हरिः ओं तत् सत् भगवद्-गीता किंचिद् अधीता गङ्ग-जल-लव-कणिका पीता यस्य कथंचिन् मुरारि-समर्चा क्रियते तस्य यमेन न चर्चा श्री-वेद-व्यास-प्रणीत-महाभारतान्तर्गता श्री-श्रीमद्-भगवद्-गीता नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥ अथ ध्यानम् ओं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराण-मुनिना मध्ये-महाभारताम् । अद्वैतामृत-वर्षिणीं भगवतीम् अष्टदशाध्यायिनीम् अम्ब त्वाम् अनुसन्दधामि भगवद्-गीते भव-द्वेषिणीम् ॥१॥ अथ मङ्गलाचरणम् ओं वाग्-ईशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे । यं नत्वा कृत-कृत्याः स्युस् तं नमामि गजाननम् ॥२॥ नमो’स्तु ते व्यास विशाल-बुद्धे फुल्लारविन्दायत-पद्म-नेत्रे । येन त्वया भारत-तैल-पूर्णः प्रज्वालितो ज्ञान-मयः प्रदीपः ॥३॥ प्रपन्न-परिजाताय तोत्र-वेत्रैक-पाणये । ज्ञान-मुद्राय कृष्णाय गीतामृत-दुहे नमः ॥४॥ सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः । पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥५॥ वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् । देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम् ॥६॥ भीष्म-द्रोण-तटा जयद्रथ-जला गान्धार-नीलोत्पला शाल्य-ग्राहवता कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थाम-विकर्ण-घोर-मकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रण-नदी कैवर्तकः केशवः ॥७॥ पाराशर्य-वचः सरोजम् अमलं गीतार्थ-गन्धोत्कटं नानाख्यानक-केशरं हरि-कथा-सम्बोधनाबोधितम् । लोके सज्जन-षट्पदैर् अहरहः पेपीयमानं मुदा भूयाद् भारत-पङ्कजं कलि-मल-प्रध्वंसि नः श्रेयसे ॥८॥ मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् । यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम् ॥९॥ यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः । ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥१०॥ —ओ)०(ओ— (१) अथ प्रथमो’ध्यायः अर्जुन-विषाद-योगः धृतराष्ट्र उवाच धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ॥१॥ संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥२॥ पश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् । व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता ॥३॥ अत्र शूरा महेष्वासा भीमार्जुन-समा युधि । युयुधानो विराटश् च द्रुपदश् च महारथः ॥४॥ धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् । पुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुंगवः ॥५॥ युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः ॥६॥ अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥ भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः । अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥८॥ अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥९॥ अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥१०॥ अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥ तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥ ततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो’भवत् ॥१३॥ ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः ॥१५॥ अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः । नकुलः सहदेवश् च सुघोष-मणिपुष्पकौ ॥१६॥ काश्यश् च परमेष्वासः शिखण्डी च महा-रथः । धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥१७॥ द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते । सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१८॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः । प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः ॥२०॥ हृषीकेशं तदा वाक्यम् इदम् आह मही-पते । सेनयोर् उभयोर् मध्ये रथं स्थापय मे’च्युत ॥२१॥ यावद् एतान् निरीक्षे’हं योद्धु-कामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥२२॥ योत्स्यमानान् अवेक्षे’हं य एते’त्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः ॥२३॥ एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥२५॥ तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥२६॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥२७॥ कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश् च शरीरे मे रोमहर्षश् च जायते ॥२९॥ गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते । न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ॥३०॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयो’नुपश्यामि हत्वा स्वजनम् आहवे ॥३१॥ न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ॥३२॥ येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमे’वस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ॥३३॥ आचार्याः पितरः पुत्रास् तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा ॥३४॥ एतान् न हन्तुम् इच्छामि घ्नतो’पि मधुसूदन । अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ॥३५॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन । पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ॥३६॥ तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥ यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥३८॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन ॥३९॥ कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो’भिभवत्य् उत ॥४०॥ अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥४१॥ संकरो नरकायैव कुल-घ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः ॥४२॥ दोषैर् एतैः कुल-घ्नानां वर्ण-संकर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः ॥४३॥ उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥४४॥ अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः ॥४५॥ यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥४६॥ एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोक-संविग्न-मानसः ॥४७॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे अर्जुन-विषाद-योगो नाम प्रथमो’ध्यायः ॥ —ओ)०(ओ— (२) अथ द्वितीयो’ध्यायः साङ्ख्य-योगः संजय उवाच तं तथा कृपयाविष्टम् अश्रु-पूर्णाकुलेक्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥१॥ श्री-भगवान् उवाच कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥२॥ क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥ अर्जुन उवाच कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥४॥ गुरून् अहत्वा हि महानुभावाञ् श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके । हत्वार्थ-कामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥५॥ न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते’वस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥ कार्पण्य-दोषोपहत-स्वभावः पृच्छामि त्वां धर्म-संमूढ-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते’हं शाधि मां त्वां प्रपन्नम् ॥७॥ न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥८॥ संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥९॥ तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥१०॥ श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥११॥ न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥१२॥ देहिनो’स्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥१३॥ मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःख-दाः । आगमापायिनो’नित्यास् तांस् तितिक्षस्व भारत ॥१४॥ यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सो’मृतत्वाय कल्पते ॥१५॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो’न्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥१६॥ अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥१७॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो’प्रमेयस्य तस्माद् युध्यस्व भारत ॥१८॥ य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥ न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो’यं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥ वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो’पराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥२२॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥२३॥ अच्छेद्यो’यम् अदाह्यो’यम् अक्लेद्यो’शोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलो’यं सनातनः ॥२४॥ अव्यक्तो’यम् अचिन्त्यो’यम् अविकार्यो’यम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥२५॥ अथ चैनं नित्य-जातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महा-बाहो नैवं शोचितुम् अर्हसि ॥२६॥ जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये’र्थे न त्वं शोचितुम् अर्हसि ॥२७॥ अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥२८॥ आश्चर्य-वत् पश्यति कश्चिद् एनम् आश्चर्य-वद् वदति तथैव चान्यः । आश्चर्य-वच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥२९॥ देही नित्यम् अवध्यो’यं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥३०॥ स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो’न्यत् क्षत्रियस्य न विद्यते ॥३१॥ यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥३२॥ अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥३३॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति ते’व्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥३४॥ भयाद् रणाद् उपरतं मंस्यन्ते त्वां महा-रथाः । येषां च त्वं बहु-मतो भूत्वा यास्यसि लाघवम् ॥३५॥ अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥३७॥ सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥३८॥ एषा ते’भिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥३९॥ नेहाभिक्रम-नाशो’स्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥४०॥ व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो’व्यवसायिनाम् ॥४१॥ याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥४२॥ कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥४३॥ भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥ त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥४५॥ यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥ कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो’स्त्व् अकर्मणि ॥४७॥ योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥ दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥४९॥ बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥ कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥५१॥ यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥ श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥५३॥ अर्जुन उवाच स्थित-प्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥५४॥ श्री-भगवान् उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥५५॥ दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थितधीर् मुनिर् उच्यते ॥५६॥ यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥ यदा संहरते चायं कूर्मो’ङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥ विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो’प्य् अस्य परं दृष्ट्वा निवर्तते ॥५९॥ यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥ तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥ ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो’भिजायते ॥६२॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥६३॥ राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥६४॥ प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥६५॥ नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥६६॥ इन्द्रियाणां हि चरतां यन् मनो’नुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥६७॥ तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥ या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥ आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥७०॥ विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥७१॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-काले’पि ब्रह्म-निर्वाणम् ऋच्छति ॥७२॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे साङ्ख्य-योगो नाम द्वितीयो’ध्यायः ॥ —ओ)०(ओ— (३) अथ तृतीयो’ध्यायः कर्म-योगः अर्जुन उवाच ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयो’हम् आप्नुयाम् ॥२॥ श्री-भगवान् उवाच लोके’स्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥३॥ न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो’श्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥४॥ न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृति-जैर् गुणैः ॥५॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥ यस् त्व् इन्द्रियाणि मनसा नियम्यारभते’र्जुन । कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥७॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीर-यात्रापि च ते न प्रसिध्येद् अकर्मणः ॥८॥ यज्ञार्थात् कर्मणो’न्यत्र लोको’यं कर्म-बन्धनः । तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥९॥ सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो’स्त्व् इष्ट-काम-धुक् ॥१०॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥११॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥ यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥१३॥ अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥१४॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् । तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥ यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥१७॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्व-भूतेषु कश्चिद् अर्थ-व्यपाश्रयः ॥१८॥ तस्माद् असक्तः सततं कार्यं कर्म समाचर । असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥१९॥ कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः । लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥२०॥ यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥२१॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥२२॥ यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥ उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥२४॥ सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥२५॥ न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥२६॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥२७॥ तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८॥ प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥२९॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥३०॥ ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो’नसूयन्तो मुच्यन्ते ते’पि कर्मभिः ॥३१॥ ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥३२॥ सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥ इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥३४॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥३५॥ अर्जुन उवाच अथ केन प्रयुक्तो’यं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥३६॥ श्री-भगवान् उवाच काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥३७॥ धूमेनाव्रियते वह्निर् यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥३८॥ आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥ इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥४०॥ तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥४१॥ इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥४२॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥४३॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे कर्म-योगो नाम तृतीयो’ध्यायः ॥ —ओ)०(ओ— (४) अथ चतुर्थो’ध्यायः ज्ञान-कर्म-सन्न्यास-योगः श्री-भगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे’ब्रवीत् ॥१॥ एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥२॥ स एवायं मया ते’द्य योगः प्रोक्तः पुरातनः । भक्तो’सि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥३॥ अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥४॥ श्री-भगवान् उवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥ अजो’पि सन्न् अव्ययात्मा भूतानाम् ईश्वरो’पि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥६॥ यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥८॥ जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो’र्जुन ॥९॥ वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥१०॥ ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥१२॥ चातुर्वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥१३॥ न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो’भिजानाति कर्मभिर् न स बध्यते ॥१४॥ एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥ किं कर्म किम् अकर्मेति कवयो’प्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे’शुभात् ॥१६॥ कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥ कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥१८॥ यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥१९॥ त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो’पि नैव किंचित् करोति सः ॥२०॥ निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥२१॥ यदृच्छा-लाभ-संतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥२२॥ गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥ ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥२४॥ दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥ श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥२६॥ सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥२७॥ द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥२८॥ अपाने जुह्वति प्राणं प्राणे’पानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥२९॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे’प्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥३०॥ यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोको’स्त्य् अयज्ञस्य कुतो’न्यः कुरुसत्तम ॥३१॥ एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्म-जान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥३२॥ श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥ तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥३४॥ यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥३५॥ अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं संतरिष्यसि ॥३६॥ यथैधांसि समिद्धो’ग्निर् भस्मसात् कुरुते’र्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥३७॥ न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥३८॥ श्रद्धावान् लभते ज्ञानं तत्-परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥३९॥ अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको’स्ति न परो न सुखं संशयात्मनः ॥४०॥ योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४१॥ तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥४२॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे ज्ञान-कर्म-सन्न्यास-योगो नाम चतुर्ठो’ध्यायः ॥ —ओ)०(ओ— (५) अथ पञ्चमो’ध्यायः सन्न्यास-योगः अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥१॥ श्री-भगवान् उवाच संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥२॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥३॥ सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥४॥ यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥ संन्यासस् तु महा-बाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥६॥ योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥७॥ नैव किंचित् करोमीति युक्तो मन्येत तत्त्व-वित् । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥८॥ प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥ ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥१०॥ कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥११॥ युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥१२॥ सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥१३॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥१४॥ नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥ ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्-परम् ॥१६॥ तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥१७॥ विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥१८॥ इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥ न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिर-बुद्धिर् असंमूढो ब्रह्म-विद् ब्रह्मणि स्थितः ॥२०॥ बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥२१॥ ये हि संस्पर्श-जा भोगा दुःख-योनय एव ते । आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥ शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥ यो’न्तः-सुखो’न्तर्-आरामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो’धिगच्छति ॥२४॥ लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥२५॥ काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥२६॥ स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥२७॥ यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥२८॥ भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥२९॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे सन्न्यास-योगो नाम पञ्चमो’ध्यायः ॥ —ओ)०(ओ— (६) अथ षष्ठो’ध्यायः ध्यान-योगः श्री-भगवान् उवाच अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥१॥ यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥२॥ आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥३॥ यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते ॥४॥ उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥५॥ बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥७॥ ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥८॥ सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥९॥ योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥१०॥ शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥११॥ तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥१२॥ समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥१३॥ प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥१४॥ युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥१५॥ नात्यश्नतस् तु योगो’स्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥१६॥ युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥ यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥१८॥ यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः ॥१९॥ यत्रोपरमते चित्तं निरुद्धं योग-सेवया । यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥२०॥ सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥२१॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥ तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगो’निर्विण्ण-चेतसा ॥२३॥ संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥२४॥ शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥२५॥ यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥२६॥ प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥२७॥ युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥२८॥ सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥२९॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥ सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो’पि स योगी मयि वर्तते ॥३१॥ आत्मौपम्येन सर्वत्र समं पश्यति यो’र्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥ अर्जुन उवाच यो’यं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥३३॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥३४॥ श्री-भगवान् उवाच असंशयं महा-बाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्यो’वाप्तुम् उपायतः ॥३६॥ अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥ कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महा-बाहो विमूढो ब्रह्मणः पथि ॥३८॥ एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥३९॥ श्री-भगवान् उवाच पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥४०॥ प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टो’भिजायते ॥४१॥ अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥४२॥ तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो’पि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥४४॥ प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥४५॥ तपस्विभ्यो’धिको योगी ज्ञानिभ्यो’पि मतो’धिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥४६॥ योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे ध्यान-योगो नाम षष्ठो’ध्यायः ॥ —ओ)०(ओ— (७) अथ सप्तमो’ध्यायः ज्ञान-विज्ञान-योगः श्री-भगवान् उवाच मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥१॥ ज्ञानं ते’हं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा नेह भूयो’न्यज् ज्ञातव्यम् अवशिष्यते ॥२॥ मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥३॥ भूमिर् आपो’नलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥४॥ अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥५॥ एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥६॥ मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय । मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥७॥ रसो’हम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥८॥ पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ । जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥९॥ बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥१०॥ बलं बलवतां चाहं काम-राग-विवर्जितम् । धर्माविरुद्धो भूतेषु कामो’स्मि भरतर्षभ ॥११॥ ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥१२॥ त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥१३॥ दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥१४॥ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥१५॥ चतुर्-विधा भजन्ते मां जनाः सुकृतिनो’र्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥ तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो’त्यर्थम् अहं स च मम प्रियः ॥१७॥ उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥१८॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥१९॥ कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते’न्य-देवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥२०॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥२१॥ स तया श्रद्धया युक्तस् तस्या राधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥२२॥ अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् । देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ॥२३॥ अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥२४॥ नाहं प्रकाशः सर्वस्य योग-माया-समावृतः । मूढो’यं नाभिजानाति लोको माम् अजम् अव्ययम् ॥२५॥ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥ इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि संमोहं सर्गे यान्ति परन्तप ॥२७॥ येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥२८॥ जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥२९॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाण-काले’पि च मां ते विदुर् युक्त-चेतसः ॥३०॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे ज्ञान-विज्ञान-योगो नाम सप्तमो’ध्यायः ॥ —ओ)०(ओ— (८) अथाष्टमो’ध्यायः तारक-ब्रह्म-योगः अर्जुन उवाच — किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥१॥ अधियज्ञः कथं को’त्र देहे’स्मिन् मधुसूदन । प्रयाण-काले च कथं ज्ञेयो’सि नियतात्मभिः ॥२॥ श्री-भगवान् उवाच — अक्षरं ब्रह्म परमं स्वभावो’ध्यात्मम् उच्यते । भूतभावोद्भव-करो विसर्गः कर्म-संज्ञितः ॥३॥ अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् । अधियज्ञो’हम् एवात्र देहे देह-भृतां वर ॥४॥ अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥५॥ यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् । तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ॥६॥ तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असंशयः ॥७॥ अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥ कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ॥९॥ प्रयाण-काले मनसाचलेन भक्त्या युक्तो योग-बलेन चैव । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥१०॥ यद् अक्षरं वेद-विदो वदन्ति विशन्ति यद् यतयो वीत-रागाः । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥११॥ सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ॥१२॥ ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥ अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥१४॥ माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥ आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो’र्जुन । माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥१६॥ सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युग-सहस्रान्तां ते’हो-रात्र-विदो जनाः ॥१७॥ अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे । रात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-संज्ञके ॥१८॥ भूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्य्-आगमे’वशः पार्थ प्रभवत्य् अहर्-आगमे ॥१९॥ परस् तस्मात् तु भावो’न्यो’व्यक्तो’व्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥ अव्यक्तो’क्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥२१॥ पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ॥२२॥ यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥ अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥२४॥ धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥२५॥ शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥२६॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥२७॥ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्य-फलं प्रदिष्टम् । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥२८॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे तारक-ब्रह्म-योगो नामाष्टमो’ध्यायः ॥ —ओ)०(ओ— (९) अथ नवमो’ध्यायः राज-विद्या-राज-गुह्य-योगः श्री-भगवान् उवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे’शुभात् ॥१॥ राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥२॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥३॥ मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥४॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥५॥ यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥६॥ सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥७॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥८॥ न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥९॥ मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥१०॥ अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥११॥ मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥ महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥ सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥१४॥ ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥१५॥ अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् । मन्त्रो’हम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥१६॥ पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥१७॥ गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥१८॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥१९॥ त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥२०॥ ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ॥२१॥ अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥२२॥ ये’प्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । ते’पि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥२३॥ अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥२४॥ यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो’पि माम् ॥२५॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥२६॥ यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥२७॥ शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥२८॥ समो’हं सर्व-भूतेषु न मे द्वेष्यो’स्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥२९॥ अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥ क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥ मां हि पार्थ व्यपाश्रित्य ये’पि स्युः पाप-योनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते’पि यान्ति परां गतिम् ॥३२॥ किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥३३॥ मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥३४॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे राज-विद्या-राज-गुह्य-योगो नाम नवमो’ध्यायः ॥९॥ —ओ)०(ओ— (१०) अथ दशमो’ध्यायः विभूति-योगः श्री-भगवान् उवाच भूय एव महा-बाहो शृणु मे परमं वचः । यत् ते’हं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥२॥ यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् । असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते ॥३॥ बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो’भावो भयं चाभयम् एव च ॥४॥ अहिंसा समता तुष्टिस् तपो दानं यशो’यशः । भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥५॥ महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा । मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो’विकम्पेन योगेन युज्यते नात्र संशयः ॥७॥ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥८॥ मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥ तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥१०॥ तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥११॥ अर्जुन उवाच । परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥१२॥ आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥ सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥१४॥ स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूत-भावन भूतेश देव-देव जगत्पते ॥१५॥ वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः । याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥१६॥ कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो’सि भगवन् मया ॥१७॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे’मृतम् ॥१८॥ श्री-भगवान् उवाच हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥१९॥ अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥२०॥ आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥२१॥ वेदानां साम-वेदो’स्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥२२॥ रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम् ॥२३॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥२४॥ महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो’स्मि स्थावराणां हिमालयः ॥२५॥ अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥ उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥ आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् । प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥२८॥ अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् । पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥२९॥ प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगेन्द्रो’हं वैनतेयश् च पक्षिणाम् ॥३०॥ पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥३१॥ सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥३२॥ अक्षराणाम् अकारो’स्मि द्वन्द्वः सामासिकस्य च । अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः ॥३३॥ मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम् । कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥३४॥ बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्गशीर्षो’हम् ऋतूनां कुसुमाकरः ॥३५॥ द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो’स्मि व्यवसायो’स्मि सत्त्वं सत्त्ववताम् अहम् ॥३६॥ वृष्णीनां वासुदेवो’स्मि पाण्डवानां धनंजयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥३७॥ दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥३८॥ यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥३९॥ नान्तो’स्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥४०॥ यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा । तत् तद् एवावगच्छ त्वं मम तेजो’ंश-संभवम् ॥४१॥ अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥४२॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे विभूति-योगो नाम दशमो’ध्यायः ॥ —ओ)०(ओ— (११) अथैकादशो’ध्यायः विश्व-रूप-दर्शन-योगः अर्जुन उवाच मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वयोक्तं वचस् तेन मोहो’यं विगतो मम ॥१॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥२॥ एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥३॥ मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥४॥ श्री-भगवान् उवाच पश्य मे पार्थ रूपाणि शतशो’थ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥५॥ पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥६॥ इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् । मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥७॥ न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥८॥ संजय उवाच एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥९॥ अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् । अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥ दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् । सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥११॥ दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥१२॥ तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥१३॥ ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत ॥१४॥ अर्जुन उवाच पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-संघान् । ब्रह्माणम् ईशं कमलासन-स्थम् ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥१५॥ अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि त्वा सर्वतो’नन्त-रूपम् । नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्व-रूप ॥१६॥ किरीटिनं गदिनं चक्रिणं च तेजो-राशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥१७॥ त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ॥१८॥ अनादि-मध्यान्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् । पश्यामि त्वां दीप्त-हुताश-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ॥१९॥ द्याव्-आपृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः । दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं लोक-त्रयं प्रव्यथितं महात्मन् ॥२०॥ अमी हि त्वा सुर-संघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥ रुद्रादित्या वसवो ये च साध्या विश्वे’श्विनौ मरुतश् चोष्मपाश् च । गन्धर्व-यक्षासुर-सिद्ध-संघा वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥२२॥ रूपं महत् ते बहु-वक्त्र-नेत्रं महा-बाहो बहु-बाहूरु-पादम् । बहूदरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥२३॥ नभः-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ताननं दीप्त-विशाल-नेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४॥ दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वैव कालानल-संनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्-निवास ॥२५॥ अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपाल-संघैः । भीष्मो द्रोणः सूत-पुत्रस् तथासौ सहास्मदीयैर् अपि योध-मुख्यैः ॥२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्रा-करालानि भयानकानि । केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥२७॥ यथा नदीनां बहवो’म्बु-वेगाः समुद्रम् एवाभिमुखा द्रवन्ति । तथा तवामी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥२८॥ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्ध-वेगाः । तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्ध-वेगाः ॥२९॥ लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ॥३०॥ आख्याहि मे को भवान् उग्र-रूपो नमो’स्तु ते देव-वर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥ श्री-भगवान् उवाच कालो’स्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते’पि त्वा न भविष्यन्ति सर्वे ये’वस्थिताः प्रत्यनीकेषु योधाः ॥३२॥ तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् ॥३३॥ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योध-वीरान् । मया हतांस् त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥३४॥ संजय उवाच एतच् छ्रुत्वा वचनं केशवस्य कृताञ्जलिर् वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ॥३५॥ अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः ॥३६॥ कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो’प्य् आदि-कर्त्रे । अनन्त देवेश जगन्-निवास त्वम् अक्षरं सद् असत् तत्-परं यत् ॥३७॥ त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ॥३८॥ वायुर् यमो’ग्निर् वरुणः शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च । नमो नमस् ते’स्तु सहस्र-कृत्वः पुनश् च भूयो’पि नमो नमस् ते ॥३९॥ नमः पुरस्ताद् अथ पृष्ठतस् ते नमो’स्तु ते सर्वत एव सर्व । अनन्त-वीर्यामित-विक्रमस् त्वं सर्वं समाप्नोषि ततो’सि सर्वः ॥४०॥ सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥४१॥ यच् चावहासार्थम् असत्कृतो’सि विहार-शय्यासन-भोजनेषु । एको’थ वाप्य् अच्युत तत्-समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥४२॥ पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरुर् गरीयान् । न त्वत्-समो’स्त्य् अभ्यधिकः कुतो’न्यो लोक-त्रये’प्य् अप्रतिम-प्रभाव ॥४३॥ तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥ अदृष्ट-पूर्वं हृषितो’स्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्-निवास ॥४५॥ किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव । तेनैव रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥४६॥ श्री-भगवान् उवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्म-योगात् । तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥४७॥ न वेद यज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवं-रूपः शक्य अहं नृ-लोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥४८॥ मा ते व्यथा मा च विमूढ-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् । व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥४९॥ संजय उवाच इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनः सौम्य-वपुर् महात्मा ॥५०॥ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः ॥५१॥ श्री-भगवान् उवाच सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥५२॥ नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥५३॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो’र्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥५४॥ मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥५५॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे विश्व-रूप-योगो नामैकादशो’ध्यायः ॥ —ओ)०(ओ— (१२) अथ द्वादशो’ध्यायः भक्ति-योगः अर्जुन उवाच एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥१॥ श्री-भगवान् उवाच मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥२॥ ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥३॥ संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥४॥ क्लेशो’धिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥५॥ ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि नचिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥७॥ मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय ॥९॥ अभ्यासे’प्य् असमर्थो’सि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥१०॥ अथैतद् अप्य् अशक्तो’सि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥११॥ श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥१२॥ अद्वेष्टा सर्व-हूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥१३॥ संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥१४॥ यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥१५॥ अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥१६॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥१८॥ तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥१९॥ ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते’तीव मे प्रियाः ॥२०॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे भक्ति-योगो नाम द्वादशो’ध्यायः ॥ —ओ)०(ओ— (१३) अथ त्रयोदशो’ध्यायः क्षेत्र-क्षेत्रज्ञ-योगः श्री-भगवान् उवाच इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१॥ क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥२॥ तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥३॥ ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥४॥ महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥५॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः । एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥६॥ अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥७॥ इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥८॥ असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु । नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥९॥ मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥१०॥ अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो’न्यथा ॥११॥ ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥१२॥ सर्वतः पाणि-पादं तत् सर्वतो’क्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१३॥ सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥१४॥ बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥१५॥ अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥ ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥१७॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥१८॥ प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ॥१९॥ कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥२०॥ पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुण-सङ्गो’स्य सद्-असद्-योनि-जन्मसु ॥२१॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य् उक्तो देहे’स्मिन् पुरुषः परः ॥२२॥ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानो’पि न स भूयो’भिजायते ॥२३॥ ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना । अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥२४॥ अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते । ते’पि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥२५॥ यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥२६॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥२७॥ समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥२८॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥२९॥ यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥ अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । शरीर-स्थो’पि कौन्तेय न करोति न लिप्यते ॥३१॥ यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२॥ यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥ क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥३४॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे क्षेत्र-क्षेत्रज्ञ-योगो नाम त्रयोदशो’ध्यायः ॥१३॥ —ओ)०(ओ— (१४) अथ चतुर्दशो’ध्यायः गुण-त्रय-विभाग-योगः श्री-भगवान् उवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥१॥ इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे’पि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥ मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥३॥ सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥४॥ सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥५॥ तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥६॥ रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥७॥ तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥८॥ सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥९॥ रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥१०॥ सर्व-द्वारेषु देहे’स्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥११॥ लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥१२॥ अप्रकाशो’प्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥१३॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥१४॥ रजसि प्रलयं गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनस् तमसि मूढ-योनिषु जायते ॥१५॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥१६॥ सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो’ज्ञानम् एव च ॥१७॥ ऊर्ध्वं गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः ॥१८॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो’धिगच्छति ॥१९॥ गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो’मृतम् अश्नुते ॥२०॥ अर्जुन उवाच कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो । किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥२१॥ श्री-भगवान् उवाच प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥ उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो’वतिष्ठति नेङ्गते ॥२३॥ सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः । तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥२४॥ मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः । सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥२५॥ मां च यो’व्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥२६॥ ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे गुण-त्रय-विभाग-योगो नाम चतुर्दशो’ध्यायः ॥ —ओ)०(ओ— (१५) अथ पञ्चदशो’ध्यायः पुरुषोत्तम-योगः श्री-भगवान् उवाच ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् ॥१॥ अधश् चोर्ध्वं प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्य-लोके ॥२॥ न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अश्वत्थम् एनं सु-विरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥३॥ ततः पदं तत्-परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥ निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत् ॥५॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥६॥ ममैवांशो जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥७॥ शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥८॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥९॥ उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥१०॥ यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो’प्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥११॥ यद् आदित्य-गतं तेजो जगद् भासयते’खिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥१२॥ गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥ अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥१४॥ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् ॥१५॥ द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो’क्षर उच्यते ॥१६॥ उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥१७॥ यस्मात् क्षरम् अतीतो’हम् अक्षराद् अपि चोत्तमः । अतो’स्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥ यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥१९॥ इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥२०॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे पुरुषोत्तम-योगो नाम पञ्चदशो’ध्यायः ॥ —ओ)०(ओ— (१६) अथ षोडशो’ध्यायः दैवासुर-सम्पद्-विभाग-योगः श्री-भगवान् उवाच अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥१॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥२॥ तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥३॥ दम्भो दर्पो’तिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ॥४॥ दैवी संपद् विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीम् अभिजातो’सि पाण्डव ॥५॥ द्वौ भूत-सर्गौ लोके’स्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६॥ प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥ असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥८॥ एतां दृष्टिम् अवष्टभ्य नष्टात्मानो’ल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो’हिताः ॥९॥ कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः । मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते’शुचिव्रताः ॥१०॥ चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । कामोपभोग-परमा एतावद् इति निश्चिताः ॥११॥ आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ॥१२॥ इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् । इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥१३॥ असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि । ईश्वरो’हम् अहं भोगी सिद्धो’हं बलवान् सुखी ॥१४॥ आढ्यो’भिजनवान् अस्मि को’न्यो’स्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥१५॥ अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके’शुचौ ॥१६॥ आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥१७॥ अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो’भ्यसूयकाः ॥१८॥ तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥१९॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥२०॥ त्रि-विधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥२१॥ एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥२२॥ यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥२३॥ तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥२४॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो’ध्यायः ॥ —ओ)०(ओ— (१७) अथ सप्तदशो’ध्यायः श्रद्धा-त्रय-विभाग-योगः अर्जुन उवाच ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥१॥ श्री-भगवान् उवाच त्रि-विधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयो’यं पुरुषो यो यच्-छ्रद्धः स एव सः ॥३॥ यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः ॥४॥ अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥५॥ कर्शयन्तः शरीरस्थं भूत-ग्रामम् अचेतसः । मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥६॥ आहारस् त्व् अपि सर्वस्य त्रि-विधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥७॥ आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥८॥ कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥९॥ यातयामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥१०॥ अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥११॥ अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यत् । इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥ विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥१३॥ देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥१४॥ अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥१५॥ मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥१६॥ श्रद्धया परया तप्तं तपस् तत् त्रि-विधं नरैः । अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥१७॥ सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥१८॥ मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥१९॥ दातव्यम् इति यद् दानं दीयते’नुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥२०॥ यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥२१॥ अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते । असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥२२॥ ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥२३॥ तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥२४॥ तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥२५॥ सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥२६॥ यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते । कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥२७॥ अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥ इति श्री-महाभारते शत-साहस्रयां संहितायां वैयासिक्यां भीष्म-पर्वणि श्रीमद्-भगवद्-गीतासूपनिषत्सु ब्रह्म-विद्यायां योग-शास्त्रे श्री-कृष्णार्जुन-संवादे श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो’ध्यायः ॥ (१८) अथाष्टदशमो’ध्यायः मोक्ष-सन्न्यास-योगः अर्जुन उवाच संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥१॥ श्री-भगवान् उवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणाः ॥२॥ त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति चापरे ॥३॥ निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम । त्यागो हि पुरुष-व्याघ्र त्रि-विधः संप्रकीर्तितः ॥४॥ यज्ञ-दान-तपः-कर्म न त्याज्यं कार्यम् एव तत् । यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥५॥ एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥६॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥७॥ दुःखम् इत्य् एव यत् कर्म काय-क्लेश-भयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्याग-फलं लभेत् ॥८॥ कार्यम् इत्य् एव यत् कर्म नियतं क्रियते’र्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥ न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्व-समाविष्टो मेधावी छिन्न-संशयः ॥१०॥ न हि देह-भृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्म-फल-त्यागी स त्यागीत्य् अभिधीयते ॥११॥ अनिष्टम् इष्टं मिश्रं च त्रि-विधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥ पञ्चैतानि महा-बाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥१३॥ अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् । विविधाश् च पृथक्-चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥ शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥ तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः ॥१६॥ यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥१७॥ ज्ञानं ज्ञेयं परिज्ञाता त्रि-विधा कर्म-चोदना । करणं कर्म कर्तेति त्रि-विधः कर्म-संग्रहः ॥१८॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुण-भेदतः । प्रोच्यते गुण-संख्याने यथावच् छृणु तान्य् अपि ॥१९॥ सर्व-भूतेषु येनैकं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥२०॥ पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्-विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥२१॥ यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥२२॥ नियतं सङ्ग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥२३॥ यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥२४॥ अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥२५॥ मुक्त-सङ्गो’नहं-वादी धृत्य्-उत्साह-समन्वितः । सिद्ध्य्-असिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥२६॥ रागी कर्म-फल-प्रेप्सुर् लुब्धो हिंसात्मको’शुचिः । हर्ष-शोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको’लसः । विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते ॥२८॥ बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रि-विधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥२९॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥ यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१॥ अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥३२॥ धृत्या यया धारयते मनः-प्राणेन्द्रिय-क्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३॥ यया तु धर्म-कामार्थान् धृत्या धारयते’र्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४॥ यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५॥ सुखं त्व् इदानीं त्रि-विधं शृणु मे भरतर्षभ । अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति ॥३६॥ यत् तदग्रे विषम् इव परिणामे’मृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥३७॥ विषयेन्द्रिय-संयोगाद् यत् तदग्रे’मृतोपमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥३८॥ यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः । निद्रालस्य-प्रमादोत्थं तत् तामसम् उदाहृतम् ॥३९॥ न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥४०॥ ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैर् गुणैः ॥४१॥ शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्म-कर्म स्वभावजम् ॥४२॥ शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वर-भावश् च क्षात्रं कर्म स्वभाव-जम् ॥४३॥ कृषि-गो-रक्ष्य-वाणिज्यं वैश्य-कर्म स्वभाव-जम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाव-जम् ॥४४॥ स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः । स्व-कर्म-निरतः सिद्धिं यथा विन्दति तच् छृणु ॥४५॥ यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६॥ श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्वभाव-नियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥४७॥ सहजं कर्म कौन्तेय स-दोषम् अपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥४८॥ असक्त-बुद्धिः सर्वत्र जितात्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिं परमां संन्यासेनाधिगच्छति ॥४९॥ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥५१॥ विविक्त-सेवी लघ्व्-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परो नित्यं वैराग्यं समुपाश्रितः ॥५२॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्म-भूयाय कल्पते ॥५३॥ ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥५४॥ भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥५५॥ सर्व-कर्माण्य् अपि सदा कुर्वाणो मद्-व्यपाश्रयः । मत्-प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥५६॥ चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मच्-चित्तः सततं भव ॥५७॥ मच्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥५८॥ यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥५९॥ स्वभाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो’पि तत् ॥६०॥ ईश्वरः सर्व-भूतानां हृद्-देशे’र्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥६१॥ तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥ इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥६३॥ सर्व-गुह्यतमं भूयः शृणु मे परमं वचः । इष्टो’सि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥६४॥ मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो’सि मे ॥६५॥ सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥ इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां यो’भ्यसूयति ॥६७॥ य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥६८॥ न च तस्मान् मनुष्येषु कश्चिन् मे प्रिय-कृत्तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥६९॥ अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञान-यज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥७०॥ श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः । सो’पि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥७१॥ कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिद् अज्ञान-संमोहः प्रनष्टस् ते धनंजय ॥७२॥ अर्जुन उवाच नष्टो मोहः स्मृतिर् लब्धा त्वत्-प्रसादान् मयाच्युत । स्थितो’स्मि गत-सन्देहः करिष्ये वचनं तव ॥७३॥ संजय उवाच इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥७४॥ व्यास-प्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥७५॥ राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥७६॥ तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥७८॥ इति श्री-महाभारते शत-साहस्रयां संहिताय