| 0 नारायणं नमस्कृत्य नरं चैव नरॊत्तमम थेवीं सरस्वतीं चैव ततॊ जयम उथीरयेत 1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर थवाथशवार्षिके सत्रे 2 समासीनान अभ्यगच्छथ बरह्मर्षीन संशितव्रतान विनयावनतॊ भूत्वा कथा चित सूतनन्थनः 3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः चित्राः शरॊतुं कदास तत्र परिवव्रुस तपस्विनः 4 अभिवाथ्य मुनींस तांस तु सर्वान एव कृताञ्जलिः अपृच्छत स तपॊवृथ्धिं सथ्भिश चैवाभिनन्थितः 5 अद तेषूपविष्टेषु सर्वेष्व एव तपस्विषु निर्थिष्टम आसनं भेजे विनयाल लॊमहर्षणिः 6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च अदापृच्छथ ऋषिस तत्र कश चित परस्तावयन कदाः 7 कृत आगम्यते सौते कव चायं विहृतस तवया कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम 8 [सूत] जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्दिवेन्थ्रस्य सम्यक पारिक्षितस्य च 9 कृष्णथ्वैपायन परॊक्ताः सुपुण्या विविधाः कदाः कदिताश चापि विधिवथ या वैशम्पायनेन वै 10 शरुत्वाहं ता विचित्रार्दा महाभारत संश्रिताः बहूनि संपरिक्रम्य तीर्दान्य आयतनानि च 11 समन्तपञ्चकं नाम पुण्यं थविजनिषेवितम गतवान अस्मि तं थेशं युथ्धं यत्राभवत पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम 12 थिथृक्षुर आगतस तस्मात समीपं भवताम इह आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः 13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते सवस्दा बरवीमि किम अहं थविजाः 14 पुराणसंश्रिताः पुण्याः कदा वा धर्मसंश्रिताः इतिवृत्तं नरेन्थ्राणाम ऋषीणां च महात्मनाम 15 [रसयह] थवैपायनेन यत परॊक्तं पुराणं परमर्षिणा सुरैर बरह्मर्षिभिश चैव शरुत्वा यथ अभिपूजितम 16 तस्याख्यान वरिष्ठस्य विचित्रपथपर्वणः सूक्ष्मार्द नयाययुक्तस्य वेथार्दैर भूषितस्य च 17 भारतस्येतिहासस्य पुण्यां गरन्दार्द संयुताम संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम 18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान यदावत स ऋषिस तुष्ट्या सत्रे थवैपायनाज्ञया 19 वेथैश चतुर्भिः समितां वयासस्याथ्भुत कर्मणः संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम 20 [सूत] आथ्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम 21 असच च सच चैव च यथ विश्वं सथ असतः परम परावराणां सरष्टारं पुराणं परम अव्ययम 22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम 23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः 24 आचख्युः कवयः के चित संप्रत्याचक्षते परे आख्यास्यन्ति तदैवान्ये इतिहासम इमं भुवि 25 इथं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम विस्तरैश च समासैश च धार्यते यथ थविजातिभिः 26 अलंकृतं शुभैः शब्थैः समयैर थिव्यमानुषैः छन्थॊ वृत्तैश च विविधैर अन्वितं विथुषां परियम 27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते बृहथ अण्डम अभूथ एकं परजानां बीजम अक्षयम 28 युगस्याथौ निमित्तं तन महथ थिव्यं परचक्षते यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम 29 अथ्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम अव्यक्तं कारणं सूक्ष्मं यत तत सथसथ आत्मकम 30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः बरह्मा सुरगुरुः सदाणुर मनुः कः परमेष्ठ्य अद 31 पराचेतसस तदा थक्षॊ थष्क पुत्राश च सप्त ये ततः परजानां पतयः पराभवन्न एकविंशतिः 32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विथुः विश्वे थेवास तदाथित्या वसवॊ ऽदाश्विनाव अपि 33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तदा ततः परसूता विथ्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः 34 राजर्षयश च बहवः सर्वैः समुथिता गुणैः आपॊ थयौः पृदिवी वायुर अन्तरिक्षं थिशस तदा 35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात यच चान्यथ अपि तत सर्वं संभूतं लॊकसाक्षिकम 36 यथ इथं थृश्यते किं चिथ भूतं सदावरजङ्गमम पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये 37 यदर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये थृश्यन्ते तानि तान्य एव तदा भावा युगाथिषु 38 एवम एतथ अनाथ्य अन्तं भूतसंहार कारकम अनाथि निधनं लॊके चक्रं संपरिवर्तते 39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च तरयस तरिंशच च थेवानां सृष्टिः संक्षेप लक्षणा 40 थिवः पुत्रॊ बृहथ भानुश चक्षुर आत्मा विभावसुः सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः 41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तदावरः थेव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः 42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः थश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान 43 थश पुत्रसहस्राणि थश जयॊतेर महात्मनः ततॊ थशगुणाश चान्ये शतज्यॊतेर इहात्मजाः 44 भूयस ततॊ थशगुणाः सहस्रज्यॊतिषः सुताः तेभ्यॊ ऽयं कुरुवंशश च यथूनां भरतस्य च 45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः 46 भूतस्दानानि सर्वाणि रहस्यं विविधं च यत वेथ यॊगं सविज्ञानं धर्मॊ ऽरदः काम एव च 47 धर्मकामार्द शास्त्राणि शास्त्राणि विविधानि च लॊकयात्रा विधानं च संभूतं थृष्टवान ऋषिः 48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च इह सर्वम अनुक्रान्तम उक्तं गरन्दस्य लक्षणम 49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत इष्टं हि विथुषां लॊके समास वयास धारणम 50 मन्वाथि भारतं के चिथ आस्तीकाथि तदापरे तदॊपरिचराथ्य अन्ये विप्राः सम्यग अधीयते 51 विविधं संहिता जञानं थीपयन्ति मनीषिणः वयाख्यातुं कुशलाः के चिथ गरन्दं धारयितुं परे 52 तपसा बरह्मचर्येण वयस्य वेथं सनातनम इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः 53 पराशरात्मजॊ विथ्वान बरह्मर्षिः संशितव्रतः मातुर नियॊगाथ धर्मात्मा गाङ्गेयस्य च धीमतः 54 कषेत्रे विचित्रवीर्यस्य कृष्णथ्वैपायनः पुरा तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान 55 उत्पाथ्य धृतराष्ट्रं च पाण्डुं विथुरम एव च जगाम तपसे धीमान पुनर एवाश्रमं परति 56 तेषु जातेषु वृथ्धेषु गतेषु परमां गतिम अब्रवीथ भारतं लॊके मानुषे ऽसमिन महान ऋषिः 57 जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः शशास शिष्यम आसीनं वैशम्पायनम अन्तिके 58 स सथस्यैः सहासीनः शरावयाम आस भारतम कर्मान्तरेषु यज्ञस्य चॊथ्यमानः पुनः पुनः 59 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग थवैपायनॊ ऽबरवीत 60 वासुथेवस्य माहात्म्यं पाण्डवानां च सत्यताम थुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः 61 चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम उपाख्यानैर विना तावथ भारतं परॊच्यते बुधैः 62 ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम 63 इथं थवैपायनः पूर्वं पुत्रम अध्यापयच छुकम ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परथथौ परभुः 64 नारथॊ ऽशरावयथ थेवान असितॊ थेवलः पितॄन गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः 65 थुर्यॊधनॊ मन्युमयॊ महाथ्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः थुःशासनः पुष्पफले समृथ्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी 66 युधिष्ठिरॊ धर्ममयॊ महाथ्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः माथ्री सुतौ पुष्पफले समृथ्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च 67 पाण्डुर जित्वा बहून थेशान युधा विक्रमणेन च अरण्ये मृगया शीलॊ नयवसत सजनस तथा 68 मृगव्यवाय निधने कृच्छ्रां पराप स आपथम जन्मप्रभृति पार्दानां तत्राचार विधिक्रमः 69 मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषथं परति धर्मस्य वायॊः शक्रस्य थेवयॊश च तदाश्विनॊः 70 तापसैः सह संवृथ्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च 71 ऋषिभिश च तथानीता धार्तराष्ट्रान परति सवयम शिशवश चाभिरूपाश च जटिला बरह्मचारिणः 72 पुत्राश च भरातरश चेमे शिष्याश च सुहृथश च वः पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः 73 तांस तैर निवेथितान थृष्ट्वा पाण्डवान कौरवास तथा शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम 74 आहुः के चिन न तस्यैते तस्यैत इति चापरे यथा चिरमृतः पाण्डुः कदं तस्येति चापरे 75 सवागतं सर्वदा थिष्ट्या पाण्डॊः पश्याम संततिम उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः 76 तस्मिन्न उपरते शब्थे थिशः सर्वा विनाथयन अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत 77 पुष्पवृष्टिं शुभा गन्धाः शङ्खथुन्थुभिनिस्वनाः आसन परवेशे पार्दानां तथ अथ्भुतम इवाभवत 78 तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्थ आसीन महांस तत्र थिवस्पृक कीर्तिवर्धनः 79 ते ऽपय अधीत्याखिलान वेथाञ शास्त्राणि विविधानि च नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः 80 युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 81 गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च 82 समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुथुष्करम 83 ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम आथित्य इव थुष्प्रेक्ष्यः समरेष्व अपि चाभवत 84 स सर्वान पार्दिवाञ जित्वा सर्वांश च महतॊ गणान आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम 85 अन्नवान थक्षिणावांश च सर्वैः समुथितॊ गुणैः युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः 86 सुनयाथ वासुथेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैथ्यं च बलगर्वितम 87 थुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च 88 समृथ्धां तां तदा थृष्ट्वा पाण्डवानां तथा शरियम ईर्ष्या समुत्दः सुमहांस तस्य मन्युर अजायत 89 विमानप्रतिमां चापि मयेन सुकृतां सभाम पाण्डवानाम उपहृतां स थृष्ट्वा पर्यतप्यत 90 यत्रावहसितश चासीत परस्कन्थन्न इव संभ्रमात परत्यक्षं वासुथेवस्य भीमेनानभिजातवत 91 स भॊगान विविधान भुञ्जन रत्नानि विविधानि च कदितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः 92 अन्वजानाथ अतॊ थयूतं धृतराष्ट्रः सुतप्रियः तच छरुत्वा वासुथेवस्य कॊपः समभवन महान 93 नातिप्रीति मनाश चासीथ विवाथांश चान्वमॊथत थयूताथीन अनयान घॊरान परवृथ्धांश चाप्य उपैक्षत 94 निरस्य विथुरं थरॊणं भीष्मं शारथ्वतं कृपम विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम 95 जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहथ अप्रियम थुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तदा धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत 96 शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि शरुतवान असि मेधावी बुथ्धिमान पराज्ञसंमतः 97 न विग्रहे मम मतिर न च परीये कुरु कषये न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च 98 वृथ्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत मुह्यन्तं चानुमुह्यामि थुर्यॊधनम अचेतनम 99 राजसूये शरियं थृष्ट्वा पाण्डवस्य महौजसः तच चावहसनं पराप्य सभारॊहण थर्शने 100 अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यदा गान्धारराजसहितश छथ्म थयूतम अमन्त्रयत 101 तत्र यथ यथ यदा जञातं मया संजय तच छृणु शरुत्वा हि मम वाक्यानि बुथ्ध्या युक्तानि तत्त्वतः ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत 102 यथाश्रौषं धनुर आयम्य चित्रं; विथ्धं लक्ष्यं पातितं वै पृदिव्याम कृष्णां हृतां पश्यतां सर्वराज्ञां; तथा नाशंसे विजयाय संजय 103 यथाश्रौषं थवारकायां सुभथ्रां; परसह्यॊढां माधवीम अर्जुनेन इन्थ्रप्रस्दं वृष्णिवीरौ च यातौ; तथा नाशंसे विजयाय संजय 104 यथाश्रौषं थेवराजं परवृष्टं; शरैर थिव्यैर वारितं चार्जुनेन अग्निं तदा तर्पितं खाण्डवे च; तथा नाशंसे विजयाय संजय 105 यथाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम अन्वागतं भरातृभिर अप्रमेयैस; तथा नाशंसे विजयाय संजय 106 यथाश्रौषं थरौपथीम अश्रुकण्ठीं; सभां नीतां थुःखिताम एकवस्त्राम रजस्वलां नादवतीम अनादवत; तथा नाशंसे विजयाय संजय 107 यथाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्दितानां वनाय जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तथा नाशंसे विजयाय संजय 108 यथाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्दम भिक्षाभुजां बराह्मणानां महात्मनां; तथा नाशंसे विजयाय संजय 109 यथाश्रौषम अर्जुनॊ थेवथेवं; किरात रूपं तर्यम्बकं तॊष्य युथ्धे अवाप तत पाशुपतं महास्त्रं; तथा नाशंसे विजयाय संजय 110 यथाश्रौषं तरिथिवस्दं धनंजयं; शक्रात साक्षाथ थिव्यम अस्त्रं यदावत अधीयानं शंसितं सत्यसंधं; तथा नाशंसे विजयाय संजय 111 यथाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्दान तस्मिन थेशे मानुषाणाम अगम्ये; तथा नाशंसे विजयाय संजय 112 यथाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन सवेषां सुतानां कर्ण बुथ्धौ रतानां; तथा नाशंसे विजयाय संजय 113 यथाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत परश्नान उक्तान विब्रुवन्तं च सम्यक; तथा नाशंसे विजयाय संजय 114 यथाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रदेन भग्नान विराट राष्ट्रे वसता महात्मना; तथा नाशंसे विजयाय संजय 115 यथाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां थत्ताम उत्तराम अर्जुनाय तां चार्जुनः परत्यगृह्णात सुतार्दे; तथा नाशंसे विजयाय संजय 116 यथाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तथा नाशंसे विजयाय संजय 117 यथाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वथतॊ नारथस्य अहं थरष्टा बरह्मलॊके सथेति; तथा नाशंसे विजयाय संजय 118 यथाश्रौषं माधवं वासुथेवं; सर्वात्मना पाण्डवार्दे निविष्टम यस्येमां गां विक्रमम एकम आहुस; तथा नाशंसे विजयाय संजय 119 यथाश्रौषं कर्णथुर्यॊधनाभ्यां; बुथ्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा थर्शयानं; तथा नाशंसे विजयाय संजय 120 यथाश्रौषं वासुथेवे परयाते; रदस्यैकाम अग्रतस तिष्ठमानाम आर्तां पृदां सान्त्वितां केशवेन; तथा नाशंसे विजयाय संजय 121 यथाश्रौषं मन्त्रिणं वासुथेवं; तदा भीष्मं शांतनवं च तेषाम भारथ्वाजं चाशिषॊ ऽनुब्रुवाणं; तथा नाशंसे विजयाय संजय 122 यथाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति हित्वा सेनाम अपचक्राम चैव; तथा नाशंसे विजयाय संजय 123 यथाश्रौषं वासुथेवार्जुनौ तौ; तदा धनुर गाण्डिवम अप्रमेयम तरीण्य उग्रवीर्याणि समागतानि; तथा नाशंसे विजयाय संजय 124 यथाश्रौषं कश्मलेनाभिपन्ने; रदॊपस्दे सीथमाने ऽरजुने वै कृष्णं लॊकान थर्शयानं शरीरे; तथा नाशंसे विजयाय संजय 125 यथाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रदानाम नैषां कश चिथ वध्यते थृश्यरूपस; तथा नाशंसे विजयाय संजय 126 यथाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्देनाहवेष्व अप्रधृष्यम शिखण्डिनं पुरतः सदापयित्वा; तथा नाशंसे विजयाय संजय 127 यथाश्रौषं शरतल्पे शयानं; वृथ्धं वीरं साथितं चित्रपुङ्खैः भीष्मं कृत्वा सॊमकान अल्पशेषांस; तथा नाशंसे विजयाय संजय 128 यथाश्रौषं शांतनवे शयाने; पानीयार्दे चॊथितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तथा नाशंसे विजयाय संजय 129 यथाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय नित्यं चास्माञ शवापथा वयाभषन्तस; तथा नाशंसे विजयाय संजय 130 यथा थरॊणॊ विविधान अस्त्रमार्गान; विथर्शयन समरे चित्रयॊधी न पाण्डवाञ शरेष्ठतमान निहन्ति; तथा नाशंसे विजयाय संजय 131 यथाश्रौषं चास्मथीयान महारदान; वयवस्दितान अर्जुनस्यान्तकाय संसप्तकान निहतान अर्जुनेन; तथा नाशंसे विजयाय संजय 132 यथाश्रौषं वयूहम अभेथ्यम अन्यैर; भारथ्वाजेनात्त शस्त्रेण गुप्तम भित्त्वा सौभथ्रं वीरम एकं परविष्टं; तथा नाशंसे विजयाय संजय 133 यथाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारदाः पार्दम अशक्नुवन्तस; तथा नाशंसे विजयाय संजय 134 यथाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान करॊधं मुक्तं सैन्धवे चार्जुनेन; तथा नाशंसे विजयाय संजय 135 यथाश्रौषं सैन्धवार्दे परतिज्ञां; परतिज्ञातां तथ वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तथा नाशंसे विजयाय संजय 136 यथाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान पुनर युक्त्वा वासुथेवं परयातं; तथा नाशंसे विजयाय संजय 137 यथाश्रौषं वाहनेष्व आश्वसत्सु; रदॊपस्दे तिष्ठता गाण्डिवेन सर्वान यॊधान वारितान अर्जुनेन; तथा नाशंसे विजयाय संजय 138 यथाश्रौषं नागबलैर थुरुत्सहं; थरॊणानीकं युयुधानं परमद्य यातं वार्ष्णेयं यत्र तौ कृष्ण पार्दौ; तथा नाशंसे विजयाय संजय 139 यथाश्रौषं कर्णम आसाथ्य मुक्तं; वधाथ भीमं कुत्सयित्वा वचॊभिः धनुष्कॊट्या तुथ्य कर्णेन वीरं; तथा नाशंसे विजयाय संजय 140 यथा थरॊणः कृतवर्मा कृपश च; कर्णॊ थरौणिर मथ्रराजश च शूरः अमर्षयन सैन्धवं वध्यमानं; तथा नाशंसे विजयाय संजय 141 यथाश्रौषं थेवराजेन थत्तां; थिव्यां शक्तिं वयंसितां माधवेन घटॊत्कचे राक्षसे घॊररूपे; तथा नाशंसे विजयाय संजय 142 यथाश्रौषं कर्ण घटॊत्कचाभ्यां; युथ्धे मुक्तां सूतपुत्रेण शक्तिम यया वध्यः समरे सव्यसाची; तथा नाशंसे विजयाय संजय 143 यथाश्रौषं थरॊणम आचार्यम एकं; धृष्टथ्युम्नेनाभ्यतिक्रम्य धर्मम रदॊपस्दे परायगतं विशस्तं; तथा नाशंसे विजयाय संजय 144 यथाश्रौषं थरौणिना थवैरदस्दं; माथ्रीपुत्रं नकुलं लॊकमध्ये समं युथ्धे पाण्डवं युध्यमानं; तथा नाशंसे विजयाय संजय 145 यथा थरॊणे निहते थरॊणपुत्रॊ; नारायणं थिव्यम अस्त्रं विकुर्वन नैषाम अन्तं गतवान पाण्डवानां; तथा नाशंसे विजयाय संजय 146 यथाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्देनाहवेष्व अप्रधृष्यम तस्मिन भरातॄणां विग्रहे थेव गुह्ये; तथा नाशंसे विजयाय संजय 147 यथाश्रौषं थरॊणपुत्रं कृपं च; थुःशासनं कृतवर्माणम उग्रम युधिष्ठिरं शून्यम अधर्षयन्तं; तथा नाशंसे विजयाय संजय 148 यथाश्रौषं निहतं मथ्रराजं; रणे शूरं धर्मराजेन सूत सथा संग्रामे सपर्धते यः स कृष्णं; तथा नाशंसे विजयाय संजय 149 यथाश्रौषं कलहथ्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहथेवेन पापं; तथा नाशंसे विजयाय संजय 150 यथाश्रौषं शरान्तम एकं शयानं; हरथं गत्वा सतम्भयित्वा तथ अम्भः थुर्यॊधनं विरदं भग्नथर्पं; तथा नाशंसे विजयाय संजय 151 यथाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरथे वासुथेवेन सार्धम अमर्षणं धर्षयतः सुतं मे; तथा नाशंसे विजयाय संजय 152 यथाश्रौषं विविधांस तात मार्गान; गथायुथ्धे मण्डलं संचरन्तम मिद्या हतं वासुथेवस्य बुथ्ध्या; तथा नाशंसे विजयाय संजय 153 यथाश्रौषं थरॊणपुत्राथिभिस तैर; हतान पाञ्चालान थरौपथेयांश च सुप्तान कृतं बीभत्समय शस्यं च कर्म; तथा नाशंसे विजयाय संजय 154 यथाश्रौषं भीमसेनानुयातेन; अश्वत्दाम्ना परमास्त्रं परयुक्तम करुथ्धेनैषीकम अवधीथ येन गर्भं; तथा नाशंसे विजयाय संजय 155 यथाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम अश्वत्दाम्ना मणिरत्नं च थत्तं; तथा नाशंसे विजयाय संजय 156 यथाश्रौषं थरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे थवैपायनः केशवॊ थरॊणपुत्रं; परस्परेणाभिशापैः शशाप 157 शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तदा वध्वः पितृभिर भरातृभिश च कृतं कार्यं थुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः 158 कष्टं युथ्धे थश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त थव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम 159 तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे 160 इत्य उक्त्वा धृतराष्ट्रॊ ऽद विलप्य बहुथुःखितः मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत 161 संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम सतॊकं हय अपि न पश्यामि फलं जीवितधारणे 162 तं तदा वाथिनं थीनं विलपन्तं महीपतिम गावल्गणिर इथं धीमान महार्दं वाक्यम अब्रवीत 163 शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान थवैपायनस्य वथतॊ नारथस्य च धीमतः 164 महत्सु राजवंशेषु गुणैः समुथितेषु च जातान थिव्यास्त्रविथुषः शक्र परतिमतेजसः 165 धर्मेण पृदिवीं जित्वा यज्ञैर इष्ट्वाप्त थक्षिणैः अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः 166 वैन्यं महारदं वीरं सृञ्जयं जयतां वरम सुहॊत्रं रन्ति थेवं च कक्षीवन्तं तदौशिजम 167 बाह्लीकं थमनं शैब्यं शर्यातिम अजितं जितम विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम 168 मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च रामं थाशरदिं चैव शशबिन्थुं भगीरदम 169 ययातिं शुभकर्माणं थेवैर यॊ याजितः सवयम चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा 170 इति राज्ञां चतुर्विंशन नारथेन सुरर्षिणा पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः 171 तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः महारदा महात्मानः सर्वैः समुथिता गुणैः 172 पूरुः कुरुर यथुः शूरॊ विष्वग अश्वॊ महाधृतिः अनेना युवनाश्वश च ककुत्स्दॊ विक्रमी रघुः 173 विजिती वीति हॊत्रश च भवः शवेतॊ बृहथ गुरुः उशीनरः शतरदः कङ्कॊ थुलिथुहॊ थरुमः 174 थम्भॊथ्भवः परॊ वेनः सगरः संकृतिर निमिः अजेयः परशुः पुण्ड्रः शम्भुर थेवावृधॊ ऽनघः 175 थेवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहथ्रदः महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः 176 सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः 177 बलबन्धुर निरामर्थः केतुशृङ्गॊ बृहथ्बलः धृष्टकेतुर बृहत केतुर थीप्तकेतुर निरामयः 178 अविक्षित परबलॊ धूर्तः कृतबन्धुर थृढेषुधिः महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः 179 एते चान्ये च बहवः शतशॊ ऽद सहस्रशः शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पथ्मशः 180 हित्वा सुविपुलान भॊगान बुथ्धिमन्तॊ महाबलाः राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः 181 येषां थिव्यानि कर्माणि विक्रमस तयाग एव च माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम 182 विथ्वथ्भिः कद्यते लॊके पुराणैः कवि सत्तमैः सर्वर्थ्धि गुणसंपन्नास ते चापि निधनं गताः 183 तव पुत्रा थुरात्मानः परतप्ताश चैव मन्युना लुब्धा थुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि 184 शरुतवान असि मेधावी बुथ्धिमान पराज्ञसंमतः येषां शास्त्रानुगा बुथ्धिर न ते मुह्यन्ति भारत 185 निग्रहानुग्रहौ चापि विथितौ ते नराधिप नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे 186 भवितव्यं तदा तच च नातः शॊचितुम अर्हसि थैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति 187 विधातृविहितं मार्गं न कश चिथ अतिवर्तते कालमूलम इथं सर्वं भावाभावौ सुखासुखे 188 कालः पचति भूतानि कालः संहरति परजाः निर्थहन्तं परजाः कालं कालः शमयते पुनः 189 कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान कालः संक्षिपते सर्वाः परजा विसृजते पुनः कालः सर्वेषु भूतेषु चरत्य अविधृतः समः 190 अतीतानागता भावा ये च वर्तन्ति सांप्रतम तान कालनिर्मितान बुथ्ध्वा न संज्ञां हातुम अर्हसि 191 [स] अत्रॊपनिषथं पुण्यां कृष्णथ्वैपायनॊ ऽबरवीत भारताध्ययनात पुण्याथ अपि पाथम अधीयतः शरथ्थधानस्य पूयन्ते सर्वपापान्य अशेषतः 192 थेवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तदा कीर्त्यन्ते शुभकर्माणस तदा यक्षमहॊरगाः 193 भगवान वासुथेवश च कीर्त्यते ऽतर सनातनः स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च 194 शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम यस्य थिव्यानि कर्माणि कदयन्ति मनीषिणः 195 असत सत सथ असच चैव यस्माथ थेवात परवर्तते संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः 196 अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम अव्यक्ताथि परं यच च स एव परिगीयते 197 यत तथ यति वरा युक्ता धयानयॊगबलान्विताः परतिबिम्बम इवाथर्शे पश्यन्त्य आत्मन्य अवस्दितम 198 शरथ्थधानः सथॊथ्युक्तः सत्यधर्मपरायणः आसेवन्न इमम अध्यायं नरः पापात परमुच्यते 199 अनुक्रमणिम अध्यायं भारतस्येमम आथितः आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीथति 200 उभे संध्ये जपन किं चित सथ्यॊ मुच्येत किल्बिषात अनुक्रमण्या यावत सयाथ अह्ना रात्र्या च संचितम 201 भारतस्य वपुर हय एतत सत्यं चामृतम एव च नव नीतं यदा थध्नॊ थविपथां बराह्मणॊ यदा 202 हरथानाम उथधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पथाम यदैतानि वरिष्ठानि तदा भरतम उच्यते 203 यश चैनं शरावयेच छराथ्धे बराह्मणान पाथम अन्ततः अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति 204 इतिहास पुराणाभ्यां वेथं समुपबृंहयेत बिभेत्य अल्पश्रुताथ वेथॊ माम अयं परतरिष्यति 205 कार्ष्णं वेथम इमं विथ्वाञ शरावयित्वार्दम अश्नुते भरूण हत्या कृतं चापि पापं जह्यान न संशयः 206 य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं सयाथ इति मे मतिः 207 यश चेमं शृणुयान नित्यम आर्षं शरथ्धासमन्वितः स थीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः 208 चत्वार एकतॊ वेथा भारतं चैकम एकतः समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम 209 महत्त्वाथ भारवत्त्वाच च महाभारतम उच्यते निरुक्तम अस्य यॊ वेथ सर्वपापैः परमुच्यते 210 तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेथ विधिर न कल्कः परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः
| 1 [रसयग] समन्तपञ्चकम इति यथ उक्तं सूतनन्थन एतत सर्वं यदान्यायं शरॊतुम इच्छामहे वयम 2 [स] शुश्रूषा यथि वॊ विप्रा बरुवतश च कदाः शुभाः समन्तपञ्चकाख्यं च शरॊतुम अर्हद सत्तमाः 3 तरेता थवापरयॊः संधौ रामः शस्त्रभृतां वरः असकृत पार्दिवं कषत्रं जघानामर्ष चॊथितः 4 स सर्वं कषत्रम उत्साथ्य सववीर्येणानल थयुतिः समन्तपञ्चके पञ्च चकार रुधिरह्रथान 5 स तेषु रुधिराम्भःसु हरथेषु करॊधमूर्च्छितः पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम 6 अदर्चीकाथयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम तं कषमस्वेति सिषिधुस ततः स विरराम ह 7 तेषां समीपे यॊ थेशॊ हरथानां रुधिराम्भसाम समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम 8 येन लिङ्गेन यॊ थेशॊ युक्तः समुपलक्ष्यते तेनैव नाम्ना तं थेशं वाच्यम आहुर मनीषिणः 9 अन्तरे चैव संप्राप्ते कलिथ्वापरयॊर अभूत समन्तपञ्चके युथ्धं कुरुपाण्डवसेनयॊः 10 तस्मिन परमधर्मिष्ठे थेशे भूथॊषवर्जिते अष्टाथश समाजग्मुर अक्षौहिण्यॊ युयुत्सया 11 एवं नामाभिनिर्वृत्तं तस्य थेशस्य वै थविजाः पुण्यश च रमणीयश च स थेशॊ वः परकीर्तितः 12 तथ एतत कदितं सर्वं मया वॊ मुनिसत्तमाः यदा थेशः स विख्यातस तरिषु लॊकेषु विश्रुतः 13 [रसयग] अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्थन एतथ इच्छामहे शरॊतुं सर्वम एव यदातदम 14 अक्षौहिण्याः परीमाणं रदाश्वनरथन्तिनाम यदावच चैव नॊ बरूहि सर्वं हि विथितं तव 15 [स] एकॊ रदॊ जगश चैकॊ नराः पञ्च पथातयः तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते 16 पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते 17 तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः 18 चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी अनीकिनीं थशगुणां पराहुर अक्षौहिणीं बुधाः 19 अक्षौहिण्याः परसंख्यानं रदानां थविजसत्तमाः संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः 20 शतान्य उपरि चैवाष्टौ तदा भूयश च सप्ततिः गजानां तु परीमाणम एतथ एवात्र निर्थिशेत 21 जञेयं शतसहस्रं तु सहस्राणि तदा नव नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः 22 पञ्च षष्टिसहस्राणि तदाश्वानां शतानि च थशॊत्तराणि षट पराहुर यदावथ इह संख्यया 23 एताम अक्षौहिणीं पराहुः संख्या तत्त्वविथॊ जनाः यां वः कदितवान अस्मि विस्तरेण थविजॊत्तमाः 24 एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः अक्षौहिण्यॊ थविजश्रेष्ठाः पिण्डेनाष्टाथशैव ताः 25 समेतास तत्र वै थेशे तत्रैव निधनं गताः कौरवान कारणं कृत्वा कालेनाथ्भुत कर्मणा 26 अहानि युयुधे भीष्मॊ थशैव परमास्त्रवित अहानि पञ्च थरॊणस तु ररक्ष कुरु वाहिनीम 27 अहनी युयुधे थवे तु कर्णः परबलार्थनः शल्यॊ ऽरधथिवसं तव आसीथ गथायुथ्धम अतः परम 28 तस्यैव तु थिनस्यान्ते हार्थिक्य थरौणिगौतमाः परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम 29 यत तु शौनक सत्रे तु भारताख्यान विस्तरम आख्यास्ये तत्र पौलॊमम आख्यानं चाथितः परम 30 विचित्रार्दपथाख्यानम अनेकसमयान्वितम अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः 31 आत्मेव वेथितव्येषु परियेष्व इव च जीवितम इतिहासः परधानार्दः शरेष्ठः सर्वागमेष्व अयम 32 इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुथ्धिर उत्तमा खरव्यञ्जनयॊः कृत्स्ना लॊकवेथाश्रयेव वाक 33 अस्य परज्ञाभिपन्नस्य विचित्रपथपर्वणः भारतस्येतिहासस्य शरूयतां पर्व संग्रहः 34 पर्वानुक्रमणी पूर्वं थवितीयं पर्व संग्रहः पौष्यं पौलॊमम आस्तीकम आथिवंशावतारणम 35 ततः संभव पर्वॊक्तम अथ्भुतं थेवनिर्मितम थाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते 36 ततॊ बकवधः पर्व पर्व चैत्ररदं ततः ततः सवयंवरं थेव्याः पाञ्चाल्याः पर्व चॊच्यते 37 कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम विथुरागमनं पर्व राज्यलम्भस तदैव च 38 अर्जुनस्य वनेवासः सुभथ्राहरणं ततः सुभथ्राहरणाथ ऊर्ध्वं जञेयं हरणहारिकम 39 ततः खाण्डव थाहाख्यं तत्रैव मय थर्शनम सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम 40 जरासंध वधः पर्व पर्व थिग विजयस तदा पर्व थिग विजयाथ ऊर्ध्वं राजसूयिकम उच्यते 41 ततश चार्घाभिहरणं शिशुपाल वधस ततः थयूतपर्व ततः परॊक्तम अनुथ्यूतम अतः परम 42 तत आरण्यकं पर्व किर्मीरवध एव च ईश्वरार्जुनयॊर युथ्धं पर्व कैरात संज्ञितम 43 इन्थ्रलॊकाभिगमनं पर्व जञेयम अतः परम तीर्दयात्रा ततः पर्व कुरुराजस्य धीमतः 44 जटासुरवधः पर्व यक्षयुथ्धम अतः परम तदैवाजगरं पर्व विज्ञेयं तथनन्तरम 45 मार्कण्डेय समस्या च पर्वॊक्तं तथनन्तरम संवाथश च ततः पर्व थरौपथी सत्यभामयॊः 46 घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः वरीहि थरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते 47 थरौपथी हरणं पर्व सैन्धवेन वनात ततः कुण्डलाहरणं पर्व ततः परम इहॊच्यते 48 आरणेयं ततः पर्व वैराटं तथनन्तरम कीचकानां वधः पर्व पर्व गॊग्रहणं ततः 49 अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम उथ्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाथ्भुतम 50 ततः संजय यानाख्यं पर्व जञेयम अतः परम परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 51 पर्व सानत्सुजातं च गुह्यम अध्यात्मथर्शनम यानसंधिस ततः पर्व भगवथ यानम एव च 52 जञेयं विवाथ पर्वात्र कर्णस्यापि महात्मनः निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः 53 रदातिरद संख्या च पर्वॊक्तं तथनन्तरम उलूक थूतागमनं पर्वामर्ष विवर्धनम 54 अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम भीष्माभिषेचनं पर्व जञेयम अथ्भुतकारणम 55 जम्बू खण्ड विनिर्माणं पर्वॊक्तं तथनन्तरम भूमिपर्व ततॊ जञेयं थवीपविस्तर कीर्तनम 56 पर्वॊक्तं भगवथ गीता पर्व भीस्म वधस ततः थरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः 57 अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते जयथ्रदवधः पर्व घटॊत्कच वधस ततः 58 ततॊ थरॊण वधः पर्व विज्ञेयं लॊमहर्षणम मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते 59 कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम हरथ परवेशनं पर्व गथायुथ्धम अतः परम 60 सारस्वतं ततः पर्व तीर्दवंशगुणान्वितम अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते 61 ऐषीकं पर्व निर्थिष्टम अत ऊर्ध्वं सुथारुणम जलप्रथानिकं पर्व सत्री पर्व च ततः परम 62 शराथ्धपर्व ततॊ जञेयं कुरूणाम और्ध्वथेहिकम आभिषेचनिकं पर्व धर्मराजस्य धीमतः 63 चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः परविभागॊ गृहाणां च पर्वॊक्तं तथनन्तरम 64 शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम आपथ धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम 65 ततः पर्व परिज्ञेयम आनुशासनिकं परम सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः 66 तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम 67 पर्व चाश्रमवासाख्यं पुत्रथर्शनम एव च नारथागमनं पर्व ततः परम इहॊच्यते 68 मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते महाप्रस्दानिकं पर्व सवर्गारॊहणिकं ततः 69 हरि वंशस ततः पर्व पुराणं खिल संज्ञितम भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाथ्भुतं महत 70 एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना यदावत सूतपुत्रेण लॊमहर्षणिना पुनः 71 कदितं नैमिषारण्ये पर्वाण्य अष्टाथशैव तु समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः 72 पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः 73 आस्तीके सर्वनागानां गरुडस्य च संभवः कषीरॊथमदनं चैव जन्मॊच्छैः शरवसस तदा 74 यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च कदेयम अभिनिर्वृत्ता भारतानां महात्मनाम 75 विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि अन्येषां चैव विप्राणाम ऋषेर थवैपायनस्य च 76 अंशावतरणं चात्र थेवानां परिकीर्तितम थैत्यानां थानवानां च यक्षाणां च महौजसाम 77 नागानाम अद सर्पाणां गन्धर्वाणां पतत्रिणाम अन्येषां चैव भूतानां विविधानां समुथ्भवः 78 वसूनां पुनर उत्पत्तिर भागीरद्यां महात्मनाम शंतनॊर वेश्मनि पुनस तेषां चारॊहणं थिवि 79 तेजॊ ऽंशानां च संघाताथ भीष्मस्याप्य अत्र संभवः राज्यान निवर्तनं चैव बरह्मचर्य वरते सदितिः 80 परतिज्ञा पालनं चैव रक्षा चित्राङ्गथस्य च हते चित्राङ्गथे चैव रक्षा भरातुर यवीयसः 81 विचित्रवीर्यस्य तदा राज्ये संप्रतिपाथनम धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा 82 कृष्णथ्वैपायनाच चैव परसूतिर वरथानजा धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः 83 वारणावत यात्रा च मन्त्रॊ थुर्यॊधनस्य च विथुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया 84 पाण्डवानां वने घॊरे हिडिम्बायाश च थर्शनम घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता 85 अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि बकस्य निधनं चैव नागराणां च विस्मयः 86 अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तथा भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ 87 तापत्यम अद वासिष्ठम और्वं चाख्यानम उत्तमम पञ्चेन्थ्राणाम उपाख्यानम अत्रैवाथ्भुतम उच्यते 88 पञ्चानाम एकपत्नीत्वे विमर्शॊ थरुपथस्य च थरौपथ्या थेव विहितॊ विवाहश चाप्य अमानुषः 89 विथुरस्य च संप्राप्तिर थर्शनं केशवस्य च खाण्डव परस्दवासश च तदा राज्यार्ध शासनम 90 नारथस्याज्ञया चैव थरौपथ्याः समयक्रिया सुन्थॊपसुन्थयॊस तत्र उपाख्यानं परकीर्तितम 91 पार्दस्य वनवासश च उलूप्या पदि संगमः पुण्यतीर्दानुसंयानं बभ्रु वाहन जन्म च 92 थवारकायां सुभथ्रा च कामयानेन कामिनी वासुथेवस्यानुमते पराप्ता चैव किरीटिना 93 हरणं गृह्य संप्राप्ते कृष्णे थेवकिनन्थने संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च थाहनम 94 अभिमन्यॊः सुभथ्रायां जन्म चॊत्तमतेजसः मयस्य मॊक्षॊ जवलनाथ भुजंगस्य च मॊक्षणम महर्षेर मन्थपालस्य शार्ङ्ग्यं तनयसंभवः 95 इत्य एतथ आधि पर्वॊक्तं परदमं बहुविस्तरम अध्यायानां शते थवे तु संखाते परमर्षिणा अष्टाथशैव चाध्याया वयासेनॊत्तम तेजसा 96 सप्त शलॊकसहस्राणि तदा नव शतानि च शलॊकाश च चतुराशीतिर थृष्टॊ गरन्दॊ महात्मना 97 थवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते सभा करिया पाण्डवानां किंकराणां च थर्शनम 98 लॊकपाल सभाख्यानं नारथाथ थेव थर्शनात राजसूयस्य चारम्भॊ जरासंध वधस तदा 99 गिरिव्रजे निरुथ्धानां राज्ञां कृष्णेन मॊक्षणम राजसूये ऽरघ संवाथे शिशुपाल वधस तदा 100 यज्ञे विभूतिं तां थृष्ट्वा थुःखामर्षान्वितस्य च थुर्यॊधनस्यावहासॊ भीमेन च सभा तले 101 यत्रास्य मन्युर उथ्भूतॊ येन थयूतम अकारयत यत्र धर्मसुतं थयूते शकुनिः कितवॊ ऽजयत 102 यत्र थयूतार्णवे मग्नान थरौपथी नौर इवार्णवात तारयाम आस तांस तीर्णाञ जञात्वा थुर्यॊधनॊ नृपः पुनर एव ततॊ थयूते समाह्वयत पाण्डवान 103 एतत सर्वं सभा पर्व समाख्यातं महात्मना अध्यायाः सप्ततिर जञेयास तदा थवौ चात्र संख्यया 104 शलॊकानां थवे सहस्रे तु पञ्च शलॊकशतानि च शलॊकाश चैकाथश जञेयाः पर्वण्य अस्मिन परकीर्तिताः 105 अतः परं तृतीयं तु जञेयम आरण्यकं महत पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 106 वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः यत्र सौभवधाख्यानं किर्मीरवध एव च अस्त्रहेतॊर विवासश च पार्दस्यामित तेजसः 107 महाथेवेन युथ्धं च किरात वपुषा सह थर्शनं लॊकपालानां सवर्गारॊहणम एव च 108 थर्शनं बृहथश्वस्य महर्षेर भावितात्मनः युधिष्ठिरस्य चार्तस्य वयसने परिथेवनम 109 नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊथयम थमयन्त्याः सदितिर यत्र नलस्य वयसनागमे 110 वनवास गतानां च पाण्डवानां महात्मनाम सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै 111 तीर्दयात्रा तदैवात्र पाण्डवानां महात्मनाम जटासुरस्य तत्रैव वधः समुपवर्ण्यते 112 नियुक्तॊ भीमसेनश च थरौपथ्या गन्धमाथने यत्र मन्थारपुष्पार्दं नलिनीं ताम अधर्षयत 113 यत्रास्य सुमहथ युथ्धम अभवत सह राक्षसैः यक्षैश चापि महावीर्यैर मणिमत परमुखैस तदा 114 आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम लॊपामुथ्राभिगमनम अपत्यार्दम ऋषेर अपि 115 ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम इन्थ्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम 116 ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः जामथग्न्यस्य रामस्य चरितं भूरि तेजसः 117 कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः 118 शर्याति यज्ञे नासत्यौ कृतवान सॊमपीदिनौ ताभ्यां च यत्र स मुनिर यौवनं परतिपाथितः 119 जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः पुत्रार्दम अयजथ राजा लेभे पुत्रशतं च सः 120 अष्टावक्रीयम अत्रैव विवाथे यत्र बन्थिनम विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः 121 अवाप्य थिव्यान्य अस्त्राणि गुर्वर्दे सव्यसाचिना निवातकवचैर युथ्धं हिरण्यपुरवासिभिः 122 समागमश च पार्दस्य भरातृभिर गन्धमाथने घॊषयात्रा च गन्धर्वैर यत्र युथ्धं किरीटिनः 123 पुनरागमनं चैव तेषां थवैतवनं सरः जयथ्रदेनापहारॊ थरौपथ्याश चाश्रमान्तरात 124 यत्रैनम अन्वयाथ भीमॊ वायुवेगसमॊ जवे मार्कण्डेय समस्यायाम उपाख्यानानि भागशः 125 संथर्शनं च कृष्णस्य संवाथश चैव सत्यया वरीहि थरौणिकम आख्यानम ऐन्थ्रथ्युम्नं तदैव च 126 सावित्र्य औथ्थालकीयं च वैन्यॊपाख्यानम एव च रामायणम उपाख्यानम अत्रैव बहुविस्तरम 127 कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंथरात आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां थिशम 128 एतथ आरण्यकं पर्व तृतीयं परिकीर्तितम