीत्वा तीक्ष्णाग्रम अर्धचन्थ्रं सुतेजनम स वेगयुक्तं चिक्षेप कर्ण पुत्रस्य संयुगे 47 तस्य तेना शिरः कायाज जहार नृपसत्तम पश्यतां सर्वसैन्यानां तथ अथ्भुतम इवाभवत 48 स हतः परापतथ राजन नकुलेन महात्मना नथीवेगाथ इवारुग्णस तीरजः पाथपॊ महान 49 कर्ण पुत्रवधं थृष्ट्वा नकुलस्य च विक्रमम परथुथ्राव भयात सेना तावकी भरतर्षभ 50 तां तु सेनां महाराज मथ्रराजः परतापवान अपालयथ रणे शूरः सेनापतिर अरिंथमः 51 विभीस तस्दौ महाराज वयवस्दाप्य च वाहिनीम सिंहनाथं भृशं कृत्वा धनुः शब्थं च थारुणम 52 तावकाः समरे राजन रक्षिताथृढ धन्वना परत्युथ्ययुर अरातींस ते समन्ताथ विगतव्यदाः 53 मथ्रराजं महेष्वासं परिवार्य समन्ततः सदिता राजन महासेना यॊथ्धुकामाः समन्ततः 54 सात्यकिर भिम सेनश च माथ्रीपुत्रौ च पाण्डवौ युधिष्ठिरं पुरस्कृत्य हरीनेषेधम अरिंथमम 55 परिवार्य रणे वीराः सिंहनाथं परचक्रिरे बाणशब्थरवांश चॊग्रान कष्वेडां च विविधान थधुः 56 तदैव तावकाः सर्वे मथ्राधिपतिम अञ्जसा परिवार्य सुसंरब्धाः पुनर युथ्धाम अरॊच्चयन 57 ततः परववृते युथ्धं भीरूणां भयवर्धनम तावकानां परेषां च मृत्युं कृत्वा निवर्तनम 58 यदा थेवासुरं युथ्धं पूर्वम आसीथ विशां पते अभीतानां तदा राजन यम राष्ट्रविवर्धनम 59 ततः कपिध्वजॊ राजन हत्वा संशप्तकान रणे अभ्यथ्रवत तां सेनां कौरवीं पाण्डुनन्थनः 60 तदैव पाण्डवाः शेषा धृष्टथ्युम्नपुरॊगमाः अभ्यधावन्त तां सेनां विसृजन्तः शिताञ शरान 61 पाण्डवैर अवकीर्णानां सांमॊहः समजायत न च जाज्ञुर अनीकानि थिशॊ वा परथिशस तदा 62 आपूर्यमाणा निशितैः शरैः पाण्डव चॊथितैः हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः कौरव्य अवध्यत चमूः पाण्डुपुत्रैर महारदैः 63 तदैव पाण्डवी सेना शरै राजन समन्ततः रणे ऽहन्यत पुत्रैस ते शतशॊ ऽद सहस्रशः 64 ते सेने भृशसंतप्ते वध्यमाने परस्परम वयाकुले समपथ्येतां वर्षासु सरिताव इव 65 आविवेश ततस तीव्रं तावकानां महथ भयम पाण्डवानां च राजेन्थ्र तदा भूते महाहवे | | 1 [स] तस्मिन विलुलिते सैन्ये वध्यमाने परस्परम थरवमाणेषु यॊधेषु निनथत्सु च थन्तिषु 2 कूजतां सतनतां चैव पथातीनां महाहवे विथ्रुतेषु महाराज हयेषु बहुधा तथा 3 परक्षये थारुणे जाते संहारे सर्वथेहिनाम नानाशस्त्रसमावापे वयतिषक्त रदथ्विपे 4 हर्षणे युथ्धशौण्डानां भीरूणां भयवर्धने गाहमानेषु यॊधेषु परस्परवधैषिषु 5 पराणाथाने महाघॊरे वर्तमाने थुरॊथरे संग्रामे घॊररूपे तु यम राष्ट्रविवर्धने 6 पाण्डवास तावकं सैन्यं वयधमन निशितैः शरैः तदैव तावका यॊधा जग्नुः पाण्डवसैनिकान 7 तस्मिंस तदा वर्तमाने युथ्धे भीरु भयावहे पूर्वाह्णे चैव संप्राप्ते भास्करॊथयनं परति 8 लब्धलक्षाः परे राजन रक्षिताश च महात्मना अयॊधयंस तव बलं मृत्युं कृत्वा निवर्तनम 9 बलिभिः पाण्डवैर थृप्तैर लब्धलक्षैः परहारिभिः कौरव्य असीथत पृतना मृगीवाग्निसमाकुला 10 तां थृष्ट्वा सीथतीं सेनां पङ्के गाम इव थुर्बलाम उज्जिहीर्षुस तथा शल्यः परायत पाण्डुचमूं परति 11 मथ्रराजस तु संक्रुथ्धॊ गृहीत्वा धनुर उत्तमम अभ्यथ्रवत संग्रामे पाण्डवान आततायिनः 12 पाण्डवाश च महाराज समरे जितकाशिनः मथ्रराजं समासाथ्य विव्यधुर निशितैः शरैः 13 ततः शरशतैस तीक्ष्णैर मथ्रराजॊ महाबलः अर्थयाम आस तां सेनां धर्मराजस्य पश्यतः 14 पराथुरासंस ततॊ राजन नानारूपण्य अनेकशः चचाल शब्थं कुर्वाणा मही चापि सपर्वता 15 सथण्ड शूला थीप्ताग्राः शीर्यमाणाः समन्ततः उल्का भूमिं थिवः पेतुर आहत्य रविमण्डलम 16 मृगश च माहिषाश चापि पक्षिणश च विशां पते अपसव्यं तथा चक्रुः सेनां ते बहुशॊ नृप 17 ततस तथ युथ्धम अत्युग्रम अभवत संघचारिणाम तद सर्वाण्य अनीकानि संनिपत्य जनाधिप अभ्ययुः कौरवा राजन पाण्डवानाम अनीकिनीम 18 शल्यस तु शरवर्षेण वर्षन्न इव सहस्रथृक अभ्यवर्षथ अथीनात्मा कुन्तीपुत्रं युधिष्ठिरम 19 भीमसेनं शरैश चापि रुक्मपुङ्खैः शिलाशितः थरौपथेयांस तदा सर्वान माथ्रीपुत्रौ च पाण्डवौ 20 धृष्टथ्युम्नं च शैनेयं शिखण्डिनम अदापि च एकैकं थशभिर बाणैर विव्याध च महाबलः ततॊ ऽसृजथ बाणवर्षं घर्मान्ते मघवान इव 21 ततः परभथ्रका राजन सॊमकाश च सहस्रशः पतिताः पात्यमानाश च थृश्यन्ते शल्य सायकैः 22 भरमराणाम इव वराताः शलभानाम इव वरजाः हराथिन्य इव मेघेभ्यः शल्यस्य नयपतञ शराः 23 थविरथास तुरगाश चार्ताः पत्तयॊ रदिनस तदा शल्यस्य बाणैर नयपतन बभ्रमुर वयनथंस तदा 24 आविष्ट इव मथ्रेशॊ मन्युना पौरुषेण च पराच्छाथयथ अरीन संख्ये कालसृष्ट इवान्तकः विनर्थमानॊ मथ्रेशॊ मेघह्राथॊ महाबलः 25 स वध्यमाना शल्येन पाण्डवानाम अनीकिनी अजातशत्रुं कौन्तेयम अभ्यधावथ युधिष्ठिरम 26 तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः शरवर्षेण महता युधिष्ठिरम अपीडयत 27 तम आपतन्तं पत्त्यश्वैः करुथ्धॊ राजा युधिष्ठिरः अवारयच छरैस तीक्ष्णैर मत्तं थविपम इवाङ्कुशैः 28 तस्य शल्यः शरं घॊरं मुमॊचाशीविषॊपमम सॊ ऽभयविध्यन महात्मानं वेगेनाभ्यपतच च गाम 29 ततॊ वृकॊथरः करुथ्धः शल्यं विव्याध सप्तभिः पञ्चभिः सहथेवस तु नकुलॊ थशभिः शरैः 30 थरौपथेयाश च शत्रुघ्नं शूरम आर्तायनिं शरैः अभ्यवर्षन महाभागं मेघा इव महीधरम 31 ततॊ थृष्ट्वा तुथ्यमानं शल्यं पार्दैः समन्ततः कृतवर्मा कृपश चैव संक्रुथ्धाव अभ्यधावताम 32 उलूकश च पतत्री च शकुनिश चापि सौबलः समयमानश च शनकैर अश्वत्दामा महारदः तव पुत्राश च कार्त्स्न्येन जुगुपुः शल्यम आहवे 33 भीमसेनं तरिभिर विथ्ध्वा कृतवर्मा शिलीमुखैः बाणवर्णेण महता करुथ्ध रूपम अवारयत 34 धृष्टथ्युम्नं कृपः करुथ्धॊ बाणवर्णैर अपीडयत थरौपथेयांश च शकुनिर यमौ च थरौणिर अभ्ययात 35 थुर्यॊधनॊ युधां शरेष्ठाव आहवे केशवार्जुनौ समभ्ययाथ उग्रतेजाः शरैश चाभ्यहनथ बली 36 एवं थवंथ्व शतान्य आसंस तवथीयानां परिः सह घॊररूपाणि चित्राणि तत्र तत्र विशां पते 37 ऋश्य वर्णाञ जघानाश्वान भॊजॊ भीमस्य संयुगे सॊ ऽवतीर्य रदॊपस्दाथ धताश्वः पाण्डुनन्थनः कालॊ थण्डम इवॊथ्यम्य गथापाणिर अयुध्यत 38 परमुखे सहथेवस्य जघानाश्वांश च मथ्रराट ततः शल्यस्य तनयं सहथेवॊ ऽसिनावधीत 39 गौतमः पुनर आचार्यॊ धृष्टथ्युम्नम अयॊधयत असंभ्रान्तम असंभ्रान्तॊ यत्नवान यत्नवत्तरम 40 थरौपथेयांस तदा वीरान एकैकं थशभिः शरैः अविध्यथ आचार्य सुतॊ नातिक्रुथ्धः समयन्न इव 41 शल्यॊ ऽपि राजन संक्रुथ्धॊ निघ्नन सॊमक पाण्डवान पुनर एव शितैर बाणैर युधिष्ठिरम अपीडयत 42 तस्य भीमॊ रणे करुथ्धः संथष्ट थशनच छथः विनाशायाभिसंधाय गथाम आथत्त वीर्यवान 43 यमथण्डप्रतीकाशां कलरात्रिम इवॊथ्यताम गजवाजिमनुष्याणां पराणान्त करणीम अपि 44 हेमपट्ट परिक्षिप्ताम उल्कां परज्वलिताम इव शैक्यां वयालीम इवात्युग्रां वज्रकल्पाम अयॊ मयीम 45 चन्थनागुरुपङ्काक्तां परमथाम ईप्सिताम इव वसा मेथॊ मृगाथिग्धां जिह्वां वैवस्वतीम इव 46 पटु घण्टा रव शतां वासवीम अशनीम इव निर्मुक्ताशीविषाकारां पृक्तां गजमथैर अपि 47 तरासनीं रिपुसैन्यानां सवसैन्यपरिहर्षिणीम मनुष्यलॊके विख्यातां गिरिशृङ्गविथारिणीम 48 यया कौलास भवने महेश्वर सखं बली आह्वयाम आस कौन्तेयः संक्रुथ्धम अलकाधिपम 49 यया मायाविनॊ थृप्तान सुबहून धनथालये जघान गुह्यकान करुथ्धॊ मन्थारार्दे महाबलः निवार्यमाणॊ बहुभिर थरौपथ्याः परियम आस्दितः 50 तां वज्रं मणिरत्नौघाम अष्टाश्रिं वज्रगौरवाम समुथ्यम्य महाबाहुः शल्यम अभ्यथ्थ्रवथ रणे 51 गथया युथ्धकुशलस तया थारुणनाथया पॊठयाम आस शल्यस्य चतुरॊ ऽशवान महाजवान 52 ततः शल्यॊ रणे करुथ्धः पीने वक्षसि तॊमरम निचखान नथन वीरॊ वर्म भित्त्वा च सॊ ऽभयगात 53 वृकॊथरस तव अस्मभ्रातस तम एवॊथ्धृत्य तॊमरम यन्तारं मथ्रराजस्य निर्बिभेथ ततॊ हृथि 54 स भिन्नवर्मा रुधिरं वमन वित्रस्तमानसः पपाताभिमुहॊ थीनॊ मथ्रराजस तव अपाक्रमत 55 कृतप्रतिकृतं थृष्ट्वा शल्यॊ विस्मितमानसः गथाम आश्रित्य धीरात्मा परत्यमित्रम अवैक्षत 56 ततः सुमनसः पार्दा भीमसेनम अपूजयन तथ थृष्ट्वा कर्मसंग्रामे घॊरम अक्लिष्टकर्मणः | | 1 [स] पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गथाम आथाय तरसा राजंस तस्दौ गिरिर इवाचलः 2 तं थीप्तम इव कालाग्निं पाशहस्तम इवान्तकम सशृङ्गम इव कौलासं सवज्रम इव वासवम 3 सशूलम इव हर्यक्षं वने मत्तम इव थविपम जवेनाभ्यपतथ भीमः परगृह्य महतीं गथाम 4 ततः शङ्खप्रणाथश च तूर्याणां च सहस्रशः सिंहनाथश च संजज्ञे शूराणां हर्षवर्धनः 5 परेक्षन्तः सर्वतस तौ हि यॊधा यॊधमहाथ्विपौ तावकाश च परे चैव साधु साध्व इत्य अदाब्रुवन 6 न हि मथ्राधिपाथ अन्यॊ रामाथ वा यथुनन्थनात सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे 7 तदा मथ्राधिपस्यापि गथा वेगं महात्मनः सॊढुम उत्सहते नान्यॊ यॊधॊ युधि वृकॊथरात 8 तौ वृषाव इव नर्थन्तौ मण्डलानि विचेरतुः आवल्गितौ गथाहस्तौ मथ्रराजवृकॊथरौ 9 मण्डलावर्त मार्गेषु गथा विहरणेषु च निर्विशेषम अभूथ युथ्धं तयॊः पुरुषसिंहयॊः 10 तप्तहेममयैः शुभ्रैर बभूव भयवर्धनी अग्निज्वालैर इवाविथ्धा पट्टैः शल्यस्य सा गथा 11 तदैव चरतॊ मार्गान मण्डलेषु महात्मनः विथ्युथ अभ्रप्रतीकाशा भीमस्य शुशुभे गथा 12 ताडिता मथ्रराजेन भीमस्य गथया गथा थीप्यमानेव वै राजन ससृजे पावकार्चिषः 13 तदा भीमेन शल्यस्य ताडिता गथया गथा अङ्गारवर्षं मुमुचे तथ अथ्भुतम इवाभवत 14 थन्तैर इव महानागौ शृङ्गैर इव महर्षभौ तॊत्त्रैर इव तथान्यॊन्यं गथा गराभ्यां निजघ्नतुः 15 तौ गथा निहतैर गात्रैः कषणेन रुधिरॊक्षितौ परेक्षणीयतराव आस्तां पुष्पिताव इव किंशुकौ 16 गथया मथ्रराजेन सव्यथक्षिणम आहतः भीमसेनॊ महाबाहुर न चचालाचलॊ यदा 17 तदा भीम गथा वेगैस ताड्यमानॊ मुहुर मुहुः शल्यॊ न विव्यदे राजन थन्तिनेवाहतॊ गिरिः 18 शुश्रुवे थिक्षु सर्वासु तयॊः पुरुषसिंहयॊः गथा निपातसंह्राथॊ वज्रयॊर इव निस्वनः 19 निवृत्य तु महावीर्यौ समुच्छ्रितगथाव उभौ पुनर अन्तरमार्गस्दौ मण्डलानि विचेरतुः 20 अदाभ्येत्य पथान्य अष्टौ संनिपातॊ ऽभवत तयॊः उथ्यम्य लॊहथण्डाभ्याम अतिमानुष कर्मणॊः 21 परार्दयानौ तथान्यॊ ऽनयं मण्डलानि विचेरतुः करियाविशेषं कृतिनौ थर्शयाम आसतुस तथा 22 अदॊथ्यम्य गथे घॊरे सशृङ्गाव इव पर्वतौ ताव आजघ्नातुर अन्यॊन्यं यदा भूमिचलॊ ऽचलौ 23 तौ परस्परवेगाच च गथाभ्यां च भृशाहतौ युगपत पेततुर वीराव उभाव इन्थ्रध्वजाव इव 24 उभयॊः सेनयॊर वीरास तथा हाहाकृतॊ ऽभवन भृशं मर्मण्य अभिहताव उभाव आस्तां सुविह्वलौ 25 ततः सगथम आरॊप्य मथ्राणाम ऋषभं रदे अपॊवाह कृपः शल्यं तूर्णम आयॊधनाथ अपि 26 कषीबवथ विह्वलत्वात तु निमेषात पुनर उत्दितः भीमसेनॊ गथापाणिः समाह्वयत मथ्रपम 27 ततस तु तावकाः शूरा नानाशस्त्रसमायुताः नाना वाथित्रशब्थेन पाण्डुसेनाम अयॊधयन 28 भुजाव उच्छ्रित्य शस्त्रं च शब्थेन महता ततः अभ्यथ्रवन महाराज थुर्यॊधन पुरॊगमाः 29 तथ अनीकम अभिप्रेक्ष्य ततस ते पाण्डुनन्थनाः परययुः सिंहनाथेन थुर्यॊधन वधेप्सया 30 तेषाम आपततां तूर्णं पुत्रस ते भरतर्षभ परासेन चेकितानं वै विव्याध हृथये भृशम 31 स पपात रदॊपस्दे तव पुत्रेण ताडितः रुधिरौघपरिक्लिन्नः परविश्य विपुलं तमः 32 चेकितानं हतं थृष्ट्वा पाण्डवानां महारदाः परसक्तम अभ्यवर्षन्त शरवर्षाणि भागशः 33 तावकानाम अनीकेषु पाण्डवा जितकाशिनः वयचरन्त महाराज परेक्षणीयाः समन्ततः 34 कृपश च कृतवर्मा च सौबलश च महाबलः अयॊधयन धर्मराजं मथ्रराजपुरस्कृताः 35 भारथ्वाजस्य हन्तारं भूरि वीर्यपराक्रमम थुर्यॊधनॊ महाराज धृष्टथ्युम्नम अयॊधयत 36 तरिसाहस्रा रदा राजंस तव पुत्रेण चॊथिताः अयॊधयन्त विजयं थरॊणपुत्र पुरस्कृताः 37 विजये धृतसंकाल्पाः समभित्यक्तजीविताः पराविशंस तावका राजन हंसा इव महत सरः 38 ततॊ युथ्धम अभूथ घॊरं परस्परवधैषिणाम अन्यॊन्यवधसंयुक्तम अन्यॊन्यप्रीतिवर्धनम 39 तस्मिन परवृत्ते संग्रामे राजन वीरवरक्षये अनिलेनेरितं घॊरम उत्तस्दौ पार्दिवं रजः 40 शरवणान नामधेयानां पाण्डवानां च कीर्तनात परस्परं विजानीमॊ ये चायुध्यन्न अभीतवत 41 तथ रजः पुरुषव्याघ्र शॊणितेन परशामितम थिशश च विमला जज्ञुस तस्मिन रजसि शामिते 42 तदा परवृत्ते संग्रामे घॊररूपे भयानके तावकानां परेषां च नासीत कश चित पराङ्मुखः 43 बरह्मलॊकपरा भूत्वा परार्दयन्तॊ जयं युधि सुयुथ्धेन पराक्रान्ता नराः सवर्गम अभिप्सवः 44 भर्तृपिण्ड विमॊक्ष अर्दं भर्तृकार्यविनिश्चिताः सवर्गसंसक्तमनसॊ यॊधा युयुधिरे तथा 45 नानारूपाणि शस्त्राणि विसृजन्तॊ महारदाः अन्यॊन्यम अभिगर्जन्तः परहरन्तः परस्परम 46 हतविध्यत गृह्णीत परहरध्वं निकृन्तत इति सम वाचः शरूयन्ते तव तेषां च वै बले 47 ततः शल्यॊ महाराज धर्मराजं युधिष्ठिरम विव्याध निशितैर बाणैर हन्तुकामॊ महारदम 48 तस्य पार्दॊ महाराज नाराचान वै महारदम मर्माण्य उथ्थिश्य मर्मज्ञॊ निचखान हसन्न इव 49 तं वार्य पाण्डवं बाणैर हन्तुकामॊ महायशाः विव्याध समरे करुथ्धॊ बहुभिः कङ्कपत्रिभिः 50 अद भूयॊ महाराज शरेण नतपर्वणा युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः 51 धर्मराजॊ ऽपि संक्रुथ्धॊ मथ्रराजं महायशाः विव्याध निशितैर बाणैः कङ्कबर्हिण वाजितैः 52 चन्थ्र सेनं च सप्तत्या सूतं च नवभिः शरैः थरुमसेनं चतुःषष्ट्या निजघान महारदः 53 चक्ररक्षे हते शल्यः पाण्डवेन महात्मना निजघान ततॊ राजंश चेथीन वै पञ्चविंशतिम 54 सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः माथ्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः 55 एवं विचरतस तस्य संग्रामे राजसत्तम संप्रेषयच छितान पार्तः शरान आशीविषॊपमान 56 धवजाग्रं चास्य समरे कुन्तीपुत्रॊ युधिष्ठिरः परमुखे वर्तमानस्य भल्लेनापहरथ रदात 57 पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना निपतन्तम अपश्याम गिरिशृङ्गम इवाहतम 58 धवजं निपतितं थृष्ट्वा पाण्डवं च वयवस्दितम संक्रुथ्धॊ मथ्रराजॊ ऽभूच छरवर्षं मुमॊच ह 59 शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षथ अमेयात्मा कषत्रियं कषत्रियर्षभः 60 सात्यकिं भीमसेनं च माथ्रीपुत्रौ च पाण्डवौ एकैकं पञ्चभिर विथ्ध्वा युधिष्ठिरम अपीडयत 61 ततॊ बाणमयं जालं विततं पाण्डवॊर असि अपश्याम महाराज मेघजालम इवॊथ्गतम 62 तस्या शल्यॊ रणे करुथ्धॊ बाणैः संनतपर्वभिः थिशः परच्छाथयाम आस परथिशश च महारदः 63 ततॊ युधिष्ठिरॊ राजा बाणजालेन पीडितः बभूव हृतविक्रान्तॊ जम्भॊ वृत्र हणा यदा | | 1 [स] पीडिते धर्मराजे तु मथ्रराजेन मारिष सात्यकिर भीमसेनश च माथ्रीपुत्रौ च पाण्डवौ परिवार्य रदैः शल्यां पीडयाम आसुर आहवे 2 तम एकं बहुभिर थृष्ट्व पीड्यमानं महारदैः साधुवाथॊ महाञ जज्ञे सिथ्धाश चासन परहर्षिताः आशर्यम इत्य अभाषान्त मुनयश चापि संगताः 3 भीमसेनॊ रणे शल्यं शल्य भूतं परांक्रमे