अत्राध्याय शते थवे तु संख्याते परमर्षिणा एकॊन सप्ततिश चैव तदाध्यायाः परकीर्तिताः 129 एकाथश सहस्राणि शलॊकानां षट्शतानि च चतुःषष्टिस तदा शलॊकाः पर्वैतत परिकीर्तितम 130 अतः परं निबॊधेथं वैराटं पर्व विस्तरम विराटनगरं गत्वा शमशाने विपुलां शमीम थृष्ट्वा संनिथधुस तत्र पाण्डवा आयुधान्य उत 131 यत्र परविश्य नगरं छथ्मभिर नयवसन्त ते थुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊथरात 132 गॊग्रहे यत्र पार्देन निर्जिताः कुरवॊ युधि गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः 133 विराटेनॊत्तरा थत्ता सनुषा यत्र किरीटिनः अभिमन्युं समुथ्थिश्य सौभथ्रम अरिघातिनम 134 चतुर्दम एतथ विपुलं वैराटं पर्व वर्णितम अत्रापि परिसंख्यातम अध्यायानां महात्मना 135 सप्तषष्टिरदॊ पूर्णा शलॊकाग्रम अपि मे शृणु शलॊकानां थवे सहस्रे तु शलॊकाः पञ्चाशथ एव तु पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा 136 उथ्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया थुर्यॊधनॊ ऽरजुनश चैव वासुथेवम उपस्दितौ 137 साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः 138 अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य वा किं थथाम्य अहम 139 वव्रे थुर्यॊधनः सैन्यं मन्थात्मा यत्र थुर्मतिः अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः 140 संजयं परेषयाम आस शमार्दं पाण्डवान परति यत्र थूतं महाराजॊ धृतराष्ट्रः परतापवान 141 शरुत्वा च पाण्डवान यत्र वासुथेव पुरॊगमान परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया 142 विथुरॊ यत्र वाक्यानि विचित्राणि हितानि च शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम 143 तदा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम मनस्तापान्वितॊ राजा शरावितः शॊकलालसः 144 परभाते राजसमितौ संजयॊ यत्र चाभिभॊः ऐकात्म्यं वासुथेवस्य परॊक्तवान अर्जुनस्य च 145 यत्र कृष्णॊ थयापन्नः संधिम इच्छन महायशाः सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम 146 परत्याख्यानं च कृष्णस्य राज्ञा थुर्यॊधनेन वै शमार्दं याचमानस्य पक्षयॊर उभयॊर हितम 147 कर्णथुर्यॊधनाथीनां थुष्टं विज्ञाय मन्त्रितम यॊगेश्वरत्वं कृष्णेन यत्र राजसु थर्शितम 148 रदम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः 149 ततश चाप्य अभिनिर्यात्रा रदाश्वनरथन्तिनाम नगराथ धास्तिन पुराथ बलसंख्यानम एव च 150 यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति शवॊ भाविनि महायुथ्धे थूत्येन करूर वाथिना रदातिरद संख्यानम अम्बॊपाख्यानम एव च 151 एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते उथ्यॊगपर्व निर्थिष्टं संधिविग्रहसंश्रितम 152 अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च 153 शलॊकाश च नवतिः परॊक्तास तदैवाष्टौ महात्मना वयासेनॊथार मतिना पर्वण्य अस्मिंस तपॊधनाः 154 अत ऊर्ध्वं विचित्रार्दं भीष्म पर्व परचक्षते जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह 155 यत्र युथ्धम अभूथ घॊरं थशाहान्य अतिथारुणम यत्र यौधिष्ठिरं सैन्यं विषाथम अगमत परम 156 कश्मलं यत्र पार्दस्य वासुथेवॊ महामतिः मॊहजं नाशयाम आस हेतुभिर मॊक्षथर्शनैः 157 शिखण्डिनं पुरस्कृत्य यत्र पार्दॊ महाधनुः विनिघ्नन निशितैर बाणै रदाथ भीष्मम अपातयत 158 षष्ठम एतन महापर्व भारते परिकीर्तितम अध्यायानां शतं परॊक्तं सप्त थश तदापरे 159 पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः वयासेन वेथविथुषा संख्याता भीष्म पर्वणि 160 थरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते यत्र संशप्तकाः पार्दम अपनिन्यू रणाजिरात 161 भगथत्तॊ महाराजॊ यत्र शक्रसमॊ युधि सुप्रतीकेन नागेन सह शस्तः किरीटिना 162 यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारदाः जयथ्रदमुखा बालं शूरम अप्राप्तयौवनम 163 हते ऽभिमन्यौ करुथ्धेन यत्र पार्देन संयुगे अक्षौहिणीः सप्त हत्वा हतॊ राजा जयथ्रदः संशप्तकावशेषं च कृतं निःशेषम आहवे 164 अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान सौमथत्तिर विराटश च थरुपथश च महारदः घटॊत्कचाथयश चान्ये निहता थरॊण पर्वणि 165 अश्वत्दामापि चात्रैव थरॊणे युधि निपातिते अस्त्रं पराथुश्चकारॊग्रं नारायणम अमर्षितः 166 सप्तमं भारते पर्व महथ एतथ उथाहृतम अत्र ते पृदिवीपालाः परायशॊ निधनं गताः थरॊण पर्वणि ये शूरा निर्थिष्टाः पुरुषर्षभाः 167 अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तदा अष्टौ शलॊकसहस्राणि तदा नव शतानि च 168 शलॊका नव तदैवात्र संख्यातास तत्त्वथर्शिना पाराशर्येण मुनिना संचिन्त्य थरॊण पर्वणि 169 अतः परं कर्ण पर्व परॊच्यते परमाथ्भुतम सारद्ये विनियॊगश च मथ्रराजस्य धीमतः आख्यातं यत्र पौराणं तरिपुरस्य निपातनम 170 परयाणे परुषश चात्र संवाथः कर्ण शल्ययॊः हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम 171 अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः थवैरदे यत्र पार्देन हतः कर्णॊ महारदः 172 अष्टमं पर्व निर्थिष्टम एतथ भारत चिन्तकैः एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि चत्वार्य एव सहस्राणि नव शलॊकशतानि च 173 अतः परं विचित्रार्दं शक्य पर्व परकीर्तितम हतप्रवीरे सैन्ये तु नेता मथ्रेश्वरॊ ऽभवत 174 वृत्तानि रदयुथ्धानि कीर्त्यन्ते यत्र भागशः विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते 175 शल्यस्य निधनं चात्र धर्मराजान महारदात गथायुथ्धं तु तुमुलम अत्रैव परिकीर्तितम सरस्वत्याश च तीर्दानां पुण्यता परिकीर्तिता 176 नवमं पर्व निर्थिष्टम एतथ अथ्भुतम अर्दवत एकॊन षष्टिर अध्यायास तत्र संख्या विशारथैः 177 संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते तरीणि शलॊकसहस्राणि थवे शते विंशतिस तदा मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम 178 अतः परं परवक्ष्यामि सौप्तिकं पर्व थारुणम भग्नॊरुं यत्र राजानं थुर्यॊधनम अमर्षणम 179 वयपयातेषु पार्देषु तरयस ते ऽभयाययू रदाः कृतवर्मा कृपॊ थरौणिः सायाह्ने रुधिरॊक्षिताः 180 परतिजज्ञे थृढक्रॊधॊ थरौणिर यत्र महारदः अहत्वा सर्वपाञ्चालान धृष्टथ्युम्नपुरॊगमान पाण्डवांश च सहामात्यान न विमॊक्ष्यामि थंशनम 181 परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः पाञ्चालान सपरीवाराञ जघ्नुर थरौणिपुरॊगमाः 182 यत्रामुच्यन्त पार्दास ते पञ्च कृष्ण बलाश्रयात सात्यकिश च महेष्वासः शेषाश च निधनं गताः 183 थरौपथी पुत्रशॊकार्ता पितृभ्रातृवधार्थिता कृतानशन संकल्पा यत्र भर्तॄन उपाविशत 184 थरौपथी वचनाथ यत्र भीमॊ भीमपराक्रमः अन्वधावत संक्रुथ्धॊ भरथ्वाजं गुरॊः सुतम 185 भीमसेन भयाथ यत्र थैवेनाभिप्रचॊथितः अपाण्डवायेति रुषा थरौणिर अस्त्रम अवासृजत 186 मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तथ वचः यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः 187 थरौणिथ्वैपायनाथीनां शापाश चान्यॊन्य कारिताः तॊयकर्मणि सर्वेषां राज्ञाम उथकथानिके 188 गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृदयात्मनः सुतस्यैतथ इह परॊक्तं थशमं पर्व सौप्तिकम 189 अष्टाथशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना शलॊकाग्रम अत्र कदितं शतान्य अष्टौ तदैव च 190 शलॊकाश च सप्ततिः परॊक्ता यदावथ अभिसंख्यया सौप्तिकैषीक संबन्धे पर्वण्य अमितबुथ्धिना 191 अत ऊर्ध्वम इथं पराहुः सत्री पर्व करुणॊथयम विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः करॊधावेशः परसाथश च गान्धारी धृतराष्ट्रयॊः 192 यत्र तान कषत्रियाञ शूरान थिष्टान्तान अनिवर्तिनः पुत्रान भरातॄन पितॄंश चैव थथृशुर निहतान रणे 193 यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः राज्ञां तानि शरीराणि थाहयाम आस शास्त्रतः 194 एतथ एकाथशं परॊक्तं पर्वातिकरुणं महत सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उथाहृताः 195 शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते संखया भारताख्यानं कर्त्रा हय अत्र महात्मना परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम 196 अतः परं शान्ति पर्व थवाथशं बुथ्धिवर्धनम यत्र निर्वेथम आपन्नॊ धर्मराजॊ युधिष्ठिरः घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान 197 शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः राजभिर वेथितव्या ये सम्यङ नयबुभुत्सुभिः 198 आपथ धर्माश च तत्रैव कालहेतु परथर्शकाः यान बुथ्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात मॊक्षधर्माश च कदिता विचित्रा बहुविस्तराः 199 थवाथशं पर्व निर्थिष्टम एतत पराज्ञजनप्रियम पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम तरिंशच चैव तदाध्याया नव चैव तपॊधनाः 200 शलॊकानां तु सहस्राणि कीर्तितानि चतुर्थश पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया 201 अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम भीष्माथ भागीरदी पुत्रात कुरुराजॊ युधिष्ठिरः 202 वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्दीयॊ निथर्शितः विविधानां च थानानां फलयॊगाः पृदग्विधाः 203 तदा पात्रविशेषाश च थानानां च परॊ विधिः आचार विधियॊगश च सत्यस्य च परा गतिः 204 एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता 205 एतत तरयॊथशं पर्व धर्मनिश्चय कारकम अध्यायानां शतं चात्र षट चत्वारिंशथ एव च शलॊकानां तु सहस्राणि षट सप्तैव शतानि च 206 तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्थशम तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम 207 सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः थग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः 208 चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः तत्र तत्र च युथ्धानि राजपुत्रैर अमर्षणैः 209 चित्राङ्गथायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रु वाहेन संशयं चात्र थर्शितः अश्वमेधे महायज्ञे नकुलाख्यानम एव च 210 इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाथ्भुतम अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्थिताः 211 तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च विंशतिश च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 212 तत आश्रमवासाक्यं पर्व पञ्चथशं समृतम यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः धृतराष्ट्राश्रमपथं विथुरश च जगाम ह 213 यं थृष्ट्वा परस्दितं साध्वी पृदाप्य अनुययौ तथा पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 214 यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्दिवान लॊकान्तर गतान वीरान अपश्यत पुनरागतान 215 ऋषेः परसाथात कृष्णस्य थृष्ट्वाश्चर्यम अनुत्तमम तयक्त्वा शॊकं सथारश च सिथ्धिं परमिकां गतः 216 यत्र धर्मं समाश्रित्य विथुरः सुगतिं गतः संजयश च महामात्रॊ विथ्वान गावल्गणिर वशी 217 थथर्श नारथं यत्र धर्मराजॊ युधिष्ठिरः नारथाच चैव शुश्राव वृष्णीनां कथनं महत 218 एतथ आश्रमवासाख्यं पूर्वॊक्तं सुमहाथ्भुतम थविचत्वारिंशथ अध्यायाः पर्वैतथ अभिसंख्यया 219 सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च षड एव च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 220 अतः परं निबॊधेथं मौसलं पर्व थारुणम यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि बरह्मथण्डविनिष्पिष्टाः समीपे लवणाम्भसः 221 आपाने पानगलिता थैवेनाभिप्रचॊथिताः एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम 222 यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ नातिचक्रमतुः कालं पराप्तं सर्वहरं समम 223 यत्रार्जुनॊ थवारवतीम एत्य वृष्णिविनाकृताम थृष्ट्वा विषाथम अगमत परां चार्तिं नरर्षभः 224 स सत्कृत्य यथुश्रेष्ठं मातुलं शौरिम आत्मनः थथर्श यथुवीराणाम आपने वैशसं महत 225 शरीरं वासुथेवस्य रामस्य च महात्मनः संस्कारं लम्भयाम आस वृष्णीनां च परधानतः 226 स वृथ्धबालम आथाय थवारवत्यास ततॊ जनम थथर्शापथि कष्टायां गाण्डीवस्य पराभवम 227 सर्वेषां चैव थिव्यानाम अस्त्राणाम अप्रसन्नताम नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम 228 थृष्ट्वा निवेथम आपन्नॊ वयास वाक्यप्रचॊथितः धर्मराजं समासाथ्य संन्यासं समरॊचयत 229 इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम 230 महाप्रस्दानिकं तस्माथ ऊर्ध्वं सप्त थशं समृतम यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः थरौपथ्या सहिता थेव्या सिथ्धिं परमिकां गताः 231 अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तदा विंशतिश च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 232 सवर्गपर्व ततॊ जञेयं थिव्यं यत तथ अमानुषम अध्यायाः पञ्च संख्याता पर्वैतथ अभिसंख्यया शलॊकानां थवे शते चैव परसंख्याते तपॊधनाः 233 अष्टाथशैवम एतानि पर्वाण्य उक्तान्य अशेषतः खिलेषु हरिवंशश च भविष्यच च परकीर्तितम 234 एतथ अखिलम आख्यातं भारतं पर्व संग्रहात अष्टाथश समाजग्मुर अक्षौहिण्यॊ युयुत्सया तन महथ थारुणं युथ्धम अहान्य अष्टाथशाभवत 235 यॊ विथ्याच चतुरॊ वेथान साङ्गॊपनिषथान थविजः न चाख्यानम इथं विथ्यान नैव स सयाथ विचक्षणः 236 शरुत्वा तव इथम उपाख्यानं शराव्यम अन्यन न रॊचते पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव 237 इतिहासॊत्तमाथ अस्माज जायन्ते कवि बुथ्धयः पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः 238 अस्याख्यानस्य विषये पुराणं वर्तते थविजाः अन्तरिक्षस्य विषये परजा इव चतुर्विधाः 239 करिया गुणानां सर्वेषाम इथम आख्यानम आश्रयः इन्थ्रियाणां समस्तानां चित्रा इव मनः करियाः 240 अनाश्रित्यैतथ आख्यानं कदा भुवि न विथ्यते आहारम अनपाश्रित्य शरीरस्येव धारणम 241 इथं सर्वैः कवि वरैर आख्यानम उपजीव्यते उथयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः 242 थवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अद पापहरं शिवं च यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन 243 आख्यानं तथ इथम अनुत्तमं महार्दं; विन्यस्तं महथ इह पर्व संग्रहेण शरुत्वाथौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यदा पलवेन