एकेन विथ्ध्वा बाणेन पुनर विव्याध सप्तभिः 4 सात्यकिश च शतेनैनं धर्मपुत्र परीप्सया मथ्रेश्वरम अवाकीर्य सिंहनाथम अदानथत 5 नकुलः पञ्चभिश चैनां सहथेवश च सप्तभिः विथ्ध्वा तं तु ततस तूर्णं पुनर विव्याध सप्तभिः 6 स तु शूरॊ रणे यत्तः पीडितस तैर महारदैः विकृष्य कार्मुकं घॊरं वेगघ्नां भारसाधनम 7 सात्यकिं पञ्चविंशत्या शल्यॊ विव्याध मारिषा भीमसेनं तरिसाप्तत्या नकुलं सप्तभिस तदा 8 ततः सविशिखं चापं सहथेवस्य धन्विनः छित्त्वा भल्लेन समरे विव्याधैनं तरिसप्तभिः 9 सहथेवस तु समरे मतुलं भूरि वर्चसम सज्यम अन्यथ धनुः कृत्वा पञ्चभिः समताडयत शरैर आशीविषाकारैर जवलज जवलनसंनिभैः 10 सारदिं चास्य समरे शरेणानतपर्वणा वीव्याध भृशसंक्रुथ्धस तं च भूयस तरिभिः शरैः 11 भीमसेनस तरिसप्तत्या सात्यकिर नवभिः शरैः धर्मराजस तदा षष्ट्या गते शल्यं समर्पयत 12 ततः शल्यॊ महाराज निर्विथ्धस तैर महारदैः सुस्राव रुधिरं गात्रैर गैरिकं पर्वतॊ यदा 13 तांश च सर्वान महेष्वासान पञ्चभिः पञ्चभिः शरैः विव्याध तरसा राजंस तथ अथ्भुतम इवाभवत 14 ततॊ ऽपरेण भल्लेन धर्मपुत्रस्य मारिष धानुश चिच्छेथ समरे साज्यां स सुमहारदः 15 अदान्यथ धनुर आथाय धर्मपुत्रॊ महारदः साश्वसूत धवजरदं शल्यं पराच्छाथयच छरैः 16 सच छाथ्यमानः समरे धर्मपुत्रस्य सायकैः युधिष्ठिरम अदाविध्यथ थशभिर निशितैः शरैः 17 सात्यकिस तु ततः करुथ्धॊ धर्मा पुत्रे शरार्थिते मथ्राणाम अधिपं शूरं शरौघैः समवारयत 18 स सात्यकेः परचिच्छेथ कषुरप्रेण महथ धनुः भीमसेनमुखांस तांश च तरिभिस तरिभिर अताडयत 19 तस्य करुथ्धॊ महाराज सात्यकिः सत्यविक्रमः तॊमरं परेषयाम आस सवर्णा थण्डं महाधनम 20 भीमसेनॊ ऽद नाराचं जवलन्तम इव पन्नगम नकुलः समरे शक्तिं सहथेवॊ गथां शुभाम धर्मराजः शतघ्नीं तु जिग्घांसुः शल्यम आहवे 21 तान आपतत एवाशु पञ्चानां वै भुजच्युतान सात्यकिप्रहितं शल्यॊ भल्लैश चिच्छेथ तॊमरम 22 भीमेन परहितं चापि शरं कनकभूषणम थविधा चिच्छेथ समरे कृतहस्तः परतापवान 23 नकुल परेषितां शक्तिं हेमथण्डां भयावहाम गथां च सहथेवेन शरौघैः समवारयत 24 शराह्यां च शतघ्नीं तां राज्ञश चिच्छेथ भारत पश्यतां पाण्डुपुत्राणां सिंहनाथं ननाथ च नामृष्यत तं तु शैनेयः शत्रॊर विजयम आहवे 25 अदान्यथ धनुर आथाय सात्यकिः करॊधमूर्छितः थवाभ्यां मथ्रेश्वरं विथ्ध्वा सारदिं च तरिभिः शरैः 26 ततः शल्यॊ महाराज सर्वांस तान थशभिः शरैः विव्याध सुभृशं करुथ्धस तॊत्त्रैर इव महाथ्विपान 27 ते वार्यमाणाः समरे मथ्रराज्ञा महारदाः न शेकुः परमुखे सदातुं तस्य शत्रुनिषूथनाः 28 ततॊ थुर्यॊधनॊ राजा थृष्ट्वा शल्यस्य विक्रमम निहतान पाण्डवान मेने पाञ्चालान अद सृञ्जयान 29 ततॊ राजन महाबाहुर भीमसेनः परतापवान संत्यज्य मनसा पराणान मथ्राधिपम अयॊधयत 30 नकुलः सहथेवश च सात्यकिश च महारदः परिवार्य तथा शल्यं समन्ताथ वयकिरञ शरैः 31 स चतुर्भिर महेष्वासैः पाण्डवानां महारदैः वृतस तान यॊधयाम आसा मथ्रराजः परतापवान 32 तस्य धर्मसुतॊ राजन कषुरप्रेण महाहवे चक्ररक्षं जघानाशु मथ्रराजस्य पार्दिव 33 तस्मिंस तु निहते शूरे चक्ररक्षे महारदे मथ्रराजॊ ऽतिबलवान सैनिकान आस्तृणॊच छरैः 34 समाच्छन्नांस ततस तांस तु राजन वीक्ष्य स सैनिकान चिन्तयाम आस समरे धर्मराजॊ युधिष्ठिरः 35 कदं नु न भवेत सत्यं तन माधव वचॊ महत न हि करुथ्धॊ रणे राजा कषपयेत बलं मम 36 ततः सरद नागाश्वाः पाण्डवाः पण्डु पूर्वज मथ्रेश्वरं समासेथुः पीडयन्तः समन्ततः 37 नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्दिताम वयधमत समरे राजन महाभ्राणीव मारुतः 38 ततः कनकपुङ्खां तां शल्य कषिप्तां वियथ गताम शरवृष्टिम अपश्याम शलभानाम इवाततिम 39 ते शरा मथ्रराजेन परेषिता रणमूर्धनि संपतन्तः सम थृश्यन्ते शलभानां वरजा इव 40 मथ्रराजधनुर मुक्तैः शरैः कनकभूषणैः निरन्तरम इवाकाशं संबभूव जनाधिप 41 न पाण्डवानां नास्माकं तत्र कश चिथ वयथृश्यत बाणान्ध कारे महति कृते तत्र महाभये 42 मथ्रराजेन बलिना लाघवाच छरवृष्टिभिः लॊड्यमानं तदा थृष्ट्वा पाण्डवानां बलार्णवम विस्मयं परमं जग्मुर थेवगन्धर्वथानवाः 43 स तु तान सर्वतॊ यत्ताञ शरैः संपीड्य मारिष धर्मराजम अवच्छाथ्य सिंहवथ वयनथन मुहुः 44 ते छन्नाः समरे तेन पाण्डवानां महारदाः न शेकुस तं तथा युथ्धे परत्युथ्यातं महारदम 45 धर्मराज पुरॊगास तु भीमसेनमुखा रदाः न जहुः समरे शूरं शल्यम आहवशॊभिनम | | 1 [स] अर्जुनॊ थरौणिना विथ्धॊ युथ्धे बहुभिर आयसैः तस्य चानुचरैः शूरैस तरिगर्तानां महारदैः थरौणिं विव्याध समरे तरिभिर एव शिला मुखैः 2 तदेतरान महेष्वासान थवाभ्यां थवाभ्यां धनंजयः भूयश चैव महाबाहुः शरवर्षैर अवाकिरत 3 शरकण्टकितास ते तु तावका भरतर्षभ न जाहुः सामरे पार्दं वध्यमानाः शितैः शरैः 4 ते ऽरजुनं रदवंशेन थरॊणपुत्र पुरॊगमाः अयॊधयन्त समरे परिवार्य महारदाः 5 तैस तु कषिप्ताः शरा राजन कार्तस्वरविभूषिताः अर्जुनस्य रदॊपस्दं पूरयाम आसुर अञ्जसा 6 तदा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम शरैर वीक्ष्य वितुन्नाङ्गौ परहृष्टौ युथ्धथुर्मथौ 7 कूबरं रदचक्राणि ईषा यॊक्त्राणि चाभिभॊ युगं चैवानुकर्षं च शरभूतम अभूत तथा 8 नैताथृशं थृष्टपूर्वं राजन नैव च नः शरुतम याथृशं तत्र पार्दस्य तावकाः संप्रचक्रिरे 9 स रदः सर्वतॊ भाति चित्रपुङ्खैः शितैः शरैः उल्का शतैः संप्रथीप्तं विमानम इव भूतले 10 ततॊ ऽरजुनॊ महाराज शरैः संनतपर्वभिः अवाकिरत तां पृतनां मेघॊ वृष्ट्या यदाचलम 11 ते वध्यमानाः समरे पार्दा नामाङ्कितैः शरैः पार्द भूतम अमन्यन्त परेक्षामाणास तदाविधम 12 ततॊ ऽथभुतशरज्वालॊ धनुः शब्थानिलॊ महान सेनेन्धनं थथाहाशु तावकं पार्द पावकः 13 चक्राणां पाततां चैव युगानां च धरातले तूणीराणां पताकानां धवजानां च रदैः सह 14 ईषाणाम अनुकर्षाणां तरिवेणूनां च भारत अक्षाणाम अद यॊक्त्राणां परतॊथानां च सर्वशः 15 शिरसां पततां चैव कुण्डलॊष्णीष धारिणाम भुजानां च महाराज सकन्धानां च समन्ततः 16 छत्त्राणां वयजनैः सार्धं मुकुटानां च राशयः समथृश्यन्त पार्दस्य रदमार्गेषु भारत 17 अगम्यरूपा पृदिवी मांसशॊणितकर्थमा बभूव भरतश्रेष्ठ रुथ्रस्याक्रीडनं यदा भीरूणां तरासजननी शूराणां हर्षवर्धनी 18 हत्वा तु समरे पार्दः सहस्रे थवे परंतप रदानां सवरूदानां विधूमॊ ऽगनिर इव जवलन 19 यदा हि भगवान अग्निर जगथ थग्ध्वा चराचरम विधूमॊ थृश्यते राजंस तदा पार्दॊ महारदः 20 थरौणिस तु समरे थृष्ट्वा पाण्डवस्य पराक्रमम रदेनातिपताकेन पाण्डवं परत्यवारयत 21 ताव उभौ पुरुषव्याघ्रौ शवेताश्वौ धन्विनां वरौ समीयतुस तथा तूर्णं परस्परवधैषिणौ 22 तयॊर आसीन महाराज बाणवर्षं सुथारुणम जीमूतानां यदा वृष्टिर तपान्ते भरतर्षभ 23 अन्यॊन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः ततक्षतुर मृधे ऽनयॊन्यं शृङ्गाभ्यां वृषभाव इव 24 तयॊर युथ्धं महाराज चिरं समम इवाभवत अस्त्राणां संगमश चैव घॊरस तत्राभवन महान 25 ततॊ ऽरजुनं थवाथशभी रुक्मपुङ्खैः सुतेजनैः वासुथेवं च थशभिर थरौणिर विव्याध भारत 26 ततः परहस्य बीभत्सुर वयाक्षिपथ गाण्डिवं धनुः मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे 27 वयश्व सूत रदं चक्रे सव्यसाची महारदः मृथुपूर्वं ततश चैनं तरिभिर विव्याध सायकैः 28 हताश्वे तु रदे तिष्ठन थरॊणपुत्रस तव अयॊ मयम मुसलं पाण्डुपुत्राय चिक्षेप परिघॊपमम 29 तम आपतन्तं सहसा हेमपट्ट विभूषितम चिच्छेथ सप्तधा वीरः पार्तः शत्रुनिबर्हणः 30 स चछिन्नं मुसलं थृष्ट्वा थरौणिः परमकॊपनः आथथे परिघं घॊरं नगेन्थ्रशिखरॊपमम चिक्षेप चैव पार्दाय थरौणिर युथ्धविशारथः 31 तम अन्तकम इव करुथ्धं परिघं परेक्ष्य पाण्डवः अर्जुनस तवरितॊ जघ्ने पञ्चभिः सायकॊत्तमैः 32 स चछिन्नः पतितॊ भूमौ पार्द बाणैर महाहवे थारयन पृदिवीन्थ्राणां मनः शब्थेन भारत 33 ततॊ ऽपरैस तरिभिर बाणैर थरौणिं विव्याध पाण्डवः सॊ ऽतिविथ्धॊ बलवता पार्देन सुमहाबलः न संभ्रान्तस तथा थरौणिः पौरुषे सवे वयवस्दितः 34 सुधर्मा तु ततॊ राजन भारथ्वाजं महारदम अवाकिरच छरव्रातैः सर्वक्षत्रस्य पश्यतः 35 ततस तु सुरदॊ ऽपय आजौ पाञ्चालानां महारदः रदेन मेघघॊषेण थरौणिम एवाभ्यधावत 36 विकर्षन वै धनुःश्रेष्ठं सर्वभार सहं थृढम जवलनाशीविषनिभैः शरैश चैनम अवाकिरत 37 सुरदं तु ततः करुथ्धम आपतन्तं महारदम चुकॊप समरे थरौणिर थण्डाहत इवॊरगः 38 तरिशिखां भरुकुटीं कृत्वा सृक्किणी परिलेलिहन उथ्वीक्ष्य सुरदं रॊषाथ धनुर्ज्याम अवमृज्य च मुमॊच तीष्णं नाराचं यमथण्डसमथ्युतिम 39 स तस्य हृथयं भित्त्वा परविवेशातिवेगतः शक्राशनिर इवॊत्सृष्टा विथार्य धरणीतलम 40 ततस तं पतितं भूमौ नाराचेन समाहतम वज्रेणेव यदा शृङ्गं पर्वतस्य महाधनम 41 तस्मिंस तु निहते वीरे थरॊणपुत्रः परतापवान आरुरॊह रदं तूर्णं तम एव रदिनां वरः 42 ततः सज्जॊ महाराज थरौणिर आहवथुर्मथः अर्जुनं यॊधयाम आस संशप्तक वृतॊ रणे 43 तत्र युथ्धं महच चासीथ अर्जुनस्य परैः सह मध्यंथिनगते सूर्ये यम राष्ट्रविवर्धनम 44 तत्राश्चर्यम अपश्याम थृष्ट्वा तेषां पराक्रमम यथ एकॊ युगपथ वीरान समयॊधयथ अर्जुनः 45 विमर्थस तु महान आसीथ अर्जुनस्य परैः सह शतक्रतॊर यदापूर्वं महत्या थैत्य सेनया | | 1 [स] थुर्यॊधनॊ महाराज धृष्टथ्युम्नश च पर्षतः चक्रतुः सुमहथ युथ्धां शरशक्तिसमाकुलम 2 तयॊर आसन महाराज शरधाराः सहस्रशः अम्बुथानां यदाकाले जलधाराः समन्ततः 3 राजा तु पार्षतं विथ्ध्वा शरैः पञ्चभिर आयसैः थरॊण हन्तारम उग्रेषुः पुनर विव्याध सप्तभिः 4 धृष्टथ्युम्नस तु समरे बलवान थृढविक्रमः सप्तत्या विशिखानां वै थुर्यॊधनम अपीडयत 5 पीडितं परेक्ष्य राजानं सॊथर्या भरतर्षभ महत्या सेनया सार्धं परिवव्रुः सम पार्षतम 6 स तैः परिवृतॊ शूरैः सर्वतॊ ऽतिरदैर भृशम वयचरत समरे राजन थर्शयन हस्तलाघवम 7 शिखण्डी कृतवर्माणं गौतमं च महारदम परभथ्रकैः समायुक्तॊ यॊधयाम आस धन्विनौ 8 तत्रापि सुमहथ युथ्धं घॊररूपं विशां पते पराणान संत्यजतां युथ्धे पराणथ्यूताभिथेवने 9 शल्यस तु शरवर्षाणि विमुञ्चन सर्वतॊथिशम पाण्डवान पीडयाम आस ससात्यकि वृकॊथरान 10 तदॊभौ च यमौ युथ्धे यम तुल्यपराक्रमौ यॊधयाम आस राजेन्थ्र वीर्येण च बलेन च 11 शल्य सायकनुन्नानां पाण्डवानां महामृधे तरातारं नाध्यगच्छन्त केच चित तत्र महारदाः 12 ततस तु नकुलः शूरॊ धर्मराजे परपीडिते अभिथुथ्राव वेगेन मातुलं माथ्रिनन्थनः 13 संछाथ्य समरे शल्यं नकुलः परवीरहा विव्याध चैनं थशभिः समयमानः सतनान्तरे 14 सर्वपारशवैर बाणैः कर्मार परिमार्जितैः सवर्णपुङ्खैः शिला धौतैर धनुर यन्त्रप्रचॊथितैः 15 शल्यस तु पीडितस तेन सवस्त्रीयेण महात्मना नकुलं पीडयाम आस सवस्रीयेण महात्मना 16 ततॊ युधिष्ठिरॊ राजा भीमसेनॊ ऽद सात्यकिः सहथेवश च माथ्रेयॊ मथ्रराजम उपाथ्रवन 17 तान आपतत एवाशु पूरयानान रतः सवनैः थिशश च परथिशश चैव कम्पयानांश च मेथिनीम परतिजग्राह समरे सेनापतिर अमित्रजित 18 युधिष्ठिरं तरिभिर विथ्ध्वा भीमसेनं च सप्तभिः सात्यकिं च शतेनाजौ सहथेवं तरिभिः शरैः 19 ततस तु सशरं चापं नकुलस्य महात्मनः मथ्रेश्वरः कषुरप्रेण तथा चिच्छेथ मारिष तथ अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः 20 अदान्यथ धनुर आथाय माथ्रीपुत्रॊ महारदः मथ्रराजरदं तूर्णं पूरयाम आस पत्रिभिः 21 युधिष्ठिरस तु मथ्रेशं सहथेवश च मारिष थशभिर थशभिर बाणैर उरस्य एनम अविध्यताम 22 भीमसेनस ततः षष्ट्या सात्यकिर नवभिः शरैः मथ्रराजम अभिथ्रुत्य जघ्नतुः कङ्कपत्रिभिः 23 मथ्रराजस ततः करुथ्धः सात्यकिं नवभिः शरैः विव्याध भूयः सप्तत्या शराणां नतपर्वणाम 24 अदास्य सशरं चापं मुष्टौ चिच्छेथ मारिष हयांश च चतुरः संख्ये परेषयाम आस मृत्यवे 25 विरदं सात्यकिं कृत्वा मथ्रराजॊ महाबलः विशिखानां शतेनैनम आजघान समन्ततः 26 माथ्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम युधिष्ठिरं च कौरव्य विव्याध थशभिः शरैः 27 तत्राथ्भुतम अपश्याम मथ्रराजस्य पौरुषम यथ एनं सहिताः पार्दा नाभ्यवर्तन्त संयुगे 28 अदान्यं रदम आस्दाय सात्यकिः सत्यविक्रमः पीडितान पाण्डवान थृष्ट्वा मथ्रराजवशं गतान अभिथुथ्राव वेगेन मथ्राणाम अधिपं बली 29 आपतन्तं रदं तस्य शल्यः समितिशॊभनः परत्युथ्यतौ रदेनैव मत्तॊ मत्तम इव थविपम 30 स संनिपातस तुमुलॊ बभूवाथ्भुतथर्शनः सात्यकेश चैव शूरस्य मथ्राणाम अधिपस्य च याथृशॊ वै पुरावृत्तः शम्बरामर राजयॊः 31 सात्यकिः परेक्ष्य समरे मथ्रराजं वयवस्दितम विव्याध थशभिर बाणैस तिष्ठ तिष्ठेति चाब्रवीत 32 मथ्रराजस तु सुभृशं विथ्धस तेन महात्मना सात्यकिमं परतिविव्याध चित्रपुङ्खैः शितैः शरैः 33 ततः पार्दा महेष्वासाः सात्वताभिसृतं नृपम अभ्यथ्रवन रदैस तूर्णं मातुलं वधकाम्यया 34 तत आसीत परामर्थस तुमुलः शॊणितॊथकः शूराणां युध्यमानानां सिंहानाम इव नर्थताम 35 तेषाम आसीन महाराज वयतिक्षेपः परस्परम सिंहानाम आमिषेप्सूनां कूजताम इव संयुगे 36 तेषां बाणसहस्रौघैर आकीर्णा वसुधाभवत अन्तरिक्षं च सहसा बाणभूतम अभूत तथा 37 शरान्धकारं बहुधा कृतं तत्र समन्ततः अब्भ्रच छायेव संजज्ञे शरैर मुक्तैर महात्मभिः 38 तत्र राजञ शरैर मुक्तैर निर्मुक्तैर इव पन्नगैः सवर्णपुङ्खैः परकाशथ्भिर वयरॊचन्त थिशस तदा 39 तत्राथ्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः यथ एकः समरे शूरॊ यॊधयाम आस वै बहून 40 मथ्रराजभुजॊत्सृष्टैः कङ्कबर्हिण वाजितैः संपतथ्भिः शरैर घॊरैर अवाकीर्यत मेथिनी 41 तत्र शल्य रदं राजन विचरन्तं महाहवे अपश्याम यदापूर्वं शक्रस्यासुरसंक्षये | | 1 [स] तद सैन्यास तव विभॊ मथ्रराजपुरस्कृताः पुनर अभ्यथ्रवन पार्दान वेगेन महता रणे 2 पीडितास तावकाः सर्वे परधावन्तॊ रणॊत्कटाः कषणेनैव च पार्दांस ते बहुत्वात समलॊडयन 3 ते वध्यमानाः कुरुभिः पाण्डवा नावतस्दिरे निवार्यमाणा भीमेन पश्यतॊः कृष्ण पार्दयॊः 4 ततॊ धनंजयः करुथ्धाः कृपं सह पथानुगैः अवाकिरच छरौघेण कृतवर्माणम एव च 5 शकुनिं सहथेवस तु सह सैन्यम अवारयत नकुलः पार्श्वतः सदित्वा मथ्रराजम अवैक्षत 6 थरौपथेया नरेन्थ्रांश च भूयिष्ठं समवारयन थरॊणपुत्रं च पाञ्चाल्यः शिखाण्डी समवारयत 7 भीमसेनस तु राजानं गथापाणिर अवारयत शल्यं तु सह सैन्येन कुन्तीपुत्रॊ युधिष्ठिरः 8 ततः समभवथ युथ्धं संसक्तं तत्र तत्र ह तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम 9 तत्र पश्यामहे कर्म शल्यस्यातिमहथ रणे यथ एकः सर्वसैन्यानि पाण्डवानाम अयुध्यत 10 वयथृश्यत तथा शल्यॊ युधिष्ठिर समीपतः रणे चन्थ्रसमॊ ऽभयाशे शरैश चर इव गरहः 11 पीडयित्वा तु राजानं शरैर आशीविषॊपमैः अभ्यधावत पुनर भीमं शरवर्षैर अवाकिरत 12 तस्य तल लाघवं थृष्ट्वा तदैव च कृतास्त्रताम अपूजयन्न अनीकानि परेषां तावकानि च 13 पीड्यमानास तु शल्येन पाण्डवा भृशविक्षताः पराथ्रवन्त रणं हित्वा करॊशमाने युधिष्ठिरे 14 वध्यमानेष्व अनीकेषु मथ्रराजेन पाण्डवः अमर्षवशम आपन्नॊ धर्मराजॊ युधिष्ठिरः ततः पौरुषम आस्दाय मथ्रराजम अपीडयत 15 जयॊ वास्तु वधॊ वेति कृतबुथ्धिर महारदः समाहूयाब्रवीत सर्वान भरातॄन कृष्णं च माधवम 16 भीष्मॊ थरॊणश च कर्णश च ये चान्ये पृदिवीक्षितः कौरवार्दे पराक्रान्ताः संग्रामे निधनं गताः 17 यदाभागं यदॊत्साहं भवन्तः कृतपौरुषाः भागॊ ऽवशिष्ट एकॊ ऽयं मम शल्यॊ महारदः 18 सॊ ऽहम अथ्य युधा जेतुम आशंसे मथ्रकेश्वरम तत्र यन मानसं मह्यं तत सार्वं निगथामि वः 19 चक्ररक्षाव इमौ शूरौ मम माथ्रवतीसुतौ अजेयौ वासवेनापि समरे वीर संमतौ 20 साध्व इमौ मातुलं युथ्धे कषत्रधर्मपुरस्कृतौ मथर्दं परतियुध्येतां मानार्हौ सत्यसंगरौ 21 मां वा शल्यॊ रणे हन्ता तं वाहं भथ्रम अस्तु वः इति सत्याम इमां वाणीं लॊकवीरा निबॊधत 22 यॊत्स्ये ऽहं मातुलेनाथ्य कषत्रधर्मेण पार्दिवाः सवयं समभिसंधाय विजयायेतराय वा 23 तस्य मे ऽभयधिकं शस्त्रं सर्वॊपकरणानि च संयुञ्जन्तु रणे कषिप्रं शास्त्रवथ रदयॊजकाः 24 शैनेयॊ थक्षिणं चक्रं धृष्टथ्युम्नस तदॊत्तरम पृष्ठगॊपॊ भवत्व अथ्य मम पार्दॊ धनंजयः 25 पुरःसरॊ ममाथ्यास्तु भीमः शस्त्रभृतां वरः एवम अभ्यधिकः शल्याथ भविष्यामि महामृधे 26 एवम उक्तास तदा चक्रुः सर्वे राज्ञः परियैषिणः तद परहर्षः सैन्यानां पुनर आसीत तथा नृप 27 पाञ्चालानां सॊमकानां मत्स्यानां च विशेषतः परतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन 28 ततः शङ्खांश च भेरीश च शतशश चैव पुष्करान अवाथयन्त पाञ्चालाः सिंहनाथांश च नेथिरे 29 ते ऽभयधावन्त संरब्धा मथ्रराजं तरस्विनः महता हर्षजेनाद नाथेन कुरुपुंगवाः 30 हराथेन गजघण्टानां शङ्खानां निनथेन च तूर्यशब्थेन महता नाथयन्तश च मेथिनीम 31 तान परत्यगृह्णात पुत्रस ते मथ्रराजश च वीर्यवान महामेघान इव बहूञ शैलाव अस्तॊथयाव उभौ 32 शल्यस तु समरश्लाघी धर्मराजम अरिंथमम ववर्ष शरवर्षेण वर्षेण मघवान इव 33 तदैव कुरुराजॊ ऽपि परगृह्य रुचिरं धनुः थरॊणॊपथेशान विविधान थर्शयानॊ महामनाः 34 ववर्षा शरवर्षाणि चित्रं लघु च सुष्ठु च न चास्य विवरं कश चिथ थथर्श चरतॊ रणे 35 ताव उभौ विविधैर बाणैस ततक्षाते परस्परम शार्थूलाव आमिष परेप्षू पराक्रान्ताव इवाहवे 36 भीमस तु तव पुत्रेण रणशौण्डेन संगतः पाञ्चाल्यः सात्यकिश चैव माथ्रीपुत्रौ च पाण्डवौ शकुनिप्रमुखान वीरान परत्यगृह्णन समन्ततः 37 तथ आसीत तुमुलं युथ्धं पुनर एव जयैषिणाम तावकातां परेषां च राजन थुर्मन्त्रिते तव 38 थुर्यॊधनस तु भीमस्य शरेणानतपर्वणा चिच्छेथाथिश्य संग्रामे धवजं हेमविभूषितम 39 सकिङ्किणिक जालेन महता चारुथर्शनः पपात रुचिरः सिंहॊ भीमसेनस्य नानथन 40 पुनश चास्य धनुश चित्रं गजराजकरॊपमम कषुरेण शितधारेण परचकर्त नराधिपः 41 सच्छिन्नधन्वा तेजस्वी रदशक्त्या सुतं तव बिभेथॊरसि विक्रम्य स रदॊपस्द आविशत 42 तस्मिन मॊहम अनुप्राप्ते पुनर एव वृकॊथरः यन्तुर एव शिरः कायात कषुरप्रेणाहरत तथा 43 हतसूता हयास तस्य रदम आथाय भारत वयथ्रवन्त थिशॊ राजन हाहाकारस तथाभवत 44 तम अभ्यधावत तराणार्दं थरॊणपुत्रॊ महारदः कृपश च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः 45 तस्मिन विलुलिते सैन्ये तरस्तास तस्य पथानुगाः गाण्डीवधन्वा विस्फार्य धनुस तान अहनच छरैः 46 युधिष्ठिरस तु मथ्रेशम अभ्यधावथ अमर्षितः सवयं संचॊथयन्न अश्वान थन्तवर्णान मनॊजवान 47 तत्राथ्भुतम अपश्याम कुन्तीपुत्रे युधिष्ठिरे पुरा भूत्वा मृथुर थान्तॊ यत तथा थारुणॊ ऽभवत 48 विवृताक्षश च कौन्तेयॊ वेपमानश च मन्युना चिच्छेथ यॊधान निशितैः शरैः शतसहस्रशः 49 यां यां परत्युथ्ययौ सेनां तां तां जयेष्ठः स पाण्डवः शरैर अपातयथ राजन गिरीन वज्रैर इवॊत्तमैः 50 साश्वसूत धवजरदान रदिनः पातयन बहून आक्रीडथ एकॊ बलवान पवनस तॊयथान इव 51 साश्वारॊहांश च तुरगान पत्तींश चैव सहस्रशः वयपॊदयत संग्रामे करुथ्धॊ रुथ्रः पशून इव 52 शून्यम आयॊधनं कृत्वा शरवर्षैः समन्ततः अभ्यथ्रवत मथ्रेशं तिष्ठ शल्येति चाब्रवीत 53 तस्य तच चरितं थृष्ट्वा संग्रामे भीमकर्मणः वित्रेसुस तावकाः सर्वे शल्यस तव एनं समभ्ययात 54 ततस तौ तु सुसंरब्धौ परध्माप्य सलिलॊथ्भवौ सामाहूय तथान्यॊन्यं भर्त्सयन्तौ समीयतुः 55 शल्यस तु शरवर्षेण युधिष्ठिरम अवाकिरत मथ्रराजं च कौन्तेयः शरवर्षैर अवाकिरत 56 वयथृश्येतां तथा राजन कङ्कपत्रिभिर आहवे उथ्भिन्न रुधिरौ शूरौ मथ्रराजयुधिष्ठिरौ 57 पुष्पिताव इव रेजाते वने शल्मलि किंशुका थीप्यामानौ महात्मानौ पराणयॊर युथ्धथुर्मथौ 58 थृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस तयॊर जयम हत्वा मथ्राधिपं पार्दॊ भॊक्ष्यते ऽथय वसुंधराम 59 शल्यॊ वा पाण्डवं हत्वा थथ्याथ थुर्यॊधनाय गाम इतीव निश्चयॊ नाभूथ यॊधानां तत्र भारत 60 परथक्षिणम अभूत सर्वं धर्मराजस्य युध्यतः 61 ततः शरशतं शल्यॊ मुमॊचाशु युधिष्ठिरे धनुश चास्य शिताग्रेण बाणेन निरकृन्तत 62 सॊ ऽनयत कार्मुकम आथाय शल्यं शरशतैस तरिभिः अविध्यत कार्मुकं चास्य कषुरेण निरकृन्तत 63 अदास्य निजघानाश्वांश चतुरॊ नतपर्वभिः थवाभ्याम अद शिताग्राभ्याम उभौ च पार्ष्णिसारदी 64 ततॊ ऽसय थीप्यमानेन पीतेन निशितेन च परमुखे वर्तमानस्य भल्लेनापाहरथ धवजम ततः परभग्नं तत सैन्यं थौर्यॊधनम अरिंथम 65 ततॊ मथ्राधिपं थरौणिर अभ्यधावत तदा कृतम आरॊप्य चैनं सवरदं तवरमाणः परथुथ्रुवे 66 मुहूर्तम इव तौ गत्वा नर्थमाने युधिष्ठिरे सदित्वा ततॊ मथ्रपतिर अन्यं सयन्थनम आस्दितः 67 विधिवत कल्पितं शुभ्रं महाम्बुथ निनाथिनम सज्जयन्त्रॊपकरणं थविषतां लॊमहर्षणम | | 1 [स] अदान्यथ धनुर आथाय बलवथ वेगवत्तरम युधिष्ठिरं मथ्रपतिर विथ्ध्वा सिंह इवानथत 2 ततः स शरवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षथ अमेयात्मा कषत्रियान कषत्रियर्षभः 3 सात्यकिं थशभिर विथ्ध्वा भीमसेनं तरिभिः शरैः सहथेवं तरिभिर विथ्ध्वा युधिष्ठिरम अपीडयत 4 तांस तान अन्यान महेष्वासान साश्वान सरद कुञ्जरान कुञ्जरान कुञ्जरारॊहान अश्वान अश्वप्रयायिनः रदांश च रदिभिः सार्धं जघान रदिनां वरः 5 बाहूंश चिच्छेथ च तदा सायुधान केतनानि च चकार च महीं यॊधैस तीर्णां वेथीं कुशैर इव 6 तदा तम अरिसैन्यानि घनन्तं मृत्युम इवान्तकम परिवव्रुर भृशं करुथ्धाः पाण्डुपाञ्चाल सॊमकाः 7 तं भीमसेनश च शिनेश च नप्ता; माध्र्याश च पुत्रौ पुरुषप्रवीरौ समागतं भीमबलेन राज्ञा; पर्यापुर अन्यॊन्यम अदाह्वयन्तः 8 ततस तु शूराः समरे नरेन्थ्रं; मथ्रेश्वरं पराप्य युधां वरिष्ठम आवार्या चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर उग्रवेगैः 9 संरक्षितॊ भीमसेनेन राजा; माथ्री सुताभ्याम अद माधवेन मथ्राधिपं पत्रिभिर उग्रवेगैः; सतनान्तरे धार्म सुतॊ निजघ्ने 10 ततॊ रणे तावकनां रदौघाः; सामीक्ष्य मथ्राधिपतिं शरार्तम पर्यावव्रुः परवराः सर्वशश च; थुर्यॊधनस्यानुमते समन्तात 11 ततॊ थरुतं मथ्रजनाधिपॊ रणे; युधिष्ठिरं सप्तभिर अभ्यविध्यत तं चापि पार्दॊ नवभिः पृषत्कैर; विव्याध राजंस तुमुले महात्मा 12 आकर्णपूर्णायत संप्रयुक्तैः; शरैस तथा संयति तैलधौतैः अन्यॊन्यम आच्छाथयतां महारदौ; मथ्राधिपश चापि युधिष्ठिरश च 13 ततस तु तूर्णं समरे महारदौ; परस्परस्यान्तरम ईक्षमाणौ शरैर भृशं विव्यधतुर नृपॊत्तमौ; महाबलौ शत्रुभिर अप्रधृष्यौ 14 तयॊर धनुर्ज्यातलनिस्वनॊ महान; महेन्थ्रवज्राशनितुल्यनिस्वनः परस्परं बाणगणैर महात्मनॊः; परवर्षतॊर मथ्रप पाण्डुवीरयॊः 15 तौ चेरतुर वयाघ्रशिशु परकाशौ; महावनेष्व आमिष गृथ्धिनाव इव विषाणिनौ नागवराव इवॊभौ; ततक्षतुः संयुगजातथर्पौ 16 ततस तु मथ्राधिपतिर महात्मा; युधिष्ठिरं भीमबलं परसह्य विव्याध वीरं हृथये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण 17 ततॊ ऽतिविथ्धॊ ऽद युधिष्ठिरॊ ऽपि; सुसंप्रयुक्तेन शरेण राजन जघान मथ्राधिपतिं महात्मा; मुथं च लेभे ऋषभः कुरूणाम 18 ततॊ मुहूर्ताथ इव पार्दिवेन्थ्रॊ; लब्ध्वा संज्ञां करॊधा संरक्तनेत्रः शतेन पार्दं तवरितॊ जघान; सहस्रनेत्र परतिमप्रभावः 19 तवरंस ततॊ धर्मसुतॊ महात्मा; शल्यस्य करुथ्धॊ नवभिः पृषत्कैः भित्त्वा हय उरस तपनीयं च वर्म; जघान षड्भिस तव अपरैः पृषात्कैः 20 ततस तु मथ्राधिपतिः परहृष्टॊ; धनुर विकृष्य वयसृजत पृषत्कान थवाभ्यां कषुराभ्यां च तदैव राज्ञश; चिच्छेथ चापं कुरुपुंगवस्य 21 नवं ततॊ ऽनयत सामरे परगृह्य; राजा धनुर घॊरतरं महात्मा शल्यं तु विथ्ध्वा निशितैः समन्तथ; यदा महेन्थ्रॊ नमुचिं शिताग्रैः 22 ततस तु शल्यॊ नवभिः पृषत्कैर; भीमस्य राज्ञश च युधिष्ठिरस्य निकृत्य रौक्मे पटु वर्मणी तयॊर; विथारयाम आस भुजौ महात्मा 23 ततॊ ऽपरेण जवलितार्क तेजसा; कषुरेण राज्ञॊ धनुर उन्ममाद कृपश च तस्यैव जघान सूतं; षड्भिः शरैः सॊ ऽभिमुखं पपात 24 मथ्राधिपश चापि युधिष्ठिरस्य; शरैश चतुर्भिर निजघान वाहान वाहांश च हत्वा वयकरॊन महात्मा; यॊधक्षयं धर्मसुतस्य राज्ञः 25 तदा कृते राजनि भीमसेनॊ; मथ्राधिपस्याशु ततॊ महात्मा छित्त्वा धनुर वेगवता शरेण; थवाभ्याम अविध्यत सुभृशं नरेन्थ्रम 26 अदापरेणास्य जहार यन्तुः; कायाच छिरः संनहनीयमध्यात जघान चाश्वांश चतुरः स शीघ्रं; तदा भृशं कुपितॊ भीमसेनः 27 तम अग्रणीः सर्वधनुर्धराणाम; एकं चरन्तं सामरे ऽतिवेगम भीमः शतेन वयकिरच छराणां; माथ्रीपुत्रः सहथेवस तदैव 28 तैः सायकैर मॊहितं वीक्ष्य शल्यं; भीमः शरैर अस्य चकर्त वर्म स भीमसेनेन निकृत्तवर्मा; मथ्राधिपश चर्म सहस्रतारम 29 परगृह्य खड्गं च रदान महात्मा; परस्कन्थ्य कुन्तीसुतम अभ्यधावत छित्त्व रदेषां नकुलस्य सॊ ऽद; युधिष्ठिरं भीमबलॊ ऽबभ्यधावत 30 तं चापि राजानम अदॊत्पतन्तं; करुथ्धां यदैवान्तकम आपतन्तम धृष्टथ्युम्नॊ थरौपथेयाः शिखण्डी; शिनेश च नप्ता सहसा परीयुः 31 अदास्य चर्माप्रतिमं नयकृन्तथ; भीमॊ महात्मा थशभिः पृषत्कः खड्गं च भल्लैर निचकर्त मुष्टौ; नथन परहृष्टस तव सिन्यमध्ये 32 तत कर्म भीमस्य समीक्ष्य हृष्टास; ते पाण्डवानां परवरा रदौघाः नाथं च चक्रुर भृशम उत्स्मयन्तः; शङ्खांश च थध्मुः शशिसंनिकाशान 33 तेनाद शब्थेन विभीषणेन; तवाभितप्तं बलम अप्रहृष्टम सवेथाभिभूतं रुधिरॊक्षिताङ्गं; विसंज्ञकल्पं च तदा विषाण्णम 34 स मथ्रराजः सहसावकीर्णॊ; भीमाग्रगैः पाण्डव यॊधमुख्यैः युधिष्ठिरस्याभिमुखं जवेन; सिंहॊ यदा मृगहेतॊः परयातः 35 स धर्मराजॊ निहताश्वसूतं; करॊधेन थीप्तज्वलन परकाशम थृष्ट्वा तु मथ्राधिपतिं स तूर्णं; समभ्यधावत तम अरिं बलेन 36 गॊविन्थ वाक्यं तवरितं विचिन्त्य; थध्रे मतिं शल्य विनाशनाय स धर्मराजॊ निहताश्वसूते; रदे तिष्ठञ शक्तिम एवाभिकाङ्क्षन 37 तच चापि शल्यस्या निशम्य कर्म; महात्मनॊ भगम अदावशिष्टम समृत्वा मानः शल्य वधे यतात्मा; यदॊक्तम इन्थ्रावरजस्य चक्रे 38 स धर्मराजॊ मणिहेमथण्डां; जग्राह शक्तिं कनकप्रकाशाम नेत्रे च थीप्ते सहसा विवृत्य; मथ्राधिपं करुथ्धा मना निरैक्षत 39 निरीक्षितॊ वै नरथेव राज्ञा; पूतात्मना निर्हृत कल्मषेण अभून न यथ भस्मसान मथ्रराजस; तथ अथ्भुतं मे परतिभाति राजन 40 ततस तु शक्तिं रुचिरॊग्र थण्डां; मणिप्रवलॊज्ज्वलितां परथीप्ताम चिक्षेप वेगात सुभृशं महात्मा; मथ्राधिपाय परवरः कुरूणाम 41 थीप्ताम अदैनां महता बलेन; सविस्फु लिङ्गां सहसा पतन्तीम परैक्षन्त सर्वे कुरवः समेता; यदा युगान्ते महतीम इवॊल्काम 42 तां कालरात्रीम इव पाशहस्तां; यमस्य धत्रीम इव चॊग्ररूपाम सब्रह्म थण्डप्रतिमाम अमॊघां; ससर्ज यत्तॊ युधि धर्मराजः 43 गन्धस्रग अग्र्यासन पानभॊजनैर; अभ्यर्चितां पाण्डुसुतैः परयत्नात संवर्तकाग्निप्रतिमां जवलन्तीं; कृत्याम अदर्वाङ्गिरसीम इवॊग्राम 44 ईशान हेतॊः परतिनिर्मितां तां; तवष्टा रिपूणाम असुथेह भक्षाम भूम्यन्तरिक्षाथि जलाशयानि; परसह्य भूतानि निहन्तुम ईशाम 45 घण्टा पताका मणिवज्र भाजं; वैडूर्य चित्रां तपनीयथण्डाम तवष्ट्रा परयत्नान नियमेन कॢप्तां; बरह्म थविषाम अन्तकरीम अमॊघाम 46 बलप्रयत्नाथ अधिरूढ वेगां; मन्त्रैश च घॊरैर अभिमन्त्रयित्वा ससर्ज मार्गेण च तां परेण; वधाय मथ्राधिपतेर तथानीम 47 हतॊ ऽसय असाव इत्य अभिगर्जमानॊ; रुथ्रॊ ऽनतकायान्त करं यदेषुम परसार्य बाहुं सुथृढं सुपाणिं; करॊधेन नृत्यन्न इवा धार्म राजः 48 तां सर्वशक्त्या परहितां स शक्तिं; युधिष्ठिरेणाप्रति वार्य वीर्याम परतिग्रहायाभिननर्थ शल्यः; सम्यग घुताम अग्निर इवाज्य धाराम 49 सा तस्य मर्माणि विथार्य शुभ्रम; उरॊ विशालं च तदैव वर्म विवेश गां तॊयम इवाप्रसक्ता; यशॊ विशालं नृपतेर थहन्ती 50 नासाक्षि कर्णास्य विनिःसृतेन; परस्यन्थता च वरणसंभवेन संसिक्त गात्रॊ रुधिरेण सॊ ऽभूत; करौञ्चॊ यदा सकन्थ हतॊ महाथ्रिः 51 परसार्य बाहू स रदाथ गतॊ गां; संछिन्नवर्मा कुरुनन्थनेन महेन्थ्र वाहप्रतिमॊ महात्मा; वज्राहतं शृङ्गम इवाचलस्य 52 बाहू परसार्याभिमुखॊ धर्मराजस्य मथ्रराट ततॊ निपतितॊ भूमाव इन्थ्रध्वज इवॊच्छ्रितः 53 स तदा भिन्नसर्वाङ्गॊ रुधिरेण समुक्षितः परत्युथ्गत इव परेम्णा भूम्या सा नरपुंगवः 54 परियया कान्तया कान्तः पतमान इवॊरसि चिरं भुक्त्वा वसुमतीं परियां कान्ताम इव परभुः सर्वैर अङ्गैः समाश्लिष्य परसुप्त इव सॊ ऽभवत 55 धर्म्ये धर्मात्मना युथ्धे निहतॊ धर्मसूनुना सम्यग घुत इव सविष्टः परशान्तॊ ऽगनिर इवाध्वरे 56 शक्त्या विभिन्नहृथयं विप्र विथ्धायुध धवजम संशान्तम अपि मथ्रेशं लक्ष्मीर नैव वयमुञ्चत 57 ततॊ युधिष्ठिरश चापम आथायेन्थ्र धनुष्प्रभम वयधमथ थविषतः संख्ये खग राड इव पन्नगान थेहासून निशितैर भल्लै रिपूणां नाशयन कषणात 58 ततः परार्दस्य बाणौघैर आवृताः सैनिकास तव निमीलिताक्षाः कषिण्वन्तॊ भृशम अन्यॊन्यम अर्थिताः संन्यस्तकवचा थेहैर विपत्रायुध जीविताः 59 ततः शल्ये निपतिते मथ्रराजानुजॊ युवा भरातुः सर्वैर गुणैस तुल्यॊ रदी पाण्डवम अभ्ययात 60 विव्याध च नरश्रेष्ठॊ नाराचैर बहुभिस तवरन हतस्यापचितिं भरातुश चिकीर्षुर युथ्धथुर्मथः 61 तं विव्याधाशुगैः षड्भिर धर्मराजस तवरन्न इव कार्मुकं चास्य चिच्छेथ कषुराभ्यां धवजम एव च 62 ततॊ ऽसय थीप्यमानेन सुथृढेन शितेन च परमुखे वर्तमानस्य भल्लेनापाहरच छिरः 63 सुकुण्डलं तथ थथृशे पतमानं शिरॊ रदात पुण्यक्षयम इव पराप्य पतन्तं सवर्गवासिनम 64 तस्यापकृष्ट शीर्षं तच छरीरं पतितं रदात रुधिरेणावसिक्ताङ्गं थृष्ट्वा सैन्यम अभज्यत 65 विचित्रकवचे तस्मिन हते मथ्रनृपानुजे हाहाकारं विकुर्वाणाः कुरवॊ विप्रथुथ्रुवुः 66 शल्यानुजं हतं थृष्ट्वा तावकास तयक्तजीविताः वित्रेसुः पाण्डव भयाथ रजॊध्वस्तास्स तदा भृषम 67 तांस तदा भज्यतस तरस्तान कौरवान भरतर्षभ शिनेर नप्ता किरन बाणैर अभ्यवर्तत सात्यकिः 68 तम आयान्तं महेष्वासम अप्रसह्यं थुरासथम हार्थिक्यस तवरितॊ राजन परत्यगृह्णाथ अभीतवत 69 तौ समेतौ महात्मानौ वार्ष्णेयाव अपराजितौ हार्थिक्यः सात्यकिश चैव सिंहाव इव मथॊत्कटौ 70 इषुभिर विमलाभासैश छाथयन्तौ परस्परम अर्चिर्हिर इव सूर्यस्य थिवाकरसमप्रभौ 71 चापमार्गबलॊथ्धूतान मार्गणान वृष्णिसिंहयॊः आकाशे समपश्याम पतंगान इव शीघ्रगान 72 सात्यकिं थशभिर विथ्ध्वा हयांश चास्य तरिभिः शरैः चापम एकेन चिच्छेथ हार्थिक्यॊ नतपर्वणा 73 तन निकृत्तं धनुःश्रेष्ठम अपास्य शिनिपुंगवः अन्यथ आथत्त वेगेन वेगवत्तरम आयुधम 74 तथ आथाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम हार्थिक्यं थशभिर बाणैः परत्यविध्यत सतनान्तरे 75 ततॊ रदं युगेषां च छित्त्वा भल्लैः सुसंयतैः अश्वांस तस्यावधीत तूर्णम उभौ च पार्ष्णिसारदी 76 मथ्रराजे हते राजन्विरदे कृतवर्मणि थुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम 77 तत्परे नावबुध्यन्त सैन्येन रजसा वृते बलं तु हतभूयिष्ठं तत तथासीत पराङ्मुखम 78 ततॊ मुहूर्तात ते ऽपश्यन रजॊ भौमं समुत्दितम विविधैः शॊणितस्रावैः परशान्तं पुरुषर्षभ 79 ततॊ थुर्यॊधनॊ थृष्ट्वा भग्नं सवबलम अन्तिकात जवेनापततः पार्दान एकः सर्वान अवारयत 80 पाण्डवान सरदान थृष्ट्वा धृष्टथ्युम्नं च पार्षतम आनर्तं च थुराधर्षं शितैर बाणैर अवाकिरत 81 तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इव आगतम अदान्यं रदम आस्दाय हार्थिक्यॊ ऽपि नयवर्तत 82 ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारदः चतुर्भिर निजघानाश्वान पत्रिभिः कृतवर्मणः विव्याध गौतमं चापि षड्भिर भल्लैः सुतेजनैः 83 अश्वत्दामा ततॊ राज्ञा हताश्वं विरदी कृतम समपॊवाह हार्थिक्यं सवरदेन युधिष्ठिरात 84 ततः शारथ्वतॊ ऽषटाभिः परत्यविध्यथ युधिष्ठिरम विव्याध चाश्वान निशितैस तस्याष्टाभिः शिलीमुखैः 85 एवम एतन महाराज युथ्धशेषम अवर्तत तव थुर्मन्त्रिते राजन सहपुत्रस्य भारत 86 तस्मिन महेष्वास वरे विशस्ते; संग्राममध्ये कुरुपुंगवेन पर्दाः समेताः परमप्रहृष्टाः; शङ्खान परथध्मुर हतम ईक्ष्य शल्यम 87 युधिष्ठिरं च परशशंसुर आजौ; पुरा सुरा वृत्रवधे यदेन्थ्रम चक्रुश च नानाविध वाथ्य शब्थान; निनाथयन्तॊ वसुधां समन्तात | | 1 [स] शल्ये तु निहते राजन मथ्रराजपथानुगाः रदाः सप्तशता वीरा निर्ययुर महतॊ बलात 2 थुर्यॊधनस तु थविरथम आरुह्याचलसंनिभम छत्त्रेण धरियमाणेन वीज्यमानश च चामरैः न गन्तव्यं न गन्तव्यम इति मथ्रान अवारयत 3 थुर्यॊधनेन ते वीरा वार्यमाणाः पुनः पुनः युधिष्ठिरं जिघांसन्तः पाण्डूनां पराविशन बलम 4 ते तु शूरा महाराज कृतचित्ताः सम यॊधने धनुः शब्थं महत कृत्वा सहायुध्यन्त पाण्डवैः 5 शरुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम मथ्रराजप्रिये युक्तैर मथ्रकाणां महारदैः 6 आजगाम ततः पार्दॊ गाण्डीवं विक्षिपन धनुः पूरयन रदघॊषेण थिशः सर्वा महारदः 7 ततॊ ऽरजुनश च भीमश च माथ्रीपुत्रौ च पाण्डवौ सात्यकिश च नरव्याघ्रॊ थरौपथेयाश च सर्वशः 8 धृष्टथ्युम्नः शिखण्डी च पाञ्चालाः सह सॊमकैः युधिष्ठिरं परीप्सन्तः समन्तात पर्यवारयन 9 ते समन्तात परिवृताः पाण्डवैः पुरुषर्षभाः कषॊभयन्ति सम तां सेनां मकराः सागरं यदा 10 पुरॊ वातेन गङ्गेव कषॊभ्यमाना महानथी अक्षॊभ्यत तथा राजन पाण्डूनां धवजिनी पुनः 11 परस्कन्थ्य सेनां महतीं तयक्तात्मानॊ महारदाः वृक्षान इव महावाताः कम्पयन्ति सम तावकाः 12 बहवश चुक्रुशुस तत्र कव स राजा युधिष्ठिरः भरातरॊ वास्य ते शूरा थृश्यन्ते न ह के चन 13 पाञ्चालानां महावीर्याः शिखण्डी च महारदः धृष्टथ्युम्नॊ ऽद शैनेयॊ थरौपथेयाश च सर्वशः 14 एवं तान वाथिनः शूरान थरौपथेया महारदाः अह्यघ्नन युयुधानश च मथ्रराजपथानुगान 15 चक्रैर विमदितैः के चित के चिच छिन्नैर मह धवजैः परत्यथृश्यन्त समरे तावका निहताः परैः 16 आलॊक्य पाण्डवान युथ्धे यॊधा राजन समन्ततः वार्यमाणा ययुर वेगात तव पुत्रेण भारत 17 थुर्यॊधनस तु तान वीरान वारयाम आस सान्त्वयन न चास्य शासनं कश चित तत्र चक्रे महारदः 18 ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत थुर्यॊधनं महाराज वचनं वचनक्षमः 19 किं नः संप्रेक्षमाणानां मथ्राणां हन्यते बलम न युक्तम एतत समरे तवयि तिष्ठति भारत 20 सहितैर नाम यॊथ्धव्यम इत्य एषा समयः कृतः अद कस्मात परान एव घनतॊ मर्षयसे नृप 21 [थुर] वार्यमाणा मया पूर्वं नैते चक्रुर वचॊ मम एते हि निहताः सर्वे परस्कन्नाः पाण्डुवाहिनीम 22 [षकुनि] न भर्तुः शासनं वीरा रणे कुर्वन्त्य अमर्षिताः अलं करॊथ्धुं तदैतेषां नायं काल उपेक्षितुम 23 यामः सर्वे ऽतर संभूय सवाजिरदकुञ्जराः परित्रातुं महेष्वासान मथ्रराजपथानुगान 24 अन्यॊन्यं परिरक्षामॊ यत्नेन महता नृप एवं सर्वे ऽनुसंचिन्त्य परययुर यत्र सैनिकाः 25 [स] एवम उक्तस ततॊ राजा बलेना महता वृतः परययौ सिंहनाथेन कम्पयन वै वसुंधराम 26 हतविध्यत गृह्णीत परहरध्वं निकृन्तत इत्य आसीत तुमुलः शब्थस तव सैन्यस्य भारत 27 पाण्डवास तु रणे थृष्ट्वा मथ्रराजपथानुगान सहितान अभ्यवर्तन्त गुल्मम आस्दाय मध्यमम 28 ते मुहूर्ताथ रणे वीरा हस्ताहस्तं विशां पते निहताः परत्यथृश्यन्त मथ्रराजपथानुगाः 29 ततॊ नः संप्रयातानां हतामित्रास तरस्विनः हृष्टाः किलकिला शब्थम अकुर्वन सहिताः परे 30 अदॊत्दितानि रुण्डानि समथृश्यन्त सर्वशः पपात महती चॊल्का मध्येनाधित्य मण्डलम 31 रदैर भग्नैर युगाक्षैश च निहतैश च महारदैः अश्वैर निपतितैश चैव संछन्नाभूथ वसुंधरा 32 वातायमानैस तुरगैर युगासक्तैस तुरंगमैः अथृश्यन्त महाराज यॊधास तत्र रणाजिरे 33 भग्नचक्रान रदान के चिथ अवहंस तुरगा रणे रदार्दं के चिथ आथाय थिशॊ थशविबभ्रमुः तत्र तत्र च थृश्यन्ते यॊक्त्रैः शलिष्टाः सम वाजिनः 34 रदिनः पतमानाश च वयथृश्यन्त नरॊत्तम गगनात परच्युताः सिथ्धाः पुण्यानाम इव संक्षये 35 निहतेषु च शूरेषु मथ्रराजानुगेषु च अस्मान आपततश चापि थृष्ट्वा पार्द महारदाः 36 अभ्यवर्तन्त वेगेन जय गृध्राः परहारिणः बाणशब्थरवान कृत्वा विमिश्राञ शङ्खनिस्वनैः 37 अस्मांस तु पुनर आसाथ्य लब्धलक्षाः परहारिणः शरासनानि धुन्वानाः सिंहनाथान परचुक्रुशुः 38 ततॊ हतम अभिप्रेक्ष्य मथ्रराजबलं महत मथ्रराजं च समरे थृष्ट्वा शूरं निपातितम थुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम 39 वध्यमानं महाराज पाण्डवैर जितकाशिभिः थिशॊ भेथे ऽद संभ्रान्तं तरासितं थृढधन्विभिः | | 1 [स] पातिते युधि थुर्धर्षॊ मथ्रराजे महारदे तावकास तव पुत्राश च परायशॊ विमुखाभवन 2 वणिजॊ नावि भिन्नायां यदागाधे ऽपलवे ऽरणवे अपारे पारम इच्छन्तॊ हते शूरे महात्मनि 3 मथ्रराजे महाराज वित्रस्ताः शरविक्षताः अनादा नादम इच्छन्तॊ मृगाः सिंहार्थिता इव 4 वृषा यदा भग्नशृङ्गाः शीर्णथन्ता गजा इव मध्याह्ने परत्यपायाम निर्जिता धर्मसूनुना 5 न संधातुम अनीकानि न च राजन पराक्रमे आसीथ बुथ्धिर हते शल्ये तव यॊधस्य कस्य चित 6 भीष्मे थरॊणे च निहते सूतपुत्रे च भारत यथ थुःखं तव यॊधानां भयं चासीथ विशां पते तथ्भयं स च नः शॊकॊ भूय एवाभ्यवर्तत 7 निरशाश च जये तस्मिन हते शल्ये महारदे हतप्रवीरा विध्वस्ता विकृत्ताश च शितैः शरैः मथ्रराजे हते राजन यॊधास ते पराथ्रवन भयात 8 अश्वान अन्ये गजान अन्ये रदान अन्ये महारदाः आरुह्य जवसंपन्नाः पाथाताः पराथ्रवन भयात 9 थविसाहस्राश च मातङ्गा गिरिरूपाः परहारिणः संप्राथ्रवन हते शल्ये अङ्कुशाङ्गुष्ठ चॊथिताः 10 ते रणाथ भरतश्रेष्ठ तावकाः पराथ्रवन थिशः धावन्तश चाप्य अथृश्यन्त शवसमानाः शरातुलाः 11 तान परभग्नान थरुतान थृष्ट्वा हतॊत्साहान पराजितान अभ्यथ्रवन्त पाञ्चालाः पाण्डवाश च जयैषिणः 12 बाणशब्थरवश चापि सिंहनाथश च पुष्कलः शङ्खशब्थश च शूराणां थारुणः समपथ्यत 13 थृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं परविथ्रुतम अन्यॊन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह 14 अथ्य राजा सत्यधृतिर जितामित्रॊ युधिष्ठिरः अथ्य थुर्यॊधनॊ हीना थीप्तया नृपतिश्रिया 15 अथ्य शरुत्वा हतं पुत्रं धृतराष्ट्रॊ जनेश्वरः निःसंज्ञः पतितॊ भूमौ किल्बिषं परतिपथ्यताम 16 अथ्य जानातु कौन्तेयं समर्दं सर्वधन्विनाम अथ्यात्मानं च थुर्मेधा गर्हयिष्यति पापकृत अथ्य कषत्तुर वचः सत्यं समरतां बरुवतॊ हितम 17 अथ्य परभृति पार्दांश च परेष्यभूत उपाचरन विजानातु नृपॊ थुःखं यत पराप्तं पाण्डुनन्थनैः 18 अथ्य कृष्णस्य माहात्म्यं जानातु स महीपतिः अथ्यार्जुन धनुर घॊषं घॊरं जानातु संयुगे 19 अस्त्राणां च बलं सर्वं बाह्वॊश च बलम आहवे अथ्य जञास्यति भीमस्य बलं घॊरं महात्मनः 20 हते थुर्यॊधने युथ्धे शक्रेणेवासुरे मये यत्कृतं भीमसेनेन थुःखासन वधे तथा नान्यः कर्तास्ति लॊके तथ ऋते भीमं महाबलम 21 जानीताम अथ्य जयेष्ठस्य पाण्डवस्य पराक्रमम मथ्रराजं हतं शरुत्वा थेवैर अपि सुथुःसहम 22 अथ्य जञास्यति संग्रामे माथ्रीपुत्रौ महाबलौ निहते सौबले शूरे गान्धारेषु च सर्वशः 23 कदं तेषां जयॊ न सयाथ येषां यॊथ्धा धनंजयः सात्यकिर भीमसेनश च धृष्टथ्युम्नश च पार्षतः 24 थरौपथ्यास तनयाः पञ्च माथ्रीपुत्रौ च पाण्डवौ शिखण्डी च महेष्वासॊ राजा चैव युधिष्ठिरः 25 येषां च जगतां नादॊ नादः कृष्णॊ जनार्थनः कदं तेषां जयॊ न सयाथ येषां धर्मॊ वयपाश्रयः 26 भीष्मं थरॊणं च कर्णं च मथ्रराजानम एव च तहान्यन नृपतीन वीराञ शतशॊ ऽद सहस्रशः 27 कॊ ऽनयः शक्तॊ रणे जेतुम ऋते पार्दं युधिष्ठिरम यस्य नादॊ हृषीकेशः सथा धर्मयशॊ निधिः 28 इत्य एवं वथमानास ते हर्षेण महता युताः परभग्नांस तावकान राजन सृञ्जयाः पृष्ठतॊ ऽनवयुः 29 धनंजयॊ रदानीकम अभ्यवर्तत वीर्यवान माथ्रीपुत्रौ च शकुनिं सात्यकिश च महारदः 30 तान परेक्ष्य थरवतः सर्वान भीमसेनभयार्थितान थुर्यॊधनस तथा सूतम अब्रवीथ उत्स्मयन्न इव 31 न मातिक्रमते पार्दॊ धनुष्पाणिम अवस्दितम जघने सर्वसैन्यानां ममाश्वान परतिपाथय 32 जघने युध्यमानं हि कौन्तेयॊ मां धनंजयः नॊत्सहेताभ्यतिक्रान्तुं वेलाम इव महॊथधिः 33 पश्य सैन्यं महत सूत पाण्डवैः समभिथ्रुतम सैन्यरेणुं समुथ्धूतं पश्यस्वैनं समन्ततः 34 सिंहनाथांश च बहुशः शृणु घॊरान भयानकान तस्माथ याहि शनैः सूत जघनं परिपालय 35 मयि सदिते च समरे निरुथ्धेषु च पाण्डुषु पुनरावर्तते तूर्णं मामकं बलम ओजसा 36 तच छरुत्वा तव पुत्रस्य शूराग्र्य सथृशं वचः सारदिर हेमसंछन्नाञ शनैर अश्वान अचॊथयत 37 गजाश्वरदिभिर हीनास तयक्तात्मानः पथातयः एकविंशतिसाहस्राः संयुगायावतस्दिरे 38 नानाथेशसमुथ्भूता नान रञ्जित वाससः अवस्दितास तथा यॊधाः परार्दयन्तॊ महथ यशः 39 तेषाम आपततां तत्र संहृष्टानां परस्परम संमर्थः सुमहाञ जज्ञे घॊररूपॊ भयानकः 40 भीमसेनं तथा राजन घृष्टथ्युम्नं च पार्षतम बलेन चतुरङ्गेण नानाथेश्या नयवारयन 41 भीमम एवाभ्यवर्तन्त रणे ऽनये तु पथातयः परक्ष्वेड्यास्फॊट्य संहृष्टा वीरलॊकं यियासवः 42 आसाथ्य भीमसेनं तु संरब्धा युथ्धथुर्मथाः धार्तराष्ट्रा विनेथुर हि नान्यां चाकदयन कदाम परिवार्य रणे भीमं निजघ्नुर ते समन्ततः 43 स वध्यमानः समरे पथातिगणसंवृतः न चचाल रदॊपस्दे मैनाक इव पर्वतः 44 ते तु करुथ्धा महाराज पाण्डवस्य महारदम निग्रहीतुं परचक्रुर हि यॊधांश चान्यान अवारयन 45 अक्रुध्यत रणे भीमस तैस तथा पर्यवस्दितैः सॊ ऽवतीर्य रदात तूर्णं पथातिः समवस्दितः 46 जातरूपपरिच्छन्नां परगृह्य महतीं गथाम अवधीत तावकान यॊधान थण्डपाणिर इवान्तकः 47 रदाश्वथ्विपहीनांस तु तान भीमॊ गथया बली एकविंशतिसाहस्रान पथातीन अवपॊदयत 48 हत्वा तत पुरुषानीकं भीमः सत्यपराक्रमः धृष्टथ्युम्नं पुरस्कृत्य नचिरात परत्यथृश्यत 49 पाथाता निहता भूमौ शिश्यिरे रुधिरॊक्षिताः संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः 50 नानापुष्पस्रजॊपेता नाना कुण्डलधारिणः नाना जात्या हतास तत्र नाथा थेशसमागताः 51 पताकाध्वजसंछन्नं पथातीनां महथ बलम निकृत्तं विबभौ तत्र घॊररूपं भयानकम 52 युधिष्ठिरपुरॊगास तु सर्वसैन्यमहारदाः अभ्यधावन महात्मानं पुत्रं थुर्यॊधनं तव 53 ते सर्वे तावकान थृष्ट्वा महेष्वासान पराङ्मुखान नाभ्यवर्तन्त ते पुत्रं वेलेव मकलालयम 54 तथ अथ्भुतम अपश्याम तव पुत्रस्य पौरुषम यथ एकं सहिताः पार्दा न शेकुर अतिवर्तितुम 55 नातिथूरापयातं तु कृतबुथ्धिं पलायने थुर्यॊधनः सवकं सैन्यम अब्रवीथ भृशविक्षतम 56 न तं थेशं परपश्यामि पृदिव्यां पर्वतेषु वा यत्र यातान न वॊ हन्युः पाण्डवाः किं सृतेन वः 57 अल्पं च बलम एतेषां कृष्णौ च भृशविक्षतौ यथि सर्वे ऽतर तिष्ठामॊ धरुवॊ नॊ विजयॊ भवेत 58 विप्रयातांस तु वॊ भिन्नान पाण्डवाः कृतकिल्बिषान अनुसृत्य हनिष्यन्ति शरेयॊ नः समरे सदितम 59 शृणुध्वं कषत्रियाः सर्वे यावन्तः सद समागताः यथा शूरं च भीरुं च मारयत्य अन्तकः सथा कॊ नु मूढॊ न युध्येत पुरुषः कषत्रिय बरुवः 60 शरेयॊ नॊ भीमसेनस्य करुथ्धस्य परमुखे सदितम सुखः सांग्रामिकॊ मृत्युः कषत्रधर्मेण युध्यताम जित्वेह सुखम आप्नॊति हतः परेत्य महत फलम 61 न युथ्धधर्माच छरेयान वै पन्दाः सवर्गस्य कौरवाः अचिरेण जिताँल लॊकान हतॊ युथ्धे समश्नुते 62 शरुत्वा तु वचनं तस्य पूजयित्वा च पार्दिवाः पुनर एवान्ववर्तन्त पाण्डवान आततायिनः 63 तान आपतत एवाशु वयूढानीकाः परहारिणः परत्युथ्ययुस तथा पार्दा जय गृध्राः परहारिणः 64 धनंजयॊ रदेनाजाव अभ्यवर्तत वीर्यवान विश्रुतं तरिषु लॊकेषु गाण्डीवं विक्षिपन धनुः 65 माथ्रीपुत्रौ च शकुनिं सात्यकिश च महाबलः जवेनाभ्यपतन हृष्टा यतॊ वै तावकं बलम | | 1 [स] संनिवृत्ते बलौघे तु शाल्वॊ मलेच्छ गणाधिपः अभ्यवर्तत संक्रुथ्धः पाण्डूनां सुमहथ बलम 2 आस्दाय सुमहानागं परभिन्नं पर्वतॊपमम थृप्तम ऐरावत परख्यम अमित्रगणमर्थनम 3 यॊ ऽसौ महाभथ्र कुलप्रसूतः; सुपूजितॊ धार्तराष्ट्रेण नित्यम सुकल्पितः शास्त्रविनिश्चयज्ञैः; सथॊपवाह्यः समरेषु राजन 4 तम आस्दितॊ राजवरॊ बभूव; यदॊथयस्दः सविता कषपान्ते स तेन नागप्रवरेण राजन्न; अभ्युथ्ययौ पाण्डुसुतान समन्तात शितैः पृषात्कैर विथथार चापि; महेन्थ्रवज्रप्रतिमैः सुघॊरैः 5 ततः शरान वै सृजतॊ महारणे; यॊधांश च राजन नयतॊ यमाय नास्यान्तरं थथृशुः सवे परे वा; यदा पुरा वज्रधरस्य थैत्याः 6 ते पाण्डवाः सॊमकाः सृञ्जयाश च; तम एव नागं थथृशुः समन्तात सहस्रशॊ वै विचरन्तम एकं; यदा महेन्थ्रस्य गजं समीपे 7 संथ्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात नैवावतस्दे समरे भृशं भयाथ; विमर्थमानं तु परस्परं तथा 8 ततः परभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन थिशश चतस्रः सहसा परधाविता; गजेन्थ्र &