| 1 [सूत] जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे थीर्घसत्त्रम उपास्ते तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति 2 तेषु तत सत्रम उपासीनेषु तत्र शवाभ्यागच्छत सारमेयः सजनमेजयस्य भरातृभिर अभिहतॊ रॊरूयमाणॊ मातुः समीपम उपागच्छत 3 तं माता रॊरूयमाणम उवाच किं रॊथिषि केनास्य अभिहत इति 4 स एवम उक्तॊ मातरं परत्युवाच जनमेजयस्य भरातृभिर अभिहतॊ ऽसमीति 5 तं माता परत्युवाच वयक्तं तवया तत्रापराथ्धं येनास्य अभिहत इति 6 स तां पुनर उवाच नापराध्यामि किं चित नावेक्षे हवींषि नावलिह इति 7 तच छरुत्वा तस्य माता सरमा पुत्रशॊकार्ता तत सत्रम उपागच्छथ यत्र सजनमेजयः सह भरातृभिर थीर्घसत्रम उपास्ते 8 स तया करुथ्धया तत्रॊक्तः अयं मे पुत्रॊ न किं चिथ अपराध्यति किमर्दम अभिहत इति यस्माच चायम अभिहतॊ ऽनपकारी तस्माथ अथृष्टं तवां भयम आगमिष्यतीति 9 सजनमेजय एवम उक्तॊ थेव शुन्या सरमया थृढं संभ्रान्तॊ विषण्णश चासीत 10 स तस्मिन सत्रे समाप्ते हास्तिनपुरं परत्येत्य पुरॊहितम अनुरूपम अन्विच्छमानः परं यत्नम अकरॊथ यॊ मे पापकृत्यां शमयेथ इति 11 स कथा चिन मृगयां यातः पारिक्षितॊ जनमेजयः कस्मिंश चित सवविषयॊथ्थेशे आश्रमम अपश्यत 12 तत्र कश चिथ ऋषिर आसां चक्रे शरुतश्रवा नाम तस्याभिमतः पुत्र आस्ते सॊमश्रवा नाम 13 तस्य तं पुत्रम अभिगम्य जनमेजयः पारिक्षितः पौरॊहित्याय वव्रे 14 स नमस्कृत्य तम ऋषिम उवाच भगवन्न अयं तव पुत्रॊ मम पुरॊहितॊ ऽसत्व इति 15 स एवम उक्तः परत्युवाच भॊ जनमेजय पुत्रॊ ऽयं मम सर्प्यां जातः महातपस्वी सवाध्यायसंपन्नॊ मत तपॊ वीर्यसंभृतॊ मच छुक्रं पीतवत्यास तस्याः कुक्षौ संवृथ्धः समर्दॊ ऽयं भवतः सर्वाः पापकृत्याः शमयितुम अन्तरेण महाथेव कृत्याम अस्य तव एकम उपांशु वरतम यथ एनं कश चिथ बराह्मणः कं चिथ अर्दम अभियाचेत तं तस्मै थथ्याथ अयम यथ्य एतथ उत्सहसे ततॊ नयस्वैनम इति 16 तेनैवम उत्कॊ जनमेजयस तं परत्युवाच भगवंस तदा भविष्यतीति 17 स तं पुरॊहितम उपाथायॊपावृत्तॊ भरातॄन उवाच मयायं वृत उपाध्यायः यथ अयं बरूयात तत कार्यम अविचारयथ्भिर इति 18 तेनैवम उक्ता भरातरस तस्य तदा चक्रुः स तदा भरातॄन संथिश्य तक्षशिलां परत्यभिप्रतस्दे तं च थेशं वशे सदापयाम आस 19 एतस्मिन्न अन्तरे कश चिथ ऋषिर धौम्यॊ नामायॊथः 20 स एकं शिष्यम आरुणिं पाञ्चाल्यं परेषयाम आस गच्छ केथारखण्डं बधानेति 21 स उपाध्यायेन संथिष्ट आरुणिः पाञ्चाल्यस तत्र गत्वा तत केथारखण्डं बथ्धुं नाशक्नॊत 22 स कलिश्यमानॊ ऽपश्यथ उपायम भवत्व एवं करिष्यामीति 23 स तत्र संविवेश केथारखण्डे शयाने तस्मिंस तथ उथकं तस्दौ 24 ततः कथा चिथ उपाध्याय आयॊथॊ धौम्यः शिष्यान अपृच्छत कव आरुणिः पाञ्चाल्यॊ गत इति 25 ते परत्यूचुः भगवतैव परेषितॊ गच्छ केथारखण्डं बधानेति 26 स एवम उक्तस ताञ शिष्यान परत्युवाच तस्मात सर्वे तत्र गच्छामॊ यत्र स इति 27 स तत्र गत्वा तस्याह्वानाय शब्थं चकार भॊ आरुणे पाञ्चाल्य कवासि वत्सैहीति 28 स तच छरुत्वा आरुणिर उपाध्याय वाक्यं तस्मात केथारखण्डात सहसॊत्दाय तम उपाध्यायम उपतस्दे परॊवाच चैनम अयम अस्म्य अत्र केथारखण्डे निःसरमाणम उथकम अवारणीयं संरॊथ्धुं संविष्टॊ भगवच छब्थं शरुत्वैव सहसा विथार्य केथारखण्डं भगवन्तम उपस्दितः तथ अभिवाथये भगवन्तम आज्ञापयतु भवान किं करवाणीति 29 तम उपाध्यायॊ ऽबरवीत यस्माथ भवान केथारखण्डम अवथार्यॊत्दितस तस्माथ भवान उथ्थालक एव नाम्ना भविष्यतीति 30 स उपाध्यायेनानुगृहीतः यस्मात तवया मथ्वचॊ ऽनुष्ठितं तस्माच छरेयॊ ऽवाप्स्यसीति सर्वे च ते वेथाः परतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 31 स एवम उक्त उपाध्यायेनेष्टं थेशं जगाम 32 अदापरः शिष्यस तस्यैवायॊथस्य थौम्यस्यॊपमन्युर नाम 33 तम उपाध्यायः परेषयाम आस वत्सॊपमन्यॊ गा रक्षस्वेति 34 स उपाध्याय वचनाथ अरक्षथ गाः स चाहनि गा रक्षित्वा थिवसक्षये ऽभयागम्यॊपाध्यायस्याग्रतः सदित्वा नमश चक्रे 35 तम उपाध्यायः पीवानम अपश्यत उवाच चैनम वत्सॊपमन्यॊ केन वृत्तिं कल्पयसि पीवान असि थृढम इति 36 स उपाध्यायं परत्युवाच भैक्षेण वृत्तिं कल्पयामीति 37 तम उपाध्यायः परत्युवाच ममानिवेथ्य भैक्षं नॊपयॊक्तव्यम इति 38 स तदेत्य उक्त्वा पुनर अरक्षथ गाः रक्षित्वा चागम्य तदैवॊपाध्यायस्याग्रतः सदित्वा नमश चक्रे 39 तम उपाध्यायस तदापि पीवानम एव थृष्ट्वॊवाच वत्सॊपमन्यॊ सर्वम अशेषतस ते भैक्षं गृह्णामि केनेथानीं वृत्तिं कल्पयसीति 40 स एवम उक्त उपाध्यायेन परत्युवाच भगवते निवेथ्य पूर्वम अपरं चरामि तेन वृत्तिं कल्पयामीति 41 तम उपाध्यायः परत्युवाच नैषा नयाय्या गुरुवृत्तिः अन्येषाम अपि वृत्त्युपरॊधं करॊष्य एवं वर्तमानः लुब्धॊ ऽसीति 42 स तदेत्य उक्त्वा गा अरक्षत रक्षित्वा च पुनर उपाध्याय गृहम आगम्यॊपाध्यायस्याग्रतः सदित्वा नमश चक्रे 43 तम उपाध्यायस तदापि पीवानम एव थृष्ट्वा पुनर उवाच अहं ते सर्वं भैक्षं गृह्णामि न चान्यच चरसि पीवान असि केन वृत्तिं कल्पयसीति 44 स उपाध्यायं परत्युवाच भॊ एतासां गवां पयसा वृत्तिं कल्पयामीति 45 तम उपाध्यायः परत्युवाच नैतन नयाय्यं पय उपयॊक्तुं भवतॊ मयाननुज्ञातम इति 46 स तदेति परतिज्ञाय गा रक्षित्वा पुनर उपाध्याय गृहान एत्य पुरॊर अग्रतः सदित्वा नमश चक्रे 47 तम उपाध्यायः पीवानम एवापश्यत उवाच चैनम भैक्षं नाश्नासि न चान्यच चरसि पयॊ न पिबसि पीवान असि केन वृत्तिं कल्पयसीति 48 स एवम उक्त उपाध्यायं परत्युवाच भॊः फेनं पिबामि यम इमे वत्सा मातॄणां सतनं पिबन्त उथ्गिरन्तीति 49 तम उपाध्यायः परत्युवाच एते तवथ अनुकम्पया गुणवन्तॊ वत्साः परभूततरं फेनम उथ्गिरन्ति तथ एवम अपि वत्सानां वृत्त्युपरॊधं करॊष्य एवं वर्तमानः फेनम अपि भवान न पातुम अर्हतीति 50 स तदेति परतिज्ञाय निराहारस ता गा अरक्षत तदा परतिषिथ्धॊ भैक्षं नाश्नाति न चान्यच चरति पयॊ न पिबति फेनं नॊपयुङ्क्ते 51 स कथा चिथ अरण्ये कषुधार्तॊ ऽरकपत्राण्य अभक्षयत 52 स तैर अर्कपत्रैर भक्षितैः कषार कटूष्ण विपाकिभिश चक्षुष्य उपहतॊ ऽनधॊ ऽभवत सॊ ऽनधॊ ऽपि चङ्क्रम्यमाणः कूपे ऽपतत 53 अद तस्मिन्न अनागच्छत्य उपाध्यायः शिष्यान अवॊचत मयॊपमन्युः सर्वतः परतिषिथ्धः स नियतं कुपितः ततॊ नागच्छति चिरगतश चेति 54 स एवम उक्त्वा गत्वारण्यम उपमन्यॊर आह्वानं चक्रे भॊ उपमन्यॊ कवासि वत्सैहीति 55 स तथाह्वानम उपाध्यायाच छरुत्वा परत्युवाचॊच्चैः अयम अस्मि भॊ उपाध्याय कूपे पतित इति 56 तम उपाध्यायः परत्युवाच कदम असि कूपे पतित इति 57 स तं परत्युवाच अर्कपत्राणि भक्षयित्वान्धी भूतॊ ऽसमि अतः कूपे पतित इति 58 तम उपाध्यायः परत्युवाच अश्विनौ सतुहि तौ तवां चक्षुष्मन्तं करिष्यतॊ थेव भिषजाव इति 59 स एवम उक्त उपाध्यायेन सतॊतुं परचक्रमे थेवाव अश्विनौ वाग्भिर ऋग्भिः 60 परपूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव अनन्तौ थिव्यौ सुपर्णौ विरजौ विमानाव; अधिक्षियन्तौ भुवनानि विश्वा 61 हिरण्मयौ शकुनी साम्परायौ; नासत्य थस्रौ सुनसौ वैजयन्तौ शुक्रं वयन्तौ तरसा सुवेमाव; अभि वययन्ताव असितं विवस्वत 62 गरस्तां सुपर्णस्य बलेन वर्तिकाम; अमुञ्चताम अश्विनौ सौभगाय तावत सुवृत्ताव अनमन्त मायया; सत्तमा गा अरुणा उथावहन 63 षष्टिश च गावस तरिशताश च धेनव; एकं वत्सं सुवते तं थुहन्ति नाना गॊष्ठा विहिता एकथॊहनास; ताव अश्विनौ थुहतॊ घर्मम उक्द्यम 64 एकां नाभिं सप्तशता अराः शरिताः; परधिष्व अन्या विंशतिर अर्पिता अराः अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी 65 एकं चक्रं वर्तते थवाथशारं; परधि षण णाभिम एकाक्षम अमृतस्य धारणम यस्मिन थेवा अधि विश्वे विषक्तास; ताव अश्विनौ मुञ्चतॊ मा विषीथतम 66 अश्विनाव इन्थ्रम अमृतं वृत्तभूयौ; तिरॊधत्ताम अश्विनौ थासपत्नी भित्त्वा गिरिम अश्विनौ गाम उथाचरन्तौ; तथ वृष्टम अह्ना परदिता वलस्य 67 युवां थिशॊ जनयदॊ थशाग्रे; समानं मूर्ध्नि रदया वियन्ति तासां यातम ऋषयॊ ऽनुप्रयान्ति; थेवा मनुष्याः कषितिम आचरन्ति 68 युवां वर्णान विकुरुदॊ विश्वरूपांस; ते ऽधिक्षियन्ति भुवनानि विश्वा ते भानवॊ ऽपय अनुसृताश चरन्ति; थेवा मनुष्याः कषितिम आचरन्ति 69 तौ नासत्याव अश्विनाव आमहे वां; सरजं च यां बिभृदः पुष्करस्य तौ नासत्याव अमृतावृतावृधाव; ऋते थेवास तत परपथेन सूते 70 मुखेन गर्भं लभतां युवानौ; गतासुर एतत परपथेन सूते सथ्यॊ जातॊ मातरम अत्ति गर्भस ताव; अश्विनौ मुञ्चदॊ जीवसे गाः 71 एवं तेनाभिष्टुताव अश्विनाव आजग्मतुः आहतुश चैनम परीतौ सवः एष ते ऽपूपः अशानैनम इति 72 स एवम उतः परत्युवाच नानृतम ऊचतुर भवन्तौ न तव अहम एतम अपूपम उपयॊक्तुम उत्सहे अनिवेथ्य गुरव इति 73 ततस तम अश्विनाव ऊचतुः आवाभ्यां पुरस्ताथ भवत उपाध्यायेनैवम एवाभिष्टुताभ्याम अपूपः परीताभ्यां थत्तः उपयुक्तश च स तेनानिवेथ्य गुरवे तवम अपि तदैव कुरुष्व यदा कृतम उपाध्यायेनेति 74 स एवम उक्तः पुनर एव परत्युवाचैतौ परत्यनुनये भवन्ताव अश्विनौ नॊत्सहे ऽहम अनिवेथ्यॊपाध्यायायॊपयॊक्तुम इति 75 तम अश्विनाव आहतुः परीतौ सवस तवानया गुरुवृत्त्या उपाध्यायस्य ते कार्ष्णायसा थन्ताः भवतॊ हिरण्मया भविष्यन्ति चक्षुष्मांश च भविष्यसि शरेयश चावाप्स्यसीति 76 स एवम उक्तॊ ऽशविभ्यां लब्धचक्षुर उपाध्याय सकाशम आगम्यॊपाध्यायम अभिवाथ्याचचक्षे स चास्य परीतिमान अभूत 77 आह चैनम यदाश्विनाव आहतुस तदा तवं शरेयॊ ऽवाप्स्यसीति सर्वे च ते वेथाः परतिभास्यन्तीति 78 एषा तस्यापि परीक्षॊपमन्यॊः 79 अदापरः शिष्यस तस्यैवायॊथस्य धौम्यस्य वेथॊ नाम 80 तम उपाध्यायः संथिथेश वत्स वेथ इहास्यताम भवता मथ्गृहे कं चित कालं शुश्रूषमाणेन भवितव्यम शरेयस ते भविष्यतीति 81 स तदेत्य उक्त्वा गुरु कुले थीर्घकालं गुरुशुश्रूषणपरॊ ऽवसत गौर इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतॊष्णक्षुत तृष्णा थुःखसहः सर्वत्राप्रतिकूलः 82 तस्य महता कालेन गुरुः परितॊषं जगाम तत्परितॊषाच च शरेयः सर्वज्ञतां चावाप एषा तस्यापि परीक्षा वेथस्य 83 स उपाध्यायेनानुज्ञातः समावृत्तस तस्माथ गुरु कुलवासाथ गृहाश्रमं परत्यपथ्यत तस्यापि सवगृहे वसतस तरयः शिष्या बभूवुः 84 स शिष्यान न किं चिथ उवाच कर्म वा करियतां गुरुशुश्रूषा वेति थुःखाभिज्ञॊ हि गुरु कुलवासस्य शिष्यान परिक्लेशेन यॊजयितुं नेयेष 85 अद कस्य चित कालस्य वेथं बराह्मणं जनमेजयः पौष्यश च कषत्रियाव उपेत्यॊपाध्यायं वरयां चक्रतुः 86 स कथा चिथ याज्य कार्येणाभिप्रस्दित उत्तङ्कं नाम शिष्यं नियॊजयाम आस भॊ उत्तङ्क यत किं चिथ अस्मथ गृहे परिहीयते यथ इच्छाम्य अहम अपरिहीणं भवता करियमाणम इति 87 स एवं परतिसमाथिश्यॊत्तङ्कं वेथः परवासं जगाम 88 अदॊत्तङ्कॊ गुरुशुश्रूषुर गुरु नियॊगम अनुतिष्ठमानस तत्र गुरु कुले वसति सम 89 स वसंस तत्रॊपाध्याय सत्रीभिः सहिताभिर आहूयॊक्तः उपाध्यायिनी ते ऋतुमती उपाध्यायश च परॊषितः अस्या यदायम ऋतुर वन्ध्यॊ न भवति तदा करियताम एतथ विषीथतीति 90 स एवम उक्तस ताः सत्रियः परत्युवाच न मया सत्रीणां वचनाथ इथम अकार्यं कार्यम न हय अहम उपाध्यायेन संथिष्टः अकार्यम अपि तवया कार्यम इति 91 तस्य पुनर उपाध्यायः कालान्तरेण गृहान उपजगाम तस्मात परवासात स तथ्वृत्तं तस्याशेषम उपलभ्य परीतिमान अभूत 92 उवाच चैनम वत्सॊत्तङ्क किं ते परियं करवाणीति धर्मतॊ हि शुश्रूषितॊ ऽसमि भवता तेन परीतिः परस्परेण नौ संवृथ्धा तथ अनुजाने भवन्तम सर्वाम एव सिथ्धिं पराप्स्यसि गम्यताम इति 93 स एवम उक्तः परत्युवाच किं ते परियं करवाणीति एवं हय आहुः 94 यश चाधर्मेण विब्रूयाथ यश चाधर्मेण पृच्छति 95 तयॊर अन्यतरः परैति विथ्वेषं चाधिगच्छति सॊ ऽहम अनुज्ञातॊ भवता इच्छामीष्टं ते गुर्वर्दम उपहर्तुम इति 96 तेनैवम उक्त उपाध्यायः परत्युवाच वत्सॊत्तङ्क उष्यतां तावथ इति 97 स कथा चित तम उपाध्यायम आहॊत्तङ्कः आज्ञापयतु भवान किं ते परियम उपहरामि गुर्वर्दम इति 98 तम उपाध्यायः परत्युवाच वत्सॊत्तङ्क बहुशॊ मां चॊथयसि गुर्वर्दम उपहरेयम इति तथ गच्छ एनां परविश्यॊपाध्यायनीं पृच्छ किम उपहरामीति एषा यथ बरवीति तथ उपहरस्वेति 99 स एवम उक्तॊपाध्यायेनॊपाध्यायिनीम अपृच्छत भवत्य उपाध्यायेनास्म्य अनुज्ञातॊ गृहं गन्तुम तथ इच्छामीष्टं ते गुर्वर्दम उपहृत्यानृणॊ गन्तुम तथ आज्ञापयतु भवती किम उपहरामि गुर्वर्दम इति 100 सैवम उक्तॊपाध्यायिन्य उत्तङ्कं परत्युवाच गच्छ पौष्यं राजानम भिक्षस्व तस्य कषत्रियया पिनथ्धे कुण्डले ते आनयस्व इतश चतुर्दे ऽहनि पुण्यकं भविता ताभ्याम आबथ्धाभ्यां बराह्मणान परिवेष्टुम इच्छामि शॊभमाना यदा ताभ्यां कुण्डलाभ्यां तस्मिन्न अहनि संपाथयस्व शरेयॊ हि ते सयात कषणं कुर्वत इति 101 स एवम उक्त उपाध्यायिन्या परातिष्ठतॊत्तङ्कः स पदि गच्छन्न अपश्यथ ऋषभम अतिप्रमाणं तम अधिरूढं च पुरुषम अतिप्रमाणम एव 102 स पुरुष उत्तङ्कम अभ्यभाषत उत्तङ्कैतत पुरीषम अस्य ऋषभस्य भक्षस्वेति 103 स एवम उक्तॊ नैच्छति 104 तम आह पुरुषॊ भूयः भक्षयस्वॊत्तङ्क मा विचारय उपाध्यायेनापि ते भक्षितं पूर्वम इति 105 स एवम उक्तॊ बाढम इत्य उक्त्वा तथा तथ ऋषभस्य पुरीषं मूत्रं च भक्षयित्वॊत्तङ्कः परतस्दे यत्र स कषत्रियः पौष्यः 106 तम उपेत्यापश्यथ उत्तङ्क आसीनम स तम उपेत्याशीर्भिर अभिनन्थ्यॊवाच अर्दी भवन्तम उपगतॊ ऽसमीति 107 स एनम अभिवाथ्यॊवाच भगवन पौष्यः खल्व अहम किं करवाणीति 108 तम उवाचॊत्तङ्कः गुर्वर्दे कुण्डलाभ्याम अर्द्य आगतॊ ऽसमीति ये ते कषत्रियया पिनथ्धे कुण्डले ते भवान थातुम अर्हतीति 109 तं पौष्यः परत्युवाच परविश्यान्तःपुरं कषत्रिया याच्यताम इति 110 स तेनैवम उक्तः परविश्यान्तःपुरं कषत्रियां नापश्यत 111 स पौष्यं पुनर उवाच न युक्तं भवता वयम अनृतेनॊपचरितुम न हि ते कषत्रियान्तःपुरे संनिहिता नैनां पश्यामीति 112 स एवम उक्तः पौष्यस तं परत्युवाच संप्रति भवान उच्छिष्टः समर तावत न हि सा कषत्रिया उच्छिष्टेनाशुचिना वा शक्या थरष्टुम पतिव्रतात्वाथ एषा नाशुचेर थर्शनम उपैतीति 113 अदैवम उक्त उत्तङ्कः समृत्वॊवाच अस्ति खलु मयॊच्छिष्टेनॊपस्पृष्टं शीघ्रं गच्छता चेति 114 तं पौष्यः परत्युवाच एतत तथ एवं हि न गच्छतॊपस्पृष्टं भवति न सदितेनेति 115 अदॊत्तङ्कस तदेत्य उक्त्वा पराङ्मुख उपविश्य सुप्रक्षालित पाणिपाथवथनॊ ऽशब्थाभिर हृथयंगमाभिर अथ्भिर उपस्पृश्य तरिः पीत्वा थविः परमृज्य खान्य अथ्भिर उपस्पृश्यान्तःपुरं परविश्य तां कषत्रियाम अपश्यत 116 सा च थृष्ट्वैवॊत्तङ्कम अभ्युत्दायाभिवाथ्यॊवाच सवागतं ते भगवन आज्ञापय किं करवाणीति 117 स ताम उवाच एते कुण्डले गुर्वर्दं मे भिक्षिते थातुम अर्हसीति 118 सा परीता तेन तस्य सथ्भावेन पात्रम अयम अनतिक्रमणीयश चेति मत्वा ते कुण्डले अवमुच्यास्मै परायच्छत 119 आह चैनम एते कुण्डले तक्षकॊ नागराजः परार्दयति अप्रमत्तॊ नेतुम अर्हसीति 120 स एवम उक्तस तां कषत्रियां परत्युवाच भवति सुनिर्वृत्ता भव न मां शक्तस तक्षकॊ नागराजॊ धर्षयितुम इति 121 स एवम उक्त्वा तां कषत्रियाम आमन्त्र्य पौष्य सकाशम आगच्छत 122 स तं थृष्ट्वॊवाच भॊः पौष्य परीतॊ ऽसमीति 123 तं पौष्यः परत्युवाच भगवंश चिरस्य पात्रम आसाथ्यते भवांश च गुणवान अतिदिः तत करिये शराथ्धम कषणः करियताम इति 124 तम उत्तङ्कः परत्युवाच कृतक्षण एवास्मि शीघ्रम इच्छामि यदॊपपन्नम अन्नम उपहृतं भवतेति 125 स तदेत्य उक्त्वा यदॊपपन्नेनान्नेनैनं भॊजयाम आस 126 अदॊत्तङ्कः शीतम अन्नं सकेशं थृष्ट्वाशुच्य एतथ इति मत्वा पौष्यम उवाच यस्मान मे अशुच्य अन्नं थथासि तस्मथ अन्धॊ भविष्यसीति 127 तं पौष्यः परत्युवाच यस्मात तवम अप्य अथुष्टम अन्नं थूषयसि तस्माथ अनपत्यॊ भविष्यसीति 128 सॊ ऽद पौष्यस तस्याशुचि भावम अन्नस्यागमयाम आस 129 अद तथन्नं मुक्तकेश्या सत्रियॊपहृतं सकेशम अशुचि मत्वॊत्तङ्कं परसाथयाम आस भगवन्न अज्ञानाथ एतथ अन्नं सकेशम उपहृतं शीतं च तत कषामये भवन्तम न भवेयम अन्ध इति 130 तम उत्तङ्कः परत्युवाच न मृषा बरवीमि भूत्वा तवम अन्धॊ नचिराथ अनन्धॊ भविष्यसीति ममापि शापॊ न भवेथ भवता थत्त इति 131 तं पौष्यः परत्युवाच नाहं शक्तः शापं परत्याथातुम न हि मे मन्युर अथ्याप्य उपशमं गच्छति किं चैतथ भवता न जञायते यदा 132 नावनीतं हृथयं बराह्मणस्य; वाचि कषुरॊ निहितस तीक्ष्णधारः विपरीतम एतथ उभयं कषत्रियस्य; वान नावनीती हृथयं तीक्ष्णधारम 133 इति तथ एवंगते न शक्तॊ ऽहं तीक्ष्णहृथयत्वात तं शापम अन्यदा कर्तुम गम्यताम इति 134 तम उत्तङ्कः परत्युवाच भवताहम अन्नस्याशुचि भावम आगमय्य परत्यनुनीतः पराक च ते ऽभिहितम यस्माथ अथुष्टम अन्नं थूषयसि तस्माथ अनपत्यॊ भविष्यसीति थुष्टे चान्ने नैष मम शापॊ भविष्यतीति 135 साधयामस तावथ इत्य उक्त्वा परातिष्ठतॊत्तङ्कस ते कुण्डले गृहीत्वा 136 सॊ ऽपश्यत पदि नग्नं शरमणम आगच्छन्तं मुहुर मुहुर थृश्यमानम अथृश्यमानं च अदॊत्तङ्कस ते कुण्डले भूमौ निक्षिप्यॊथकार्दं परचक्रमे 137 एतस्मिन्न अन्तरे स शरमणस तवरमाण उपसृत्य ते कुण्डले गृहीत्वा पराथ्रवत तम उत्तङ्कॊ ऽभिसृत्य जग्राह स तथ रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 138 परविश्य च नागलॊकं सवभवनम अगच्छत तम उत्तङ्कॊ ऽनवाविवेश तेनैव बिलेन परविश्य च नागान अस्तुवथ एभिः शलॊकैः 139 य ऐरावत राजानः सर्पाः समितिशॊभनाः वर्षन्त इव जीमूताः सविथ्युत्पवनेरिताः 140 सुरूपाश च विरूपाश च तदा कल्माषकुण्डलाः आथित्यवन नाकपृष्ठे रेजुर ऐरावतॊथ्भवाः 141 बहूनि नागवर्त्मानि गङ्गायास तीर उत्तरे इच्छेत कॊ ऽरकांशु सेनायां चर्तुम ऐरावतं विना 142 शतान्य अशीतिर अष्टौ च सहस्राणि च विंशतिः सर्पाणां परग्रहा यान्ति धृतराष्ट्रॊ यथ एजति 143 ये चैनम उपसर्पन्ति ये च थूरं परं गताः अहम ऐरावत जयेष्ठभ्रातृभ्यॊ ऽकरवं नमः 144 यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत सथा तं काथ्रवेयम अस्तौषं कुण्डलार्दाय तक्षकम 145 तक्षकश चाश्वसेनश च नित्यं सहचराव उभौ कुरुक्षेत्रे निवसतां नथीम इक्षुमतीम अनु 146 जघन्यजस तक्षकस्य शरुतसेनेति यः शरुतः अवसथ्यॊ महथ थयुम्नि परार्दयन नागमुख्यताम करवाणि सथा चाहं नमस तस्मै महात्मने 147 एवं सतुवन्न अपि नागान यथा ते कुण्डले नालभथ अदापश्यत सत्रियौ तन्त्रे अधिरॊप्य पटं वयन्त्यौ 148 तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः चक्रं चापश्यत षड्भिः कुमारैः परिवर्त्यमानम पुरुषं चापश्यथ थर्शनीयम 149 स तान सर्वास तुष्टावैभिर मन्त्रवाथश्लॊकैः 150 तरीण्य अर्पितान्य अत्र शतानि मध्ये; षष्टिश च नित्यं चरति धरुवे ऽसमिन चक्रे चतुर्विंशतिपर्व यॊगे षड; यत कुमाराः परिवर्तयन्ति 151 तन्त्रं चेथं विश्वरूपं युवत्यौ; वयतस तन्तून सततं वर्तयन्त्यौ कृष्णान सितांश चैव विवर्तयन्त्यौ; भूतान्य अजस्रं भुवनानि चैव 152 वज्रस्य भर्ता भुवनस्य गॊप्ता; वृत्रस्य हन्ता नमुचेर निहन्ता कृष्णे वसानॊ वसने महात्मा; सत्यानृते यॊ विविनक्ति लॊके 153 यॊ वाजिनं गर्भम अपां पुराणं; वैश्वानरं वाहनम अभ्युपेतः नमः सथास्मै जगथ ईश्वराय; लॊकत्रयेशाय पुरंथराय 154 ततः स एनं पुरुषः पराह परीतॊ ऽसमि ते ऽहम अनेन सतॊत्रेण किं ते परियं करवाणीति 155 स तम उवाच नागा मे वशम ईयुर इति 156 स एनं पुरुषः पुनर उवाच एतम अश्वम अपाने धमस्वेति 157 स तम अश्वम अपाने ऽधमत अदाश्वाथ धम्यमानात सर्वस्रॊतॊभ्यः सधूमा अर्चिषॊ ऽगनेर निष्पेतुः 158 ताभिर नागलॊकॊ धूपितः 159 अद ससंभ्रमस तक्षकॊ ऽगनितेजॊ भयविषण्णस ते कुण्डले गृहीत्वा सहसा सवभवनान निष्क्रम्यॊत्तङ्कम उवाच एते कुण्डले परतिगृह्णातु भवान इति 160 स ते परतिजग्राहॊत्तङ्कः कुण्डले परतिगृह्याचिन्तयत अथ्य तत पुण्यकम उपाध्यायिन्याः थूरं चाहम अभ्यागतः कदं नु खलु संभावयेयम इति 161 तत एनं चिन्तयानम एव स पुरुष उवाच उत्तङ्क एनम अश्वम अधिरॊह एष तवां कषणाथ एवॊपाध्याय कुलं परापयिष्यतीति 162 स तदेत्य उक्त्वा तम अश्वम अधिरुह्य परत्याजगामॊपाध्याय कुलम उपाध्यायिनी च सनाता केशान आवपयन्त्य उपविष्टॊत्तङ्कॊ नागच्छतीति शापायास्य मनॊ थधे 163 अदॊत्तङ्कः परविश्यॊपाध्यायिनीम अभ्यवाथयत ते चास्यै कुण्डले परायच्छत 164 सा चैनं परत्युवाच उत्तङ्क थेशे काले ऽभयागतः सवागतं ते वत्स मनाग असि मया न शप्तः शरेयस तवॊपस्दितम सिथ्धम आप्नुहीति 165 अदॊत्तङ्क उपाध्यायम अभ्यवाथयत तम उपाध्यायः परत्युवाच वत्सॊत्तङ्क सवागतं ते किं चिरं कृतम इति 166 तम उत्तङ्क उपाध्यायं परत्युवाच भॊस तक्षकेण नागराजेन विघ्नः कृतॊ ऽसमिन कर्मणि तेनास्मि नागलॊकं नीतः 167 तत्र च मया थृष्टे सत्रियौ तन्त्रे ऽधिरॊप्य पटं वयन्त्यौ तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः किं तत 168 तत्र च मया चक्रं थृष्टं थवाथशारम षट चैनं कुमाराः परिवर्तयन्ति तथ अपि किम 169 पुरुषश चापि मया थृष्टः स पुनः कः 170 अश्वश चातिप्रमाण युक्तः स चापि कः 171 पदि गच्छता मयर्षभॊ थृष्टः तं च पुरुषॊ ऽधिरूढः तेनास्मि सॊपचारम उक्तः उत्तङ्कास्यर्षभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितम इति ततस तथ वचनान मया तथ ऋषभस्य पुरीषम उपयुक्तम तथ इच्छामि भवतॊपथिष्टं किं तथ इति 172 तेनैवम उक्त उपाध्यायः परत्युवाच ये ते सत्रियौ धाता विधाता च ये च ते कृष्णाः सिताश च तन्तवस ते रात्र्यहनी 173 यथ अपि तच चक्रं थवाथशारं षट कुमाराः परिवर्तयन्ति ते ऋतवः षट संवत्सरश चक्रम यः पुरुषः स पर्जन्यः यॊ ऽशवः सॊ ऽगनिः 174 य ऋषभस तवया पदि गच्छता थृष्टः स ऐरावतॊ नागराजः यश चैनम अधिरूढः सेन्थ्रः यथ अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तथ अमृतम 175 तेन खल्व असि न वयापन्नस तस्मिन नागभवने स चापि मम सखा इन्थ्रः 176 तथ अनुग्रहात कुण्डले गृहीत्वा पुनर अभ्यागतॊ ऽसि तत सौम्य गम्यताम अनुजाने भवन्तम शरेयॊ ऽवाप्स्यसीति 177 स उपाध्यायेनानुज्ञात उत्तङ्कः करुथ्धस तक्षकस्य परतिचिकीर्षमाणॊ हास्तिनपुरं परतस्दे 178 स हास्तिनपुरं पराप्य नचिराथ थविजसत्तमः समागच्छत राजानम उत्तङ्कॊ जनमेजयम 179 पुरा तक्षशिलातस तं निवृत्तम अपराजितम सम्यग विजयिनं थृष्ट्वा समन्तान मन्त्रिभिर वृतम 180 तस्मै जयाशिषः पूर्वं यदान्यायं परयुज्य सः उवाचैनं वचः काले शब्थसंपन्नया गिरा 181 अन्यस्मिन करणीये तवं कार्ये पार्दिव सत्तम बाल्याथ इवान्यथ एव तवं कुरुषे नृपसत्तम 182 एवम उक्तस तु विप्रेण स राजा परत्युवाच ह जनमेजयः परसन्नात्मा सम्यक संपूज्य तं मुनिम 183 आसां परजानां परिपालनेन; सवं कषत्रधर्मं परिपालयामि परब्रूहि वा किं करियतां थविजेन्थ्र; शुश्रूषुर अस्म्य अथ्य वचस तवथीयम 184 स एवम उक्तस तु नृपॊत्तमेन; थविजॊत्तमः पुण्यकृतां वरिष्ठः उवाच राजानम अथीनसत्त्वं; सवम एव कार्यं नृपतेश च यत तत 185 तक्षकेण नरेन्थ्रेन्थ्र येन ते हिंसितः पिता तस्मै परतिकुरुष्व तवं पन्नगाय थुरात्मने 186 कार्यकालं च मन्ये ऽहं विधिथृष्टस्य कर्मणः तथ गच्छापचितिं राजन पितुस तस्य महात्मनः 187 तेन हय अनपराधी स थष्टॊ थुष्टान्तर आत्मना पञ्चत्वम अगमथ राजा वर्जाहत इव थरुमः 188 बलथर्प समुत्सिक्तस तक्षकः पन्नगाधमः अकार्यं कृतवान पापॊ यॊ ऽथशत पितरं तव 189 राजर्षिर वंशगॊप्तारम अमर परतिमं नृपम जघान काश्यपं चैव नयवर्तयत पापकृत 190 थग्धुम अर्हसि तं पापं जवलिते हव्यवाहने सर्वसत्रे महाराज तवयि तथ धि विधीयते 191 एवं पितुश चापचितिं गतवांस तवं भविष्यसि मम परियं च सुमहत कृतं राजन भविष्यति 192 कर्मणः पृदिवीपाल मम येन थुरात्मना विघ्नः कृतॊ महाराज गुर्वर्दं चरतॊ ऽनघ 193 एतच छरुत्वा तु नृपतिस तक्षकस्य चुकॊप ह उत्तङ्क वाक्यहविषा थीप्तॊ ऽगनिर हविषा यदा 194 अपृच्छच च तथा राजा मन्त्रिणः सवान सुथुःखितः उत्तङ्कस्यैव सांनिध्ये पितुः सवर्गगतिं परति 195 तथैव हि स राजेन्थ्रॊ थुःखशॊकाप्लुतॊ ऽभवत यथैव पितरं वृत्तम उत्तङ्काथ अशृणॊत तथा
| 1 लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर थवाथश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्दे 2 पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच किं भवन्तः शरॊतुम इच्छन्ति किम अहं बरुवाणीति 3 तम ऋषय ऊचुः परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कदा यॊगम तथ भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते 4 यॊ ऽसौ थिव्याः कदा वेथ थेवतासुरसंकदाः मनुष्यॊरगगन्धर्वकदा वेथ स सर्वशः 5 स चाप्य अस्मिन मखे सौते विथ्वान कुलपतिर थविजः थक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः 6 सत्यवाथी शम परस तपस्वी नियतव्रतः सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम 7 तस्मिन्न अध्यासति गुराव आसनं परमार्चितम ततॊ वक्ष्यसि यत तवां स परक्ष्यति थविजसत्तमः 8 [सूत] एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि तेन पृष्टः कदाः पुण्या वक्ष्यामि विविधाश्रयाः 9 सॊ ऽद विप्रर्षभः कार्यं कृत्वा सर्वं यदाक्रमम थेवान वाग्भिः पितॄन अथ्भिस तर्पयित्वाजगाम ह 10 यत्र बरह्मर्षयः सिथ्धास त आसीना यतव्रताः यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः 11 ऋत्विक्ष्व अद सथस्येषु स वै गृहपतिस ततः उपविष्टेषूपविष्टः शौनकॊ ऽदाब्रवीथ इथम
| 1 [षौनक] पुराणम अखिलं तात पिता ते ऽधीतवान पुरा कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे 2 पुराणे हि कदा थिव्या आथिवंशाश च धीमताम कद्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव 3 तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम कदयस्व कदाम एतां कल्याः सम शरवणे तव 4 [स] यथ अधीतं पुरा सम्यग थविजश्रेष्ठ महात्मभिः वैशम्पायन विप्राथ्यैस तैश चापि कदितं पुरा 5 यथ अधीतं च पित्रा मे सम्यक चैव ततॊ मया तत तावच छृणु यॊ थेवैः सेन्थ्रैः साग्निमरुथ गणैः पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्थन 6 इमं वंशम अहं बरह्मन भार्गवं ते महामुने निगथामि कदा युक्तं पुराणाश्रय संयुतम 7 भृगॊः सुथयितः पुत्रश चयवनॊ नाम भार्गवः चयवनस्यापि थायाथः परमतिर नाम धार्मिकः परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत 8 रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेथपारगः परमथ्वरायां धर्मात्मा तव पूर्वपितामहात 9 तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः धर्मिष्ठः सत्यवाथी च नियतॊ नियतेन्थ्रियः 10 [ष] सूतपुत्र यदा तस्य भार्गवस्य महात्मनः चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः 11 [स] भृगॊः सुथयिता भार्या पुलॊमेत्य अभिविश्रुता तस्यां गर्भः समभवथ भृगॊर वीर्यसमुथ्भवः 12 तस्मिन गर्भे संभृते ऽद पुलॊमायां भृगूथ्वह समये समशीलिन्यां धर्मपत्न्यां यशस्विनः 13 अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे आश्रमं तस्य रक्षॊ ऽद पुलॊमाभ्याजगाम ह 14 तं परविश्याश्रमं थृष्ट्वा भृगॊर भार्याम अनिन्थिताम हृच्छयेन समाविष्टॊ विचेताः समपथ्यत 15 अभ्यागतं तु तथ रक्षः पुलॊमा चारुथर्शना नयमन्त्रयत वन्येन फलमूलाथिना तथा 16 तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम थृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्थिताम 17 अदाग्निशरणे ऽपश्यज जवलितं जातवेथसम तम अपृच्छत ततॊ रक्षः पावकं जवलितं तथा 18 शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै सत्यस तवम असि सत्यं मे वथ पावकपृच्छते 19 मया हीयं पूर्ववृता भार्यार्दे वरवर्णिनी पश्चात तव इमां पिता पराथाथ भृगवे ऽनृतकारिणे 20 सेयं यथि वरारॊहा भृगॊर भार्या रहॊगता तदा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाथ इमाम 21 मन्युर हि हृथयं मे ऽथय परथहन्न इव तिष्ठति मत पुर्व भार्यां यथ इमां भृगुः पराप सुमध्यमाम 22 तथ रक्ष एवम आमन्त्र्य जवलितं जातवेथसम शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत 23 तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यथा साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः 24 मत पूर्वभार्यापहृता भृगुणानृत कारिणा सेयं यथि तदा मे तवं सत्यम आख्यातुम अर्हसि 25 शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात जातवेथः पश्यतस ते वथ सत्यां गिरं मम 26 तस्य तथ वचनं शरुत्वा सप्तार्चिर थुःखितॊ भृशम भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः
| 1 [स] अग्नेर अद वचः शरुत्वा तथ रक्षः परजहार ताम बरह्मन वराहरूपेण मनॊमारुतरंहसा 2 ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊथ्वह रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत 3 तं थृष्ट्वा मातुर उथराच चयुतम आथित्यवर्चसम तथ रक्षॊ भस्मसाथ भूतं पपात परिमुच्य ताम 4 सा तम आथाय सुश्रॊणी ससार भृगुनन्थनम चयवनं भार्गवं बरह्मन पुलॊमा थुःखमूर्च्छिता 5 तां थथर्श सवयं बरह्मा सर्वलॊकपितामहः रुथतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्थिताम सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः 6 अश्रुबिन्थूथ्भवा तस्याः परावर्तत महानथी अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः 7 तस्या मार्गं सृतवतीं थृष्ट्वा तु सरितं तथा नाम तस्यास तथा नथ्याश चक्रे लॊकपितामहः वधू सरेति भगवांश चयवनस्याश्रमं परति 8 स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान तं थथर्श पिता तत्र चयवनं तां च भामिनीम 9 स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः केनासि रक्षसे तस्मै कदितेह जिहीर्षवे न हि तवां वेथ तथ रक्षॊ मथ भार्यां चारुहासिनीम 10 तत्त्वम आख्याहि तं हय अथ्य शप्तुम इच्छाम्य अहं रुषा बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः 11 [प] अग्निना भगवांस तस्मै रक्षसे ऽहं निवेथिता ततॊ माम अनयथ रक्षः करॊशन्तीं कुररीम इव 12 साहं तव सुतस्यास्य तेजसा परिमॊक्षिता भस्मीभूतं च तथ रक्षॊ माम उत्सृज्य पपात वै 13 [सूत] इति शरुत्वा पुलॊमाया भृगुः परममन्युमान शशापाग्निम अभिक्रुथ्धः सर्वभक्षॊ भविष्यसि
| 1 [सूत] शप्तस तु भृगुणा वह्निः करुथ्धॊ वाक्यम अदाब्रवीत किम इथं साहसं बरह्मन कृतवान असि सांप्रतम 2 धर्मे परयतमानस्य सत्यं च वथतः समम पृष्टॊ यथ अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम 3 पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयदा वथेत स पूर्वान आत्मनः सप्त कुले हन्यात तदा परान 4 यश च कार्यार्दतत्त्वज्ञॊ जानमानॊ न भाषते सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः 5 शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम जानतॊ ऽपि च ते वयक्तं कदयिष्ये निबॊध तत 6 यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु अग्निहॊत्रेषु सत्रेषु करियास्व अद मखेषु च 7 वेथॊक्तेन विधानेन मयि यथ धूयते हविः थेवताः पितरश चैव तेन तृप्ता भवन्ति वै 8 आपॊ थेवगणाः सर्वे आपः पितृगणास तदा थर्शश च पौर्णमासश च थेवानां पितृभिः सह 9 थेवताः पितरस तस्मात पितरश चापि थेवताः एकीभूताश च पूज्यन्ते पृदक्त्वेन च पर्वसु 10 थेवताः पितरश चैव जुह्वते मयि यत सथा तरिथशानां पितॄणां च मुखम एवम अहं समृतः 11 अमावास्यां च पितरः पौर्णमास्यां च थेवताः मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः सर्वभक्षः कदं तेषां भविष्यामि मुखं तव अहम 12 चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः थविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च 13 निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः विनाङ्गिना परजाः सर्वास तत आसन सुथुःखिताः 14 अदर्षयः समुथ्विग्ना थेवान गत्वाब्रुवन वचः अग्निनाशात करिया भरंशाथ भरान्ता लॊकास तरयॊ ऽनघाः विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यदा 15 अदर्षयश च थेवाश च बराह्मणम उपगम्य तु अग्नेर आवेथयञ शापं करिया संहारम एव च 16 भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे कदं थेव मुखॊ भूत्वा यज्ञभागाग्र भुक तदा हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति 17 शरुत्वा तु तथ वचस तेषाम अग्निम आहूय लॊककृत उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम 18 लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः स तदा कुरु लॊकेश नॊच्छिथ्येरन करिया यदा 19 कस्माथ एवं विमूढस तवम ईश्वरः सन हुताशनः तवं पवित्रं यथा लॊके सर्वभूतगतश च ह 20 न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि उपाथाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन 21 यदा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते तदा तवथ अर्चिर निर्थग्धं सर्वं शुचि भविष्यति 22 तथ अग्ने तवं महत तेजः सवप्रभावाथ विनिर्गतम सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ थेवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम 23 एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम जगाम शासनं कर्तुं थेवस्य परमेष्ठिनः 24 थेवर्षयश च मुथितास ततॊ जग्मौर यदागतम ऋषयश च यदापूर्वं करियाः सर्वाः परचक्रिरे 25 थिवि थेवा मुमुथिरे भूतसंघाश च लौकिकाः अग्निश च परमां परीतिम अवाप हतकल्मषः 26 एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः पुलॊमस्य विनाशश च चयवनस्य च संभवः
| 1 [स] स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम सुकन्यायां महात्मानं परमतिं थीप्ततेजसम 2 परमतिस तु रुरुं नाम घृताच्यां समजीजनत रुरुः परमथ्वरायां तु शुनकं समजीजनत 3 तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः 4 ऋषिर आसीन महान पूर्वं तपॊ विथ्या समन्वितः सदूलकेश इति खयातः सर्वभूतहिते रतः 5 एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः 6 अदाप्सरा मेनका सा तं गर्भं भृगुनन्थन उत्ससर्ज यदाकालं सदूलकेशाश्रमं परति 7 उत्सृज्य चैव तं गर्भं नथ्यास तीरे जगाम ह कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया 8 तां थथर्श समुत्सृष्टां नथीतीरे महान ऋषिः सदूलकेशः स तेजस्वी विजने बन्धुवर्जिताम 9 स तां थृष्ट्वा तथा कन्यां सदूलकेशॊ थविजॊत्तमः जग्राहाद मुनिश्रेष्ठः कृपाविष्टः पुपॊष च ववृधे सा वरारॊहा तस्याश्रमपथे शुभा 10 परमथाभ्यॊ वरा सा तु सर्वरूपगुणान्विता ततः परमथ्वरेत्य अस्या नाम चक्रे महान ऋषिः 11 ताम आश्रमपथे तस्य रुरुर थृष्ट्वा परमथ्वराम बभूव किल धर्मात्मा मथनानुगतात्मवान 12 पितरं सखिभिः सॊ ऽद वाचयाम आस भार्गवः परमतिश चाभ्ययाच छरुत्वा सदूलकेशं यशस्विनम 13 ततः पराथात पिता कन्यां रुरवे तां परमथ्वराम विवाहं सदापयित्वाग्रे नक्षत्रे भगथैवते 14 ततः कति पयाहस्य विवाहे समुपस्दिते सखीभिः करीडती सार्धं सा कन्या वरवर्णिनी 15 नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम पथा चैनं समाक्रामन मुमूर्षुः कालचॊथिता 16 स तस्याः संप्रमत्तायाश चॊथितः कालधर्मणा विषॊपलिप्तान थशनान भृशम अङ्गे नयपातयत 17 सा थष्टा सहसा भूमौ पतिता गतचेतना वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः 18 परसुप्तेवाभवच चापि भुवि सर्पविषार्थिता भूयॊ मनॊहरतरा बभूव तनुमध्यमा 19 थथर्श तां पिता चैव ते चैवान्ये तपस्विनः विचेष्टमानां पतितां भूतले पथ्मवर्चसम 20 ततः सर्वे थविज वराः समाजग्मुः कृपान्विताः सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः 21 भारथ्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽद गौतमः परमतिः सह पुत्रेण तदान्ये वनवासिनः 22 तां ते कन्यां वयसुं थृष्ट्वा भुजगस्य विषार्थिताम रुरुथुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ
| 1 [सूत] तेषु तत्रॊपविष्टेषु बराह्मणेषु समन्ततः रुरुश चुक्रॊश गहनं वनं गत्वा सुथुःखितः 2 शॊकेनाभिहतः सॊ ऽद विलपन करुणं बहु अब्रवीथ वचनं शॊचन परियां चिन्त्य परमथ्वराम 3 शेते सा भुवि तन्व अङ्गी मम शॊकविवर्धिनी बान्धवानां च सर्वेषां किं नु थुःखम अतः परम 4 यथि थत्तं तपस तप्तं गुरवॊ वा मया यथि सम्यग आराधितास तेन संजीवतु मम परिया 5 यदा जन्मप्रभृति वै यतात्माहं धृतव्रतः परमथ्वरा तदाथ्यैव समुत्तिष्ठतु भामिनी 6 [थेवथूत] अभिधत्से ह यथ वाचा रुरॊ थुःखेन तन मृषा न तु मर्त्यस्य धर्मात्मन्न आयुर अस्ति गतायुषः 7 गतायुर एषा कृपणा गन्धर्वाप्सरसॊः सुता तस्माच छॊके मनस तात मा कृदास तवं कदं चन 8 उपायश चात्र विहितः पूर्वं थेवैर महात्मभिः तं यथीच्छसि कर्तुं तवं पराप्स्यसीमां परमथ्वराम 9 [र] क उपायः कृतॊ थेवैर बरूहि तत्त्वेन खेचर करिष्ये तं तदा शरुत्वा तरातुम अर्हति मां भवान 10 [थ] आयुषॊ ऽरधं परयच्छस्व कन्यायै भृगुनन्थन एवम उत्दास्यति रुरॊ तव भार्या परमथ्वरा 11 [र] आयुषॊ ऽरधं परयच्छामि कन्यायै खेचरॊत्तम शृङ्गाररूपाभरणा उत्तिष्ठतु मम परिया 12 [स] ततॊ गन्धर्वराजश च थेवथूतश च सत्तमौ धर्मराजम उपेत्येथं वचनं परत्यभाषताम 13 धर्मराजायुषॊ ऽरधेन रुरॊर भार्या परमथ्वरा समुत्तिष्ठतु कल्याणी मृतैव यथि मन्यसे 14 [ध] परमथ्वरा रुरॊर भार्या थेवथूत यथीच्छसि उत्तिष्ठत्व आयुषॊ ऽरधेन रुरॊर एव समन्विता 15 [स] एवम उक्ते ततः कन्या सॊथतिष्ठत परमथ्वरा रुरॊस तस्यायुषॊ ऽरधेन सुप्तेव वरवर्णिनी 16 एतथ थृष्टं भविष्ये हि रुरॊर उत्तमतेजसः आयुषॊ ऽतिप्रवृथ्धस्य भार्यार्दे ऽरधं हरसत्व इति 17 तत इष्टे ऽहनि तयॊः पितरौ चक्रतुर मुथा विवाहं तौ च रेमाते परस्परहितैषिणौ 18 स लब्ध्वा थुर्लभां भार्यां पथ्मकिञ्जल्क सप्रभाम वरतं चक्रे विनाशाय जिह्मगानां धृतव्रतः 19 स थृष्ट्वा जिह्मगान सर्वांस तीव्रकॊपसमन्वितः अभिहन्ति यदासन्नं गृह्य परहरणं सथा 20 स कथा चिथ वनं विप्रॊ रुरुर अभ्यागमन महत शयानं तत्र चापश्यड डुण्डुभं वयसान्वितम 21 तत उथ्यम्य थण्डं स कालथण्डॊपमं तथा अभ्यघ्नथ रुषितॊ विप्रस तम उवाचाद डुण्डुभः 22 नापराध्यामि ते किं चिथ अहम अथ्य तपॊधन संरम्भात तत किमर्दं माम अभिहंसि रुषान्वितः
| 1 [र] मम पराणसमा भार्या थष्टासीथ भुजगेन ह तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः 2 हन्यां सथैव भुजगं यं यं पश्येयम इत्य उत ततॊ ऽहं तवां जिघांसामि जीवितेन विमॊक्ष्यसे 3 [थु] अन्ये ते भुजगा विप्र ये थशन्तीह मानवान डुण्डुभान अहि गन्धेन न तवं हिंसितुम अर्हसि 4 एकान अर्दान पृदग अर्दान एकथुःखान पृदक सुखान डुण्डुभान धर्मविथ भूत्वा न तवं हिंसितुम अर्हसि 5 [सूत] इति शरुत्वा वचस तस्य भुजगस्य रुरुस तथा नावथीथ भयसंविग्न ऋषिं मत्वाद डुण्डुभम 6 उवाच चैनं भगवान रुरुः संशमयन्न इव कामया भुजग बरूहि कॊ ऽसीमां विक्रियां गतः 7 [थु] अहं पुरा रुरॊ नाम्ना ऋषिर आसं सहस्रपात सॊ ऽहं शापेन विप्रस्य भुजगत्वम उपागतः 8 [रु] किमर्दं शप्तवान करुथ्धॊ थविजस तवां भुजगॊत्तम कियन्तं चैव कालं ते वपुर एतथ भविष्यति
| 1 [थु] सखा बभूव मे पूर्वं खगमॊ नाम वै थविजः भृशं संशितवाक तात तपॊबलसमन्वितः 2 स मया करीडता बाल्ये कृत्वा तार्णम अदॊरगम अग्निहॊत्रे परसक्तः सन भीषितः परमुमॊह वै 3 लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः निर्थहन्न इव कॊपेन सत्यवाक संशितव्रतः 4 यदा वीर्यस तवया सर्पः कृतॊ ऽयं मथ विभीषया तदा वीर्यॊ भुजंगस तवं मम कॊपाथ भविष्यसि 5 तस्याहं तपसॊ वीर्यं जानमानस तपॊधन भृशम उथ्विग्नहृथयस तम अवॊचं वनौकसम 6 परयतः संभ्रमाच चैव पराञ्जलिः परणतः सदितः सखेति हसतेथं ते नर्मार्दं वै कृतं मया 7 कषन्तुम अर्हसि मे बरह्मञ शापॊ ऽयं विनिवर्त्यताम सॊ ऽद माम अब्रवीथ थृष्ट्वा भृशम उथ्विग्नचेतसम 8 मुहुर उष्णं विनिःश्वस्य सुसंभ्रान्तस तपॊधनः नानृतं वै मया परॊक्तं भवितेथं कदं चन 9 यत तु वक्ष्यामि ते वाक्यं शृणु तन मे धृतव्रत शरुत्वा च हृथि ते वाक्यम इथम अस्तु तपॊधन 10 उत्पत्स्यति रुरुर नाम परमतेर आत्मजः शुचिः तं थृष्ट्वा शापमॊक्षस ते भविता नचिराथ इव 11 स तवं रुरुर इति खयातः परमतेर आत्मजः शुचिः सवरूपं परतिलभ्याहम अथ्य वक्ष्यामि ते हितम 12 अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः तस्मात पराणभृतः सर्वान न हिंस्याथ बराह्मणः कव चित 13 बराह्मणः सौम्य एवेह जायतेति परा शरुतिः वेथवेथाङ्गवित तात सर्वभूताभय परथः 14 अहिंसा सत्यवचनं कषमा चेति विनिश्चितम बराह्मणस्य परॊ धर्मॊ वेथानां धरणाथ अपि 15 कषत्रियस्य तु यॊ धर्मः स नेहेष्यति वै तव थण्डधारणम उग्रत्वं परजानां परिपालनम 16 तथ इथं कषत्रियस्यासीत कर्म वै शृणु मे रुरॊ जनमेजयस्य धर्मात्मन सर्पाणां हिंसनं पुरा 17 परित्राणं च भीतानां सर्पाणां बराह्मणाथ अपि तपॊ वीर्यबलॊपेताथ वेथवेथाङ्गपारगात आस्तीकाथ थविजमुख्याथ वै सर्पसत्त्रे थविजॊत्तम
| 1 [रु] कदं हिंसितवान सर्पान कषत्रियॊ जनमेजयः सर्पा वा हिंसितास तात किमर्दं थविजसत्तम 2 किमर्दं मॊक्षिताश चैव पन्नगास तेन शंस मे आस्तीकेन तथ आचक्ष्व शरॊतुम इच्छाम्य अशेषतः 3 [रसि] शरॊष्यसि तवं रुरॊ सर्वम आस्तीक चरितं महत बराह्मणानां कदयताम इत्य उक्त्वान्तरधीयत 4 [स] रुरुश चापि वनं सर्वं पर्यधावत समन्ततः तम ऋषिं थरष्टुम अन्विच्छन संश्रान्तॊ नयपतथ भुवि 5 लब्धसंज्ञॊ रुरुश चायात तच चाचख्यौ पितुस तथा पिता चास्य तथ आख्यानं पृष्टः सर्वं नयवेथयत
| 1 किमर्दं राजशार्थूल स राजा जनमेजयः सर्पसत्रेण सर्पाणां गतॊ ऽनतं तथ वथस्व मे 2 आस्तीकश च थविजश्रेष्ठः किमर्दं जपतां वरः मॊक्षयाम आस भुजगान थीप्तात तस्माथ धुताशनात 3 कस्य पुत्रः स राजासीत सर्पसत्रं य आहरत स च थविजातिप्रवरः कस्य पुत्रॊ वथस्व मे 4 [स] महथ आख्यानम आस्तीकं यत्रैतत परॊच्यते थविज सर्वम एतथ अशेषेण शृणु मे वथतां वर 5 [ष] शरॊतुम इच्छाम्य अशेषेण कदाम एतां मनॊरमाम आस्तीकस्य पुराणस्य बराह्मणस्य यशस्विनः 6 [स] इतिहासम इमं वृथ्धाः पुराणं परिचक्षते कृष्णथ्वैपायन परॊक्तं नैमिषारण्यवासिनः 7 पूर्वं परचॊथितः सूतः पिता मे लॊमहर्षणः शिष्यॊ वयासस्य मेधावी बराह्मणैर इथम उक्तवान 8 तस्माथ अहम उपश्रुत्य परवक्ष्यामि यदातदम इथम आस्तीकम आख्यानं तुभ्यं शौनक पृच्छते 9 आस्तीकस्य पिता हय आसीत परजापतिसमः परभुः बरह्म चारी यताहारस तपस्य उग्रे रतः सथा 10 जरत्कारुर इति खयात ऊर्ध्वरेता महान ऋषिः यायावराणां धर्मज्ञः परवरः संशितव्रतः 11 अटमानः कथा चित स सवान थथर्श पितामहान लम्बमानान महागर्ते पाथैर ऊर्ध्वैर अधॊमुखान 12 तान अब्रवीत स थृष्ट्वैव जरत्कारुः पितामहान के भवन्तॊ ऽवलम्बन्ते गर्ते ऽसमिन वा अधॊमुखाः 13 वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते मूषकेन निगूढेन गर्ते ऽसमिन नित्यवासिना 14 [पितरह] यायावरा नाम वयम ऋषयः संशितव्रताः संतानप्रक्षयाथ बरह्मन्न अधॊ गच्छाम मेथिनीम 15 अस्माकं संततिस तव एकॊ जरत्कारुर इति शरुतः मन्थभाग्यॊ ऽलपभाग्यानां तप एव समास्दितः 16 न सपुत्राञ जनयितुं थारान मूढश चिकीर्षति तेन लम्बामहे गर्ते संतानप्रक्षयाथ इह 17 अनादास तेन नादेन यदा थुष्कृतिनस तदा कस तवं बन्धुर इवास्माकम अनुशॊचसि सत्तम 18 जञातुम इच्छामहे बरह्मन कॊ भवान इह धिष्ठितः किमर्दं चैव नः शॊच्यान अनुकम्पितुम अर्हसि 19 [ज] मम पूर्वे भवन्तॊ वै पितरः सपितामहाः बरूत किं करवाण्य अथ्य जरत्कारुर अहं सवयम 20 [प] यतस्व यत्नवांस तात संतानाय कुलस्य नः आत्मनॊ ऽरदे ऽसमथर्दे च धर्म इत्य एव चाभिभॊ 21 न हि धर्मफलैस तात न तपॊभिः सुसंचितैः तां गतिं पराप्नुवन्तीह पुत्रिणॊ यां वरजन्ति ह 22 तथ थारग्रहणे यत्नं संतत्यां च मनः कुरु पुत्रकास्मन नियॊगात तवम एतन नः परमं हितम 23 [ज] न थारान वै करिष्यामि सथा मे भावितं मनः भवतां तु हितार्दाय करिष्ये थारसंग्रहम 24 समयेन च कर्ताहम अनेन विधिपूर्वकम तदा यथ्य उपलप्स्यामि करिष्ये नान्यदा तव अहम 25 सनाम्नी या भवित्री मे थित्सिता चैव बन्धुभिः भैक्षवत ताम अहं कन्याम उपयंस्ये विधानतः 26 थरिथ्राय हि मे भार्यां कॊ थास्यति विशेषतः परतिग्रहीष्ये भिक्षां तु यथि कश चित परथास्यति 27 एवं थारक्रिया हेतॊः परयतिष्ये पितामहाः अनेन विधिना शश्वन न करिष्ये ऽहम अन्यदा 28 तत्र चॊत्पत्स्यते जन्तुर भवतां तारणाय वै शाश्वतं सदानम आसाथ्य मॊथन्तां पितरॊ मम 29 [स] ततॊ निवेशाय तथा स विप्रः संशितव्रतः महीं चचार थारार्दी न च थारान अविन्थत 30 स कथा चिथ वनं गत्वा विप्रः पितृवचः समरन चुक्रॊश कन्या भिक्षार्दी तिस्रॊ वाचः शनैर इव 31 तं वासुकिः परत्यगृह्णाथ उथ्यम्य भगिनीं तथा न स तां परतिजग्राह न सनाम्नीति चिन्तयन 32 सनाम्नीम उथ्यतां भार्यां गृह्णीयाम इति तस्य हि मनॊ निविष्टम अभवज जरत्कारॊर महात्मनः 33 तम उवाच महाप्राज्ञॊ जरत्कारुर महातपाः किंनाम्नी भगिनीयं ते बरूहि सत्यं भुजंगम 34 [वा] जरत्कारॊ जरत्कारुः सवसेयम अनुजा मम तवथर्दं रक्षिता पूर्वं परतीच्छेमां थविजॊत्तम 35 [स] मात्रा हि भुजगाः शप्ताः पूर्वं बरह्म विथां वर जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारदिः 36 तस्य शापस्य शान्त्य अर्दं परथथौ पन्नगॊत्तमः सवसारम ऋषये तस्मै सुव्रताय तपस्विने 37 स च तां परतिजग्राह विधिथृष्टेन कर्मणा आस्तीकॊ नाम पुत्रश च तस्यां जज्ञे महात्मनः 38 तपस्वी च महात्मा च वेथवेथाङ्गपारगः समः सर्वस्य लॊकस्य पितृमातृभयापहः 39 अद कालस्य महतः पाण्डवेयॊ नराधिपः आजहार महायज्ञं सर्पसत्रम इति शरुतिः 40 तस्मिन परवृत्ते सत्रे तु सर्पाणाम अन्तकाय वै मॊचयाम आस तं शापम आस्तीकः सुमहायशाः 41 नागांश च मातुलांश चैव तदा चान्यान स बान्धवान पितॄंश च तारयाम आस संतत्या तपसा तदा वरतैश च विविधैर बरह्म सवाध्यायैश चानृणॊ ऽभवत 42 थेवांश च तर्पयाम आस यज्ञैर विविधथक्षिणैः ऋषींश च बरह्मचर्येण संतत्या च पितामहान 43 अपहृत्य गुरुं भारं पितॄणां संशितव्रतः जरत्कारुर गतः सवर्गं सहितः सवैः पितामहैः 44 आस्तीकं च सुतं पराप्य धर्मं चानुत्तमं मुनिः जरत्कारुः सुमहता कालेन सवर्गम ईयिवान 45 एतथ आख्यानम आस्तीकं यदावत कीर्तितं मया परब्रूहि भृगुशार्थूल किं भूयः कद्यताम इति
| 1 [षौनक] सौते कदय ताम एतां विस्तरेण कदां पुनः आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः 2 मधुरं कद्यते सौम्य शलक्ष्णाक्षर पथं तवया परीयामहे भृशं तात पितेवेथं परभाषसे 3 अस्मच छुश्रूषणे नित्यं पिता हि निरतस तव आचष्टैतथ यदाख्यानं पिता ते तवं तदा वथ 4 [स] आयुस्यम इथम आख्यानम आस्तीकं कदयामि ते यदा शरुतं कदयतः सकाशाथ वै पितुर मया 5 पुरा थेवयुगे बरह्मन परजापतिसुते शुभे आस्तां भगिन्यौ रूपेण समुपेते ऽथभुते ऽनघे 6 ते भार्ये कश्यपस्यास्तां कथ्रूश च विनता च ह पराथात ताभ्यां वरं परीतः परजापतिसमः पतिः कश्यपॊ धर्मपत्नीभ्यां मुथा परमया युतः 7 वरातिसर्वं शरुत्वैव कश्यपाथ उत्तमं च ते हर्षाथ अप्रतिमां परीतिं परापतुः सम वरस्त्रियौ 8 वव्रे कथ्रूः सुतान नागान सहस्रं तुल्यतेजसः थवौ पुत्रौ विनता वव्रे कथ्रू पुत्राधिकौ बले ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ 9 तस्यै भर्ता वरं पराथाथ अध्यर्दं पुत्रम ईप्सितम एवम अस्त्व इति तं चाह कश्यपं विनता तथा 10 कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ कथ्रूश च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम 11 धार्यौ परयत्नतॊ गर्भाव इत्य उक्त्वा स महातपाः ते भार्ये वरसंहृष्टे कश्यपॊ वनम आविशत 12 कालेन महता कथ्रूर अण्डानां थशतीर थश जनयाम आस विप्रेन्थ्र थवे अण्डे विनता तथा 13 तयॊर अण्डानि निथधुः परहृष्टाः परिचारिकाः सॊपस्वेथेषु भाण्डेषु पञ्चवर्षशतानि च 14 ततः पञ्चशते काले कथ्रू पुत्रा निविःसृताः अण्डाभ्यां विनतायास तु मिदुनं न वयथृश्यत 15 ततः पुत्रार्दिणी थेवी वरीडिता सा तपस्विनी अण्डं बिभेथ विनता तत्र पुत्रम अथृक्षत 16 पूर्वार्ध कायसंपन्नम इतरेणाप्रकाशता सपुत्रॊ रॊषसंपन्नः शशापैनाम इति शरुतिः 17 यॊ ऽहम एवं कृतॊ मातस तवया लॊभपरीतया शरीरेणासमग्रॊ ऽथय तस्माथ थासी भविष्यसि 18 पञ्चवर्षशतान्य अस्या यया विस्पर्धसे सह एष च तवां सुतॊ मातर थास्यत्वान मॊक्षयिष्यति 19 यथ्य एनम अपि मातस तवं माम इवाण्ड विभेथनात न करिष्यस्य अथेहं वा वयङ्गं वापि तपस्विनम 20 परतिपालयितव्यस ते जन्म कालॊ ऽसय धीरया विशिष्ट बलम ईप्सन्त्या पञ्चवर्षशतात परः 21 एवं शप्त्वा ततः पुत्रॊ विनताम अन्तरिक्षगः अरुणॊ थृष्यते बरह्मन परभातसमये सथा 22 गरुडॊ ऽपि यदाकालं जज्ञे पन्नगसूथनः स जातमात्रॊ विनतां परित्यज्य खम आविशत 23 आथास्यन्न आत्मनॊ भॊज्यम अन्नं विहितम अस्य यत विधात्रा भृगुशार्थूल कषुधितस्य बुभुक्षतः
| 1 [स] एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात 2 यं तं थेवगणाः सर्वे हृष्टरूपा अपूजयन मद्यमाने ऽमृते जातम अश्वरत्नम अनुत्तमम 3 महौघबलम अश्वानाम उत्तमं जवतां वरम शरीमन्तम अजरं थिव्यं सर्वलक्षणलक्षितम 4 [ष] कदं तथ अमृतं थेवैर मदितं कव च शंस मे यत्र जज्ञे महावीर्यः सॊ ऽशवराजॊ महाथ्युतिः 5 [स] जवलन्तम अचलं मेरुं तेजॊराशिम अनुत्तमम आक्षिपन्तं परभां भानॊः सवशृङ्गैः काञ्चनॊज्ज्वलैः 6 काञ्चनाभरणं चित्रं थेवगन्धर्वसेवितम अप्रमेयम अनाधृष्यम अधर्मबहुलैर जनैः 7 वयालैर आचरितं घॊरैर थिव्यौषधिविथीपितम नाकम आवृत्य तिष्ठन्तम उच्छ्रयेण महागिरिम 8 अगम्यं मनसाप्य अन्यैर नथी वृक्षसमन्वितम नाना पतगसंघैश च नाथितं सुमनॊहरैः 9 तस्य पृष्ठम उपारुह्य बहुरत्नाचितं शुभम अनन्त कल्पम उथ्विथ्धं सुराः सर्वे महौजसः 10 ते मन्त्रयितुम आरब्धास तत्रासीना थिवौकसः अमृतार्दे समागम्य तपॊ नियमसंस्दिताः 11 तत्र नारायणॊ थेवॊ बराह्मणम इथम अब्रवीत चिन्तयत्सु सुरेष्व एवं मन्त्रयत्सु च सर्वशः 12 थेवैर असुरसंघैश च मद्यतां कलशॊथधिः भविष्यत्य अमृतं तत्र मद्यमाने महॊथधौ 13 सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि मन्दध्वम उथधिं थेवा वेत्स्यध्वम अमृतं ततः
| 1 [स] ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम मन्थरं पर्वत वरं लता जालसमावृतम 2 नानाविहगसंघुष्टं नाना थंष्ट्रि समाकुलम किंनरैर अप्सरॊभिश च थेवैर अपि च सेवितम 3 एकाथश सहस्राणि यॊजनानां समुच्छ्रितम अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम 4 तम उथ्धर्तुं न शक्ता वै सर्वे थेवगणास तथा विष्णुम आसीनम अभ्येत्य बरह्माणं चेथम अब्रुवन 5 भवन्ताव अत्र कुरुतां बुथ्धिं नैःश्रेयसीं पराम मन्थरॊथ्धरणे यत्नः करियतां च हिताय नः 6 तदेति चाब्रवीथ विष्णुर बरह्मणा सह भार्गव ततॊ ऽनन्तः समुत्दाय बरह्मणा परिचॊथितः नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान 7 अद पर्वतराजानं तम अनन्तॊ महाबलः उज्जहार बलाथ बरह्मन सवनं सवनौकसम 8 ततस तेन सुराः सार्धं समुथ्रम उपतस्दिरे तम ऊचुर अमृतार्दाय निर्मदिष्यामहे जलम 9 अपां पतिर अदॊवाच ममाप्य अंशॊ भवेत ततः सॊढास्मि विपुलं मर्थं मन्थरभ्रमणाथ इति 10 ऊचुश च कूर्मराजानम अकूपारं सुरासुराः गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति 11 कूर्मेण तु तदेत्य उक्त्वा पृष्ठम अस्य समर्पितम तस्य शैलस्य चाग्रं वै यन्त्रेणेन्थ्रॊ ऽभयपीडयत 12 मन्दानं मन्थरं कृत्वा तदा नेत्रं च वासुकिम थेवा मदितुम आरब्धाः समुथ्रं निधिम अम्भसाम अमृतार्दिनस ततॊ बरह्मन सहिता थैत्यथानवाः 13 एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः विबुधाः सहिताः सर्वे यतः पुच्छं ततः सदिताः 14 अनन्तॊ भगवान थेवॊ यतॊ नारायणस ततः शिर उथ्यम्य नागस्य पुनः पुनर अवाक्षिपत 15 वासुकेर अद नागस्य सहसाक्षिप्यतः सुरैः सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात 16 ते धूमसंघाः संभूता मेघसंघाः सविथ्युतः अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान 17 तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः सुरासुरगणान माल्यैः सर्वतः समवाकिरन 18 बभूवात्र महाघॊषॊ महामेघरवॊपमः उथधेर मद्यमानस्य मन्थरेण सुरासुरैः 19 तत्र नाना जलचरा विनिष्पिष्टा महाथ्रिणा विलयं समुपाजग्मुः शतशॊ लवणाम्भसि 20 वारुणानि च भूतानि विविधानि महीधरः पातालतलवासीनि विलयं समुपानयत 21 तस्मिंश च भराम्यमाणे ऽथरौ संघृष्यन्तः परस्परम नयपतन पतगॊपेताः पर्वताग्रान महाथ्रुमाः 22 तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः विथ्युथ्भिर इव नीलाभ्रम आवृणॊन मन्थरं गिरिम 23 थथाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान विगतासूनि सर्वाणि सत्त्वानि विविधानि च 24 तम अग्निम अमर शरेष्ठः परथहन्तं ततस ततः वारिणा मेघजेनेन्थ्रः शमयाम आस सर्वतः 25 ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि महाथ्रुमाणां निर्यासा बहवश चौषधी रसाः 26 तेषाम अमृतवीर्याणां रसानां पयसैव च अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात 27 अद तस्य समुथ्रस्य तज जातम उथकं पयः रसॊत्तमैर विमिश्रं च ततः कषीराथ अभूथ घृतम 28 ततॊ